संस्कृत सूची|संस्कृत साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः|

द्वितीयः भागः - मदात्ययाधिकारः

भावप्रकाशसंहिता


अथ विंशो मदात्ययाधिकारः ॥२०॥
मद्यं स्वभावतः प्राज्ञैर्यथैवान्नं तथा स्मृतम्
अयुक्तियुक्तं रोगाय युक्तियुक्तं रसायनम् ॥१॥
प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून्
विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ॥२॥
विधिना मात्रया काले हितैरन्नैर्यथाबलम्
प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा ॥३॥
अभ्यङ्गोत्सादनस्नानवासोधूपानुलेपनैः
स्निग्धोष्णैस्तादृशैरन्नैर्वातप्रकृतिकः पिबेत् ॥४॥
शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः
फलैरन्नैः सह नरः पित्तप्रकृतिकः पिबेत् ॥५॥
श्लैष्मिको जाङ्गलैर्मांसैर्मरिचैर्मदिरां पिबेत्
प्राक् पिबेच्छ्लैष्मिको मद्यं भुक्तस्योपरि पैत्तिकः ॥६॥
वातिकस्तु पिबेन्मध्ये समदोषो यथेच्छति
वातिकस्तु पिबेन्मद्यं प्रायो गौडिकपैष्टिकम् ॥७॥
कफपित्तात्मको यस्तु माध्वीकं माधवं पिबेत्
विधिर्वसुमतामेष कथितश्चरकादिभिः
यथोपपत्तिकं वाऽपि पिबेन्मद्यं हि मात्रया ॥८॥
रसवातादिमार्गाणां सत्त्वबुद्धीन्द्रि यात्मनाम्
प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ॥९॥
मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान्
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम् ॥१०॥
लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुकरं तथा
रुक्षं विकासि विशदं मद्यं दशगुणं स्मृतम् ॥११॥
गुरु शीतं मृदु स्निग्धं सान्द्रं स्वादु स्थिरं तथा
प्रसन्नं पिच्छिलं सूक्ष्ममोजो दशगुणं स्मृतम् ॥१२॥
गौरवं लाघवाच्छैत्यमौष्ण्यादम्लस्वभावतः
माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादञ्चाशु भावनात् ॥१३॥
रौक्ष्यात्स्नेहं व्यवायित्वात् स्थिरत्वं सूक्ष्मतामपि
विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्र तां तथा ॥१४॥
सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान्
सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्यकुरुते मदम् ॥१५॥
हृदि मद्यगुणाविष्टे हर्षस्तर्षो रतिः सुखम् ॥१६॥
विकाराश्च यथासत्त्वं चित्रा राजसतामसाः
जायन्ते मोहनिद्रा न्ता इत्येतन्मदलक्षणम् ॥१७॥
हर्षमोजो बलं पुष्टिमारोग्यं पौरुषं तथा
युक्त्या पीतं करोत्याशु मद्यं मदसुखप्रदम् ॥१८॥
रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम्
प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम् ॥१९॥
