संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकानृचनाम सप्तदशकाण्डः| ३६ ते ४० एकानृचनाम सप्तदशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ सप्तदशकाण्डः - ३६ ते ४० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ३६ ते ४० Translation - भाषांतर ३६यावस्य कर्णौ सा श्रद्धा ॥१॥चरा ऽचरा वै श्रद्धा तस्मात्कर्णौ मुहुर्वरीवर्जयति ॥२॥श्रद्द्धते ऽस्मै श्रद्धानी यो भवति य एवं वेद ॥३॥३७यास्य दक्षिणा हनुः सा जुहूर्या ददर्यासम् ॥१॥या सव्या सोपभृद य: कण्ठ: सा धुवा ॥२॥अग्निरास्यं विद्युज्जिह्वा मरुतो दन्ताः पवमानः प्राणः ॥३॥एषा वै मायामाहुर्वसोर्धारेति यदन्त्रगुदम् ।वसोरेव धारां समृद्धिमक्षतिमवरुन्द्धे य एवं वेद ॥४॥३८यदस्य चर्म तदभ्रं यानि लोमानि तानि नक्षत्राणि ॥१॥स्वेदो वर्षमूष्माणि ह्वारो यदोषधयश्च वनस्पतयश्चोवध्वम् ॥२॥ह्रारोयो ऽस्य दक्षिणोर्धोस्तौ शारदौ मासौ याः सव्यास्तौ हैमन्तौ ॥३॥यो ऽस्य जघनार्ध: तौ शैशिरौ मासौ य: पूर्वार्धस्तौ वासन्तौ ॥४॥यदस्य पृष्ठं तौ ग्रैष्मौ मासौ यन्मध्यं तौ वार्षिकौ ॥५॥संवत्सरो वा एष संभूतो येनानड्वान् येननडद्वतीन् ॥६॥कल्पन्ते अस्मा ऋतवो नर्तुष्वा वृश्चत ऋतूनां प्रिय भवति य एवं वेद ॥७॥३९तपश्च वरश्च महश्च यशश्चयदस्मिन्नन्तर्ऋचः सामानि यजूंषि ब्राह्मणं ॥१॥ब्रह्म चैव लोकं चावरुन्द्धेब्राह्मणवर्चसी भवति य एवं वेद ॥२॥४०अथ यदस्मिन्नन्त: ।शतं श्राद्धा: शतं दीक्षा शतं यज्ञा: शतं दक्षिणा: ॥१॥शतं भूतय: शतं पुष्टयः शतं प्रभूतय: शतं समृद्धयः ॥२॥शतं अभूतयः शतं निर्भूतयः शतं पराभूतयः शतमसमृद्धयः ॥३॥शतं सिन्ध्यानि शतं अब्गणानि शतं तमांसि शतं रुधिराणि ॥४॥य एवं विदुषो साधुकीर्तयत्येतैरेवैनं तमोभिः प्रोर्णोति ॥५॥यदस्य प्राचीनं नाभ्यास्तेन द्विषन्तमाविशति ॥६॥अथ यदस्य प्रतीचीन नाभ्यास्तेन मृत्युं नाष्ट्रामवर्तं तरति प्र पथो देवयानां जानाति य एवं वेद ॥७॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP