संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|भावप्रकाशसंहिता|मध्यखण्डः|द्वितीयः भागः| मूर्च्छाभ्रमनिद्रातन्द्रासंन्यासाधिकारः द्वितीयः भागः अशोऽधिकारः जठरान्निगविकाराधिकारः कृमिरोगाधिकारः पाण्डुरोगकामलाहलीमकाधिकारः रक्तपित्ताधिकारः अम्लपित्तश्लेष्मपित्ताधिकारः राजयक्ष्माधिकारः कासरोगाधिकारः हिक्काऽधिकारः श्वासरोगाधिकारः स्वरभेदाधिकारः अरोचकाधिकारः छर्द्यधिकारः तृष्णाऽधिकारः मूर्च्छाभ्रमनिद्रातन्द्रासंन्यासाधिकारः मदात्ययाधिकारः दाहाधिकारः उन्मादाधिकारः अपस्माराधिकारः वातव्याध्यधिकारः ऊरुस्तम्भाधिकारः आमवाताधिकारः पित्तव्याध्यधिकारः श्लेष्मव्याध्यधिकारः वातरक्ताधिकारः द्वितीयः भागः - मूर्च्छाभ्रमनिद्रातन्द्रासंन्यासाधिकारः भावप्रकाशसंहिता Tags : aayurvedbhavprakash samhitasamhitaआयुर्वेदभावप्रकाश संहितासंहिता मूर्च्छाभ्रमनिद्रातन्द्रासंन्यासाधिकारः Translation - भाषांतर अथैकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा संन्यासाधिकारः ॥१९॥क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनःवेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः ॥१॥करणायतनेषूग्रो बाह्येष्वाभ्यन्तरेषु चनिविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ॥२॥संज्ञावहासु नाडीषु पिहितास्वनिलादिभिःतमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ॥३॥सुखदुःव्यपोहाच्च नरः पतति काष्ठवत्मोहो मूर्च्छेति तामाहुः षड्विधा सा प्रकीर्त्तिता ॥४॥वातादिभिः शोणितेन मद्येन च विषेण चषट्स्वप्येतासु पित्तन्तु प्रभुत्वेनावतिष्ठते ॥५॥हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलक्षयःसर्वासां पूर्वरूर्पाणि यथास्वं तां विभावयेत् ॥६॥नीलं वा यदि वा कृष्णमाकाशमथ वाऽरुणम्पश्यंस्तमः प्रविशति शीघ्रञ्च प्रतिबुध्यते ॥७॥वेपथुश्चाङ्गमर्दश्च प्रपीडा हृदयस्य चकार्श्यं श्यावारुणा च्छाया मूर्च्छाये वातसम्भवे ॥८॥रक्तं हरितवर्णं वा वियत्पीतमथापि वापश्यंस्तमः प्रविशति सस्वेदः प्रतिबुध्यते ॥९॥सपिपासः ससन्तापो रक्तपीताकुलेक्षणःसम्भिन्नवर्चाः पीताभो मूर्च्छाये पित्तसम्भवे ॥१०॥मेघसङ्काशमाकाशं तमोभिर्वा घनैर्वृतम्पश्यंस्तमः प्रविशति चिराच्च प्रतिबुध्यते ॥११॥गुरुभिः प्रावृतैरङ्गैर्यथैवार्द्रेण चर्मणासप्रसेकःसहृल्लासो मूर्च्छाये कफसम्भवे ॥१२॥सर्वाकृतिः सन्निपातादपस्मार इवागतःस जन्तुं पातयत्याशु विना बीभत्सचेष्टितैः ॥१३॥पृथिव्यम्भस्तमोरूपं रक्तगन्धस्तदन्वयःतस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाःद्र व्यस्वभावमित्येके दृष्ट्वा यदभिमुह्यति ॥१४॥स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः ॥१५॥गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोःत एव तस्मात्ताभ्यान्तु मोहौ स्यातां यथेरितौ ॥१६॥मद्येन प्रलपञ्छेते नष्टविभ्रान्तमानसःगात्राणि विक्षिपन्भूमौ जरां यावन्न याति तत् ॥१७॥वेपथुस्वप्नतृष्णाः स्युस्तमश्च विषमूर्च्छितेवेदितव्यं तीव्रतरं ययास्वं विषलक्षणैः ॥१८॥मूर्च्छा पित्ततमःप्राया रजःपित्तानिलाद् भ्रमःतमोवातकफात्तन्द्रा निद्रा श्लेष्मतमोभवा ॥१९॥इन्द्रि यार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमःनिद्रा ऽत्तस्येव यस्येहा तस्य तन्द्रां विनिर्दिशेत् ॥२०॥योऽनायासः श्रमो देहे प्रवृद्धः श्वाससङ्गतःक्लमः स इति विज्ञेय इन्द्रि यार्थप्रबाधकः ॥२१यदा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताःविषयेभ्यो निवर्त्तन्ते तदा स्वपिति मानवः ॥२२॥वाग्देहमनसां चेष्टामाक्षिप्यातिबला मलाःसंन्यस्यन्त्यबलं जन्तुं प्राणायतनमाश्रिताः ॥२३॥स ना संन्याससंन्यस्तः काष्ठीभूतो मृतोपमःप्राणैर्विमुच्यते शीघ्रं मुक्त्वा सद्यः फलां क्रियाम् ॥२४॥दोषेषु मदमूर्च्छाया गतवेगेषु देहिनःस्वयमप्युपशाम्यन्ति संन्यासो नौषधैर्विना ॥२५॥सेकावगाहा मणयःसहाराः शीताः प्रदेहा व्यजनानिलाश्चशीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि ॥२६॥सिद्धानिवर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्चतथा यवो लोहितशालयश्च मूर्च्छासु पथ्याः ससतीनमुद्राः ॥२७॥कोलमज्जोषणोशीरकेसरं शीतवारिणापीतं मूर्च्छां जयेल्लीढ्वा कृष्णां वा मधुसंयुताम् ॥२८॥शीतेन तोयेन बिसं मृणालं कृष्णां च पथ्यां मधुनाऽवलिह्यात्कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम् ॥२९॥द्रा क्षासितादाडिमलाजवन्ति कह्लारनीलोत्पलपद्मवन्तिपिबेत्कषायाणि च शीतलानि पिबेज्ज्वरं यानि शमं नयन्ति ॥३०॥शिरीषबीजगोमूत्रकृष्णामरिचसैन्धवैःअञ्जनं स्यात्प्रबोधाय सरसोनशिलावचैः ॥३१॥अञ्जनं सम्यगारब्धं मधुसिन्धुशिलोषणैःप्रमोहद्रो हि भवति भाषितं भिषजां वरैः ॥३२॥मधूकसारसिन्धूत्थवचोषणकणाः समाःश्लक्ष्णं पिष्ट्वाऽम्भसा नस्यं कुर्यात्संज्ञाप्रबोधनम् ॥३३॥रक्तजायान्तु मूर्च्छायां हितः शीतक्रियाविधिःमद्यजायां पिवेन्मद्यं निद्रां सेवेत वा सुखम्विषजायां विषघ्नानि भेषजानि प्रयोजयेत् ॥३४॥प्रभूतदोषस्तमसोऽतिरेकात्सम्मूर्छितो नैव विबुध्यते यःसंन्यस्तसंज्ञः स हि दुश्चिकित्स्यो नरो भिषग्भिः परिकीर्तितोऽसौ ॥३५॥अञ्जनान्यवपीडाश्च धूमाः प्रधमनानि चसूचीभिस्तोदनं शस्तं दाहः पीडा नखान्तरे ॥३६॥लुञ्चनं केशलोम्नाञ्च दन्तैर्दशनमेव चआत्मगुप्ताऽवघर्षश्च हितस्तस्य प्रबोधने ॥३७॥कणामधुयुतं सूतं मूर्च्छायां प्राशयेद्भिषक्शीतसेकावगाहादीन्सर्वाङ्गे पीडनं हठात् ॥३८॥ताम्रचूर्णसमोशीरं केशरं शीतवारिणापीतं मूर्च्छां द्रुतं हन्याद् वृक्षमिन्द्रा शनिर्यथा ॥३९॥पिबेद् दुरालभाक्वाथं सघृतं भ्रमशान्तयेपथ्याक्वाथेन संसिद्धं घृतं धात्रीरसेन वा ॥४०॥ताम्रं दुरालभाक्वाथः पीतन्तु घृतसंयुतम्निवारयेद् भ्रमं शीघ्रं तं यथा शम्भुभाषितम् ॥४१॥तुरङ्गलालालवणोत्तमेन्दुमनः शिलामागधिकामधूनि ॥४२॥नियोज्य तान्यक्ष्णि विमिश्रितानि तन्द्रां सनिद्रां विनिवारयन्ति ॥४३॥सैन्धवं श्वेतमरिचं सर्षपाः कुष्ठमेव चबस्तमूत्रेण सम्पिष्टं नस्यं तन्द्रा निवारणम् ॥४४॥शुण्ठीकणोग्रालवणोत्तमानि नस्येन तन्द्रा विजयोल्वणानिक्षुद्रा ऽमृतापौष्करनागराणि भार्गीशिवाभ्यां क्वथितानि पानात् ॥४५॥इत्येकोनविंशो मूर्च्छाभ्रमनिद्रा तन्द्रा सन्यासाधिकारः समाप्तः ॥१९॥ N/A References : N/A Last Updated : May 17, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP