संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|पैप्पलादसंहिता|एकानृचनाम सप्तदशकाण्डः| ६ ते १० एकानृचनाम सप्तदशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ सप्तदशकाण्डः - ६ ते १० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ६ ते १० Translation - भाषांतर ६द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।अग्निः सूर्य आपो मेधां विश्वेदेवाश्च सं ददुः ॥१॥अहमस्ति सहमान उत्तरो नाम भूम्याम् ।अभीषाडस्मि विश्वाषाडाशामाशां विषासहि: ॥२॥यददो देवी प्रथमानाः पुरस्ताद्देवैः सृष्टा व्यसर्पो महित्वम् ।आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥३॥ये ग्रामा यान्यरण्यानि याः सभा अधि भूम्याम् ।तेष्वहं देवि पृथिव्युद्वासं मधुमद् वचः ॥४॥यद् वदामि मधुमत् तद् वदामि यदीक्षे तद् वनन्तु मा ।त्विषीमानस्मि जूतिमानवान्यान् हन्मि दोधतः ॥!५॥अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत:मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम ॥६॥शन्तिवा सुरभिः स्योना कीलालोघ्नी पयस्वती ।भूमिर्नो अधि ब्रवीतु पृथिवी पयसा सह ॥७॥भूमे मातर्नि धेहि मां भद्रया सुप्रतिष्ठितम् ।संविदाना दिवा त्वं श्रियां मा धेहि भूत्याम् ॥८॥यामन्वैच्छद्धविषा विश्वकर्मा यस्यामासन्नग्नयो ऽप्स्वन्त: ।भुजिष्यं पात्रं निहितं गुहासीदाविर्भोगैरभवन्मातृमद्भ्य: ॥९॥त्वमस्यावपनी जनानामदिति: कामदुघा विश्वरूपा । दुधायत्त ऊनं तत्त आ पूरयाति प्रजापति: प्रजाभि: संविदान: ॥१०॥(इति एकानृचनाम सप्तदशकाण्डे प्रथमो ऽनुवाकः)७कस्मिन्नङ्गे तपो अस्याधि तिष्ठति कस्मिन्नङ्ग ऋतमस्याध्याहितम् ।क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्नङ्गे. सत्यमस्य प्रतिष्ठितम् ॥१॥क्व ब्रह्म क्व तिष्ठन्त्यापः कस्मिन्नङ्गे दिशो अस्य प्रतिष्ठिता: ।कतमदङ्गमनु संचरेते अहोरात्रे संविदाने समानम् ॥२॥कस्मिन्नङ्गे तिष्ठति भूमिरस्य कस्मिन्नङ्गे तिष्ठत्यन्तरिक्षम् ।कस्मिन्नङ्गे तिष्ठत्याहिता द्यौ: कस्मिन्नङ्गे तिष्ठन्त्युत्तरं दिवः ॥३॥कस्मादङ्गाद् दीप्यते ऽग्निरस्य कस्मादङ्गात् पवते मातरिश्वा ।कस्मादङ्गाद् दि मिमीतेधि चन्द्रमा स्कम्भस्य महद् वि मिमानो अङ्गम् ॥४॥क्व प्रेप्सन्दीप्यत ऊर्द्ध्वो अग्नि: क्व प्रेप्सन् पवते मातरिश्वा ।यत्र प्रेप्सन्तीरभियन्त्यावृत: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥५॥क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवत: संविदाने ।यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव स: ॥६॥क्वार्धमामा: क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।यत्र यन्त्यृतवो यत्रार्तवा: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥७॥यस्मिन् स्तब्ध्वा प्रजापतिर्लौकान् सर्वाङ् अधारयत् ।स्कम्भं तं ब्रूहि कतम: स्विदेव सः ॥८॥यत् परमं यच्च मध्यमं प्रजापति: ससृजे विश्वरूपम् ।कियता स्कम्भः प्र विवेश तत्र यन्न प्राविशत् कियत्तद् बभूव ॥९॥कियता स्कम्भ: प्र विवेश भूतं कियद् भविष्यदन्वाशयेस्य ।एकं यदङ्गमकृणोत् सहस्रधा कियता स्कम्भ: प्र विवेश तत्र ॥१०॥८यत्र लोकांश्च कोशांश्च ब्रह्म यत्र जना विदु: ।असच्च यत्र सच्चान्त:स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥१॥यत्र तपः पराक्रम्य ऋतं धारयत्युत्तरम् ।व्रतं च यत्र श्रद्धा च ब्रह्मापः समाहिता:स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२॥यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्नध्याहिता।यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताःस्कम्भं तं बूहि कतम: स्विदेव स: ॥