स्वापनं नष्टनिद्रा णां मूकानां वाग्विशोधनम्
नाशनं चातिनिद्रा णां विबन्धानां विबन्धनुत् ॥२०॥
वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम्
अपि प्रवयसां मद्यमुत्सर्गान्मोदकारकम् ॥२१॥
बहुदुःखक्षतस्यास्य शोकैरुपहतस्य च
विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम् ॥२२॥
बुद्धिस्मृतिप्रीतिकरः सुखश्च पानान्ननिद्रा रतिवर्द्धनश्च
सम्पाठगीतस्वरवर्द्धनश्च प्रोक्तोऽतिरम्यः प्रथमो मदो हि ॥२३॥
अव्यक्तबुद्धिस्मृतिवाग्विचेष्टः सोन्मत्तलीलाऽकृतिरप्रशान्तः
आलस्यनिद्रा ऽभिहतो मुहुश्च मध्येन मत्तः पुरुषो मदेन ॥२४॥
गच्छेदगम्यां न गुरुंश्च मन्येत्खादेदभक्ष्याणि च नष्टसञ्ज्ञः
ब्रूयाच्च गुह्यानि हृदि स्थितानिमदे तृतीये पुरुषोऽस्वतन्त्रः ॥२५॥
चतुर्थे तु मदे मूढो भग्नदार्विव निष्क्रियः
कार्याकार्यविभागज्ञो मृतादपि परो मृतः ॥२६॥
को मदं तादृशं गच्छेदुन्मादमिव चापरम्
बहुदोषमिवामूढः कान्तारं स्ववशः कृती ॥२७॥
नातिमाद्यन्ति बलिनः कृताहारा महाशनाः
स्निग्धाः सत्त्ववयोयुक्ता मद्यनित्यास्तदन्वयाः ॥२८॥
मेदःकफाधिका मन्दवातपित्तं दृढाग्नयः
विपर्ययेऽतिमाद्यन्ति विष्टब्धाः कुपिताश्च ये
मद्येन चाम्लरुक्षेण साजीर्णे बहुनाऽपि च ॥२९॥
विषस्य ये गुणा दृष्टा सन्निपातप्रकोपणाः
त एव मद्ये दृश्यन्ते विषे तु बलवत्तराः ॥३०॥
तस्मादविधिपीतेन तथा मात्राऽधिकेन च
युक्तेन चाहितैरन्नैरकालेसेवितेन च ॥३१॥
मद्येन खलु जायन्ते मदात्ययमुखा गदाः ॥३२॥
निर्भुक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्
उत्पादयेत्कष्टतमान्विकारानुत्पादयेच्चापि शरीरभेदम् ॥३३॥
क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन
व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि ॥३४॥
अत्यम्लरुक्षावततोदरेण साजीर्णभुक्तेन तथाऽबलेन
उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान्विकारान् ॥३५॥
मद्योत्पन्नविकारान् विवृणोति
पानात्ययं परमदं पानाजीर्णमथापि च
पानविभ्रममत्युग्रं तेषां वक्ष्यामि लक्षणम् ॥३६॥
शरीरदुःखं बलवत्प्रमोहो हृदयव्यथा
अरुचिः प्रततं तृष्णा ज्वरः शीतोष्णलक्षणः ॥३७॥
शिरःपार्श्वास्थिसन्धीनां वेदना विक्षते यथा
जायतेऽतिबला जृम्भा स्फुरणं वेपनं श्रमः ॥३८॥
उरोविबन्धः कासश्च हिक्का श्वासः प्रजागरः
शरीरकम्पः कर्णाक्षिमुखरोगस्त्रिकग्रहः ॥३९॥
छर्दिर्विड्भेद उत्क्लेशो वातपित्तकफात्मकः
श्रमः प्रलापो रूपाणामसताञ्चैव दर्शनम् ॥४०॥
तृणभस्मलतापर्णपांशुभिश्चावपूरणम्
प्रधर्षणं विहङ्गैश्च भ्रान्तचेताः स मन्यते ॥४१॥
व्याकुलानामशस्तानां स्वप्नानां दर्शनानि च
मदात्ययस्य रूपाणि सर्वाण्येतानि लक्षयेत् ॥४२॥
स्त्रीशोकभयभाराध्वकर्मभिर्योऽतिकर्षितः
रुक्षाल्पप्रमिताशी च यः पिवत्यतिमात्रया ॥४३॥
रूक्षं परिणतं मद्यं निशि निद्रां निहत्य च
करोति तस्य तच्छीघ्रं वातप्रायं मदात्ययम् ॥४४॥
हिक्काश्वासशिरःकम्पपार्श्वशूलप्रजागरैः
विद्याद्बहुप्रलापस्य वातप्रायं मदात्ययम् ॥४५
तीक्ष्णोष्णमद्यमम्लं च योऽतिमात्रं निषेवते
अम्लोष्णतीक्ष्णभोजी च क्रोधनोऽज्ञानवान्नरः
तस्योपजायते तीव्रः पित्तप्रायो मदात्ययः ॥४५॥
तृष्णादाहज्वरस्वेदमोहातीसारविभ्रमैः
विद्याद्धरितवर्णस्य पित्तप्रायं मदात्ययम् ॥४७॥
मधुरस्निग्धगुर्वाशी यः पिबत्यतिमात्रया ॥४८॥
अव्यायामदिवास्वप्नशय्यासनसुखे रतः
मदात्ययं कफप्रायं स नरो लभते ध्रुवम् ॥४९॥
छर्द्यरोचकहृंल्लासतन्द्रा स्तैमित्यगौरवैः
विद्याच्छीतपरीतस्य कफप्रायं मदात्ययम् ॥५०॥
त्रिदोषो हेतुभिः सर्वैः सर्वैर्लिङ्गैर्मदात्ययः ॥५१॥
श्लेष्मक्षयोऽङ्गगुरुता विरसास्यता च विण्मूत्रसक्तिरथ तन्द्रि ररोचकश्च
लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णा रुजा शिरसि सन्धिषु चापि भेदः ॥५२॥
आध्मानमुग्रमथवोद्गिरणं विदाहः पाने त्वजीर्णमुपगच्छति लक्षणानि
ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि ॥५३॥
हृद्गात्रतोदकफसंस्रवकण्ठधूम मूर्च्छावमीमदशिरोरुजनप्रदेहाः
द्वेषः सुराऽन्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेषु धीराः ॥५४॥
हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभाऽस्यमपि पानहतं त्यजेच्च
जिह्वौष्ठदन्तमसितन्त्वथ वाऽपि नीलम्पीते च यस्य नयने रुधिरप्रभे च
हिक्का ज्वरो वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं त्यजेत्तम् ॥५५॥
मद्योत्थानाञ्च रोगाणां मद्यमेव हि भेषजम्
यथा दहनदग्धानां दहनं स्वेदनं हितम् ॥५६॥
मिथ्याऽतिहीनमद्येन यो व्याधिरुपजायते
समेनैव निपीतेन मद्येन स हि शाम्यति ॥५७॥
बीजपूरकवृक्षाम्लकोलदाडिमसंयुतम्
यवानीहपुषाजाजी शृङ्गबेरावचूर्णितम् ॥५८॥
सस्नेहैः शक्तुभिर्युक्तमुपदंशैश्चिरोत्थितम्
दद्यात्सलवणं मद्यं वातपैत्तिकशान्तये ॥५९॥
मद्यं सौवर्चलव्योषयुक्तं किञ्चिज्जलान्वितम्
जीर्णमद्याय दातव्यं वातपानात्ययापहम् ॥६१॥
चव्यं सौवर्चलं हिङ्गु पूरकं विश्वदीपकम्
चूर्णं मद्येन पातव्यं पानात्ययरुजाऽपहम् ॥६०॥
लावतित्तिरदक्षाणां रसैश्च शिखिनामपि
पक्षिणां मृगमत्स्यानामानूपानां तथौदनैः ॥६२॥
स्निग्धोष्णलवणाम्लैश्च वेशवारैर्मुखप्रियैः
स्निग्धैर्गोधूमकैरन्नैर्वातप्रायं मदात्ययम् ॥६३॥
नारीणां यौवनोष्माणां निर्दयैरुपगूहनैः
श्रोण्यूरुकुचभारैश्च संरोधोष्णसुखप्रदैः ॥६४॥
शयनाच्छादनैरुष्णैश्चान्तर्गेहैः सुखप्रदैः
मारुतैः प्रबलैः शीघ्रं प्रशाम्यति मदात्ययः ॥६५॥
पित्तपानात्यये योज्याः सर्वतश्च क्रिया हिमाः
सितामाक्षिकसंयुक्तं मद्यमर्द्धोदकं पिबेत् ॥६६॥
मद्यं खर्जूरमृद्वीकापरूषकरसैर्युतम्
सदाडिमरसं शीतं शक्तुभिश्चावचूर्णितम् ॥६७॥
सशर्करं वा माध्वीकं संयुक्तमथ वा परम्
दद्याद्बहूदकं काले पातुं पित्तमदात्यये ॥६८॥
शशान्कपिञ्जलानेणांल्लावानसितपुच्छकान्
मधुराम्लान्प्रयुञ्जीत भोजने शालिषष्टिकान् ॥६९॥
पटोलयवमिश्रं वा छागलं कल्पयेद्र सम्
सतीनमुद्गमिश्रं वा दाडिमामलकान्वितम् ॥७०॥
द्रा क्षाऽमलकखर्जूरपरूषकरसेन च
कल्पयेत्तर्पणान्यूषान् रसांश्च विविधात्मकान् ॥७१॥
शीतानि चान्नपानानि शीतशय्यासनानि च
शीतवातजलस्पर्शाः शीतान्युपवनानि च ॥७२॥
क्षौमपद्मोत्पलानाञ्च मणीनां मौक्तिकस्य च
चन्दनोदकशीतानां स्पर्शाश्चन्द्रांशुशीतलाः ॥७३॥
रुक्षतर्पणसंयुक्तं यवानीव्योषसंयुतम्
यवगोधूमकञ्चान्नं रुक्षयूषेण भोजयेत् ॥७४॥
कुलत्थकानां शुष्काणां मूलकानां रसेन वा
प्रभूतकटुसंयुक्तं यवान्नं वा प्रदापयेत् ॥७५॥
छागमांसरसं रुक्षमम्लं वा जाङ्गलं रसम्
व्योषयूषं मनागम्लं पिबेत् कफमदात्यये ॥७६॥
स्थाल्यामथ कपाले वा भृष्टं कृत्वा तु नीरसम्
कट्वम्ललवणं मांसं खादेत्कफमदात्यये ॥७७॥
वामकद्र व्ययुक्तेन मद्येनोल्लेखनं मतम्
मदात्यये कफोद्भूते लङ्घनञ्च यथाबलम् ॥७८॥
यदिदं कर्म्मनिर्दिष्टं वातपित्तकफान्प्रति
सर्वजे सर्वमेवेदं प्रयोक्तव्यं चिकित्सकैः ॥७९॥
सगुडः कूष्माण्डरसः शमयति मदमाशु कोद्र वजम्
धत्तूरजञ्च दुग्धं सशर्करं चाशु पानेन ॥८०॥
सच्छर्दिमूर्च्छाऽतीसारं मदं पूगफलोद्भवम्
सद्यः प्रशमयेत्पीतमातृप्तेर्वारि शीतलम् ॥८१॥
वन्यकरीषघ्राणाज्जलपानाल्लवणभक्षणादपि च
शाम्यति पूगफलोद्भवमदः सशूलः सशर्कराकवलात् ॥८२॥
तत्क्षणान्मृदितं चूर्णं समाघ्रातं प्रणाशयेत्
ताम्बूलोत्थं मदं पुंसामेकमेव स्वभावतः ॥८३॥
जातीफलमदं शीघ्रं हन्ति पथ्या निषेविता
शीततोयावगाहश्च शर्करा दधियोजिता
बिभीतमदशान्त्यर्थमियमेव मता पुनः ॥८४॥
मद्यं पीत्वा यदि ना तत्क्षणमवलेढि शर्करां सघृताम्
जातु न मदयति मद्यं मनागपि प्रथितवीर्यमपि ॥८५॥
इति विंशो मदात्ययाधिकारः समाप्तः ॥२०॥

N/A

References : N/A
Last Updated : May 17, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP