संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|पैप्पलादसंहिता|एकानृचनाम सप्तदशकाण्डः| १ ते ५ एकानृचनाम सप्तदशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ सप्तदशकाण्डः - १ ते ५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता १ ते ५ Translation - भाषांतर १सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञ: पृथिवीं धारयन्तु ।सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥असंबाधं मध्यतो मानवेषु यस्या उद्वत: प्रवत: समं बहु ।नानावीर्या ओषधीर्या बिभर्त्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥यस्यां समुद्र उत सिन्धुरापो यस्यां देवा अमृतमन्वविन्दन् ।या बिभर्ति बहुधा प्राणदेजत् सा नो भूमिर्गोष्वप्यन्ने कृणोतु ॥३॥यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्त्तयन् ।यस्यामिदं जिन्वति विश्वमेजत् सा नो भूमिः पूर्वपेये दधातु ॥४॥यस्याश्चतस्र: प्रदिश: पृथिव्या यस्यामन्नं कृष्टय: संबभूवुः ।गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥विश्वम्भरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥यस्यामाप: परिचरा: समानीरहोरात्रे अप्रमादं क्षरन्ति ।सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षन्तु वर्चसा ॥७॥यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।सा नो मधु प्रियं दुहामथो उक्षन्तु वर्चसा ॥८॥यार्णवेधि सलिलमग्र आसीद्यां मायाभिरन्वचरन् मनीषिण: ।यस्या हृदयं परमे व्योमन्सत्येनावृतममृतं पृथिव्या: ।सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥९॥यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।इन्द्रो यां चक्र आत्मने अनमित्राञ्छचीपतिः ।सा नो भूमिर्वि सृजतां माता पुत्राय न: पय: ॥१०॥ २गिरयस्ते पर्वता हिमवन्तोरण्यं ते पृथिवि स्योनमस्तु न: ।बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।अजितोहतोक्षतो ऽध्यष्ठां पृथिवीमहम् ॥१॥यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्यस्तन्व: संबभूवुः । वभूबुःतासु नो धेह्यभि नः पवस्व माता भूमि: पुत्रो अहं पृथिव्या: ।पर्यन्यः पिता स उ न: पिपर्त्तु ॥२॥यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माण: ।यस्यां मीयन्ते स्वरव: पृथिव्यामूर्ध्वा: शुक्रा आहुत्या: पुरस्तात् ।सा नो भूमिर्वर्धयद् वर्धमाना ॥३॥यो नो द्वेषत् पृथिवि य: पृतन्याद् यो ऽभिमन्यातै मनसा वधेन ।तं नो भूमे रन्धय पूर्वकृत्वरि ॥४॥त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदश्चतुष्पद: ।त्वयी मे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन् सूर्यो रश्मिभिरातनोति ॥५॥ता नः प्रजा: सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ।विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।शिवां स्योनामनु चरेम विश्वहा ॥६॥महत् सधस्थं महति बभूविथ महान् वेग एजथुर्वेपथुष्टे॥महांस्त्वेन्द्रो रक्षति वीर्येण सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि ॥७॥अग्निर्भूम्यामग्निरोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नय: ! ॥८॥३अग्निर्दिव आ तपत्यग्नेर्देवस्योर्व अन्तरिक्षम् ।अग्निं मर्त्यास इन्धते हव्यवाहं घृतप्रियम् ॥१॥अग्निवासा: पृथिव्यसितञ्जूस्त्विषीमन्तं संशितं मा कृणोतु ।भूम्यां देवेभ्यो जुह्वति यज्ञं हव्यमरंकृतम् ॥२॥भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।सा नो भूमि: प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥३॥यस्ते गन्ध: पृथिवी संबभूव यं बिभ्रत्योषधयो यमापः ।यं गन्धर्वाप्सरसश्च भेजिरे यस्तेगामश्वमर्हति ।तेनास्मान् सुरभिन् कृणु मा नो द्विक्षत कश्चन ॥४॥यस्ते गन्धः पुष्करमाविवेश यं संजभू: सूर्याया विवाहे ।अमर्त्याः पृथिवी गन्धमग्रे ।तेनास्मान् सुरभिन् कृणु मा नो द्विक्षत कश्चन ॥५॥यस्ते भूमे पुरुषेषु स्त्रीषु पुंसु भगो रुचिर्यो वधूषु वधूयुषु ।यो गोष्वश्वेषु यो मृगेषूत हस्तिषु ।