३॥यस्य त्रयस्त्रिंशद् देवा अङ्गे सर्वे समाहिताःस्कम्भं तं बूहि कतम: स्विदेव स: ॥४॥यत्र ऋषयो भूतकृत ऋच: साम यजुर्मही ।एकर्षिर्यस्मिन्नार्पितःस्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥५॥यस्य चतस्र: प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः ।यज्ञो यस्मिन् पराक्रान्त: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥६॥यत्रामृतं च मृत्युश्च पुरुषश्च समाहिता: ।समुद्रो यस्य नाड्य: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥७॥ये पुरुषे ब्रह्म विदु: ते स्कम्भमनुसंविदुः ।यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् ।ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥८॥यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोभवन् ।अङ्गानि यस्य यातवः स्कम्भ तं ब्रूहि कतम: स्विदेव सः ॥९॥यस्य ब्रह्म मुखमाहुर्जिह्वा मधुकशामुत ।विराजं यस्योध आहु स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥९यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् ।छन्दांसि यस्य लोमानिस्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥१॥असच्छाखां प्रतिष्ठन्तीं परममिव जना विदु: ।उतो सन्मन्यन्तेवरे यस्य शाखामुपासते ॥२॥यत्रादित्याश्च रुद्राश्च वसवश्च समाहिता: ।स्कम्भं तं ब्रूहि कतम: स्विदेव स: ॥३॥यस्य त्रयस्त्रिंशद् देवा निधिं रक्षन्ति सर्वदा ।निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥४॥यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते ।यो वै तद्ब्रह्मणो वेद तं वै ब्रह्मविदो विदुः ॥५॥बृहन्तो नाम ते देवा असतस्परि यज्ञिरे ।एकं तदङ्गं स्कम्भस्यासदाहु: परो जना: ॥६॥यत्र स्कम्भ: प्रजनयन् पुराणं व्यवर्तयत् ।एकं तदङ्ग स्कम्भस्य पुराणमनुसंविदुः ॥७॥यस्य त्रयस्त्रिंशद् देवा अङ्गे गात्राणि भेजिरे ।तान् वै त्रयस्त्रिंशद्देवानेके ब्रह्म विदो विदुः ॥८॥हिरण्यगर्भं परममनत्युद्यं जना विदु: ।स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥९॥स्कम्भे लोकाः स्कम्भे तप: स्कम्भेध्यृतमाहितम् ।स्कम्भं त्वा विद्म प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥१०॥१०इन्द्रे लोका इन्द्रे तप इन्द्रेध्यृतमाहितम् ।इन्द्र त्वा विद्म प्रत्यक्षं स्कम्भे सर्वं समाहितम् ॥१॥नाम नाम्ना जोहवीमि पुरा सूर्यात् पुरोषस: ।यदजः प्रथमं संबभूव स ह तत् स्वराज्यं जगाम यस्मान्न: परमस्ति भूतम् ॥२॥यस्य भूमि: प्रमान्तरिक्षमुतोदरम् ।दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नम: ॥३॥यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्नव: ।अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नम: ॥४॥यस्य वातः प्राणापानौ चक्षुरङ्गिरसोभवन् ।दिशो ययश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नम: ॥५॥य: श्रमात्तपसो जातो लोकान् सर्वान् समानसे ।सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नम: ॥६॥स्कम्भो दाधार पृथिवीं द्यामुतामूंस्कम्भो दाधारोर्वन्तरिक्षम ।स्कम्भो दाधार प्रदिश: षडुर्वी:स्कम्भ इदं विश्वं भुवनमा विवेश ॥७॥कथं वातो नेलयति कथं न रमते मन: ।किमाप: सत्यं प्रेप्सन्ती: प्र चक्रमिति सर्वदा ॥८॥महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे ।तस्मिञ्छ्रयन्ते य उ के च देवा वृक्षस्यस्कन्ध: परित इव शाखा: ॥९॥यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा ।यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेमितंस्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP