सप्तदशकाण्डः - ११ ते १५
पैप्पलादसंहिता
११
अप तस्य तमो हतं व्यावृत्तः स पाप्मना ।
सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥१॥
यो वेतसं हिरणययं तिष्ठन्तं सलिले वेद ।
स वै गुह्य: प्रजापतिः ॥२॥
न प्रजापतिमत्येति नात्येति परमेष्ठिनम् ।
उतोत तत्र नो ब्रूत यज्ज्येष्ठं परो अत्ययत् ॥३॥
अस्ति वै तत् परो भूमेरस्मि वै तत् परो दिव: ।
लोका वै तस्मिन् संप्रोताः यस्मिन्होताः प्रजा इमाः ॥४॥
इति एकानृचनाम सप्तदशकाण्डे द्वितीयो ऽनुवाकः.
१२
अन्त: पात्रे रेरिहतीं दु:शे दुर्निहितैषिणीम् ।
दुरण्डे अभिचंक्रमेवक्म के वस्तवासिनीम् ॥१॥
सर्वासां भण्वाव: साकं नामधेयानि विद्मसि ।
यानि जातानि वर्तति नश्यतेत: सदान्वा: ॥२॥
कर्णादृश द्रथामहमुलुकीं केशिनीं क्रकूम् ।
खडुरिमबर्हिष्यं नाशयाम: सदान्वा: ॥३॥
पण्डुगिरां फालजतीमसौसूक्ता निगारिणीम् ।
आमाताः सर्वा वो ब्रूमो नश्यतेतः सदान्वाः ॥४॥
याः शयानं जम्भयन्त नक्तमिच्छन्त्यातुरम्।
अथोदनस्य सुप्तस्य सुखहस्ता नि प्र लियन्ते।
तत् सदुदकमनोहिताः ता इतो नाशयामसि ॥५॥
आपतन्नीर्वक्षणाना वस्तगन्धाः सदान्वाः।
भण्वासि न हतोश्छामि तीक्ष्ण शृङ्ग इवर्षभः ॥६॥
सदान्वाः सादान्वेया स्त्रीपुंसान् उभयान् सह ।
सहे सहस्वान् सासह विमृधो हन्मि रक्षसः ॥७॥
चतुर्दंष्ट्रान् कुम्भमुस्कान् दीर्घकेशाङ् असृङ्मुखान् ।
अलाबुगन्धीनुन्दुरान्दुर्न्नाम्नो नाशयामसि ॥८॥
स्तम्भे जाता अधिपालेरोदाकाङ् रुदन्तीं त्वत् ।
दुर्णाम्नी: सर्वाः सन्तोका नाशयाम: सदान्वा: ॥९॥
यासां जातानि क्रोशन्ति हृश्छं तत् वने ज्वलत् उपवृक्षेषु शेरते।
दुर्णाम्नीः सर्वा: सन्तोका नाशयाम: सदान्वा: ॥१०॥
या वाताभ्र उत्पतन्ति ते च त्वा वर्षेण विद्युताः शाला इच्छन्ति सत्वरम् ।
दुर्णाम्नीः सर्वाः सन्तोका नाशयाम: सदान्वा: ॥११॥
१३
या धान्यात् संभवन्ति क्षेत्रादृप्ताव्यर्पितात् ।
कृतादभि प्राहार्या नश्यतेत: सदान्वा: ॥१॥
याः पुरुषाः पापगन्धाः सदारुक्षा विसृक्पदी।
ता वज्रेण समर्पयन् तिरोजेतः शचीपतेः ॥२॥
उत्तिष्ठतः निर्द्रवत न वेहास्ति न्यञ्चनम्।
इन्ट्रो व: सर्वासां साकं गर्भानाण्डानि भेत्स्यति ॥३॥
इन्द्र जहि स्थूरशङ्कं मृणीहि दुर्णिशीं कुहम् ।
अरायां शकधूम्यं नाशायामः सदान्वा: ॥४॥
किमा सुताध्वग्निह्वयमजमायुं च निघ्नती: ।
विटिटिङ्गाः प्रतोदिनीर्नाशयाम: सदान्वा: ॥५॥
यस्यां सुतं रन्धयद्ध्वेयुं यं भण्वाः सदान्वा: ।
त्रिष्ठं कृणुतांण्डरं यदारसेन तृप्यतामसुरामवमेहथ ॥६॥
तस्याः पीत्वावमन्यते ऽथो शीर्षक्त्याशये ।
ता एतान्न दूषणीं नाशयाम: सदान्वा: ॥७॥
अपारोगाञ्छकधूमान् वृक्षाणां यान्ति सत्वरम् ।
अथो दुर्हार्दसो गृहं प्र मृणन्त्वराया: ॥८॥
तासामेकात्मवृका शकावङ्का वने क्रुकुहि शनीका कनिक्रदा ।
सर्वासां भण्वाव: साकं नामधेयानि विद्मसि ।
यानि जातानि दस्युभ्यो नश्यतेत: सदान्वा: ॥९॥
सहस्वती प्र हरामीमां लां विषासहिम् ।
सदान्वाघ्नीमोषधीं जैत्रायाच्छावदामसि ॥१०॥
१४
दुश्शङ्काशे भीमचक्षोनग्ने भण्वे सदान्वे ।
ध्राजि त्विषिं शुचिमग्निमरायि किमिहेक्षसे ।
धूममाभि प्र गाह्यनिस्तूषामि सदान्वे ॥१॥
कङ्कैकाः पृषदेकाः किमुच्छ्रयन्त्यभिश्रिया ।
चरन्ति नक्तं दुर्णाम्नो रायी सूतकीष्यस्ता इतो नाशयामसि ॥२॥
अपक्रातामभिश्रयामानृत्यन्ती कुतूहलम् ।
कुशूलियं रसभञ्जनीङ्खलाज्जातास्त्रिवूक्यस्ता इतो नाशयामसि ॥३॥
या विकेशीरुन्मदित्योरना घोरचक्षव: ।
शीर्षाण्यान्यान्यासां वितावन्तीरिवासते ।
सदान्वा ब्रह्मणस्पते पदो भ्रूणान्यर्पय ॥४॥
यासां गन्धो नानारूप: पर्यैति पुरुषं पति ।
ता अग्नि: सहतामितो जातवेदा: सदान्वा: ता इतो नाशयामसि ॥५॥
या: पुरुषं दाह्यमानं शून्यमग्नौ जिघत्सन्ति ।
भण्वानिष्कुष्ठनामांसि मुष्टाग्रेण सदान्वाः ता इतो नाशयामसि ॥६॥
या दुचिता आ वपने शुष्कं खदन्ति वष्मुषाम् ।
वडवा गर्दभीरिव नाशयाम: सदान्वा: ॥७॥
गर्भानेक: प्रतिमृशन् या अदन्ति सदान्वाः ।
उचितस्तन्वो स्त्रीया गायो आ रोहिणीरिव ता इतो नाशयामसि ॥८॥
या: पित्र्यात्संभवन्तीन्द्रजा न: सदान्वा: ।
अपमृत्युमिवाभृतं पुनस्ता प्रति दध्मसि ॥९॥
आमादिनी: क्रूरादिनीरनग्निगन्ध्यादिनी:॥
अमुं परेभ्यो हुतं शवमत्त सदान्वाः । -
शव: केवल आचार: किमुशालास्युच्छ्रित: ॥१o॥
१५
या: कुमारीर्यास्थवीरा युवतीर्या: सदान्वा:।
सर्वा यन्तु कुरूटिनी: कुलिना धेनु सर्पत्वरायी रषिभा हिताः ॥१॥
ताभ्यो रुद्रो वि सृजत्विषिमध्यघघात्विनी ।
तास्ता हन्तु विद्युता वज्रेणानपराधिना ।
तासां त्वं शक्र मोच्छिष इन्द्र भण्वा: फलीकुरु: ॥२॥
कुमारानेका स्थवीरान् या अदन्ति प्रघातिनी: ।
ता इन्द्रो हन्तु वृत्रहा यो देवो विश्वाद्रक्षांसि सेधति ॥३॥
याश्च दासीरसुराणां मनुष्येभ्यश्च या: कृता: ।
उभयीस्ता: परा यन्तु परावती नवतिं नाव्या अति ॥४॥
यासां घोषाः संगतानां वृकाणामिव गङ्गण: ।
प्रचं कशामयिवारं प्रयच्छन्तीं प्रतिग्रहा नाशयाम: सदान्वा: ॥५॥
या निशां यथास्थामाद्रात्री यक्षाणी प्रेरते ।
अग्निष्ट्वा सर्वा साहन्त्यो विश्वाद्रक्षांसि सेधतु ॥६॥
या ऋक्षीका: कलिलान्ताप्सु जाता: पुरीकया: ।
गोपा आसामेको वेद यतो याता: सदान्वास्ता इतो नाशयामसि ॥७॥
गुरुछाया मूर्द्धार्यं शिशुमाकां प्रतिश्रुका ।
अति दुह्मा विचलन्तीं वितुलिमाम् ।
सर्वाश्चण्डसनप्त्यो नाशयाम: सदान्वा: ॥८॥
आवदन्तीं नामहूकां त्वं स्तनीकां वृङ्न्धपदीम।
उम्रिदन्तीमनामिकां नाशयाम: सदान्वा: ॥९॥
वावदाकामल्भगासां विजव्रां लवूं बव्रुम् ।
अरायीं वातमेजयान् नाशयाम: सदान्वा: ॥१०॥
(इति एकानृचनाम सप्तदशकाण्डे तृतीयो ऽनुवाकः)
N/A
References : N/A
Last Updated : May 12, 2021
TOP