कन्यायां वर्चो यद् भूमे तेनास्माङ् अधि सं सृज मा नो द्विक्षत कश्चन ॥६॥शिला भूमिरश्मा पांसुर्या भूमि: संधृता धृता ।यस्यां वृक्षा वानस्पत्या धुवास्तिष्ठन्ति विश्वहा ।भूमिं हिरण्यवक्षसं घृतामच्छावदामसि ॥७॥उदीराणा उतासीनास्तिष्ठन्त: प्रक्रामन्त: ।पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥८॥विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।ऊर्जं पुष्टिं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदामि भूमे ॥९॥शुद्धा म आपस्तन्वे: क्षरन्ति यो मे सेदुरप्रिये तं नि दध्म: ।पवित्रेण पृथिवि मोत् पुनामि ॥१०॥निधीन् बिभ्रती बहुधा गुहा वसु मणिx हिरण्यं पृथिवी ददातु न:।वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥११॥४यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्या पश्चात् ।स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाण: ॥१॥मा मा पश्चान्मा पुरस्तान्नुदिष्ठा स्वस्ति भूमे मे कृणु ।वरीयो यावया वधं मा विदन् परिपन्थिनः ॥२॥यावत् तेभि विपश्यामि भूमे सूर्यण मेदिना ।तावन्मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥३॥यत्ते भूमे विखनाम्योषं तदपि रोहतु ।मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम ॥४॥शौअ १२.१.३५यच्छयानः पर्यावर्ते दक्षिणं सव्यमभि भूमे पार्श्वम् ।उत्तानास्त्वा प्रतीचीं पृष्ट्या यदधिशेमहे ।मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥५॥ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्त: ।ऋतवस्ते विहिता हायना अहोरात्रे पृथिवी नो दुहाताम् ॥६॥याप सर्पन्नुदमाना विमृग्वरी यस्यामासन्नग्नयो अप्स्वन्त:॥७॥परा दस्यून् ददती देवपीयूनिन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दधे वृषभाय वृष्णे ।सा नो भूमिरा दिशतु यद्धनं कामयामहे ॥८॥भगो अनुप्रयुङक्तामिन्द्रो यातु पुरोगवः ।यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ॥९॥ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विद: ।युज्यन्ते यस्यामृत्विज: सोममिन्द्राय पातवे ।सा नो भूमिर्दक्षिणायां सुशेवा यज्ञे दधातु सुमनस्यमाना ॥१०॥यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।सप्त सत्त्रेण वेधसो यज्ञेन तपसा सह ॥११॥सा न: पशून् विश्वरूपां दधातु दीर्घमायुः सविता कृणोतु ।यस्यामन्नं व्रीहियवौ यत्रेमा: पञ्च कृष्टयः ।भूम्यै पर्जन्यपत्न्यै नमोस्तु वर्षमेदसे ॥१२॥५यस्यां गायन्ति नृत्यन्ति जना मर्त्या व्यैलवा: ।युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभि: ।सा नो भूमिः प्र णुदतां सपत्नान् यो नो द्वेष्टयधरं तं कृणोतु ॥१॥यस्यां पुरो देवकृता: क्षेत्रे यस्यां विकुर्वते ।प्रजापति: पृथिवीं विश्वगर्भामाशामाशा रण्यां न: कृणोतु ॥२॥जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।सहस्रं धारा द्रविणस्य नो दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥३॥यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो मलो गुहा शये ।क्रिमिर्जिन्वत् पृथिवि प्रावृषि यदेजति तन्नः सर्पन्मोप सृपद् यच्छिवं तेन नो मृड ॥४॥ये ते पन्थानो बहवो जनायना रथस्य अंतर्मानसश्व यातवे ।यच्छिवं तेन नो मृड ॥५॥मल्वं बिभ्रती गुरुभृद् भद्रपापस्य निधनं तितिक्षुः ।सूकरेण पृथिवी संविदाना वराहाय वि जिहीते मृगाय ॥६॥ये त आरण्या: पशवो मृगा वने हिता:सिंहा व्याघ्रा: पुरुषादश्चरन्ति॥उलं वृकं पृथिवि दुच्छुनामित ऋक्षीकां रक्षो अप बाधयास्मत् ॥७॥ये गन्धर्वा अप्सरसो ये चाराया: किमीदिन: ।पिशाचान् सर्वा रक्षांसि तानस्मद् भूमे यावय ॥८॥यां द्विपाद: पक्षिण: संपतन्ति हंसाः सुपर्णा: शकुना वयांसि ।यस्यां वात ईयते मातरिश्वा रजांसि कृण्वं श्चयावयंश्च वृक्षान् ॥९॥वातस्य प्रवामुपवामनु वात्यर्चि: यस्यां कृष्णमरुणं च संभृते अहोरात्रे विहिते भूम्यामधि ।वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥१०॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP