संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|एकानृचनाम सप्तदशकाण्डः| २६ ते ३० एकानृचनाम सप्तदशकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ सप्तदशकाण्डः - २६ ते ३० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २६ ते ३० Translation - भाषांतर २६द्यावापृथिवी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्म: ॥१॥वाता पवमानौ वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥२॥इन्द्राग्नी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥३॥मित्रावरुणौ वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥४॥भवाशर्वौ वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥५॥देवाश्विना वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्म: ॥६॥देवा मरुतो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥७॥देवाः पितरो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥८॥देव सूर्य वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥९॥देव चन्द्रमो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१०॥देवा नक्षत्राणि वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्मः ॥११॥देवीरापो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्म: ॥१२॥देव विष्णो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१३॥देव त्वष्टर्वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१४॥देव धातर्वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१५॥देव सवितर्वह दुष्वप्न्यं परा वह दुष्वप्न्यम्॥अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्म: ॥१६॥देव पूषन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१७॥देव बृहस्पते वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ॥१८॥देव प्रजापते वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्मः ॥१९॥देव परमेष्ठिन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्मः ॥२०॥अहोरात्रे वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्म: ॥२१॥(इति एकानृचनाम सप्तदशकाण्डे पञ्चमो ऽनुवाको )२७इन्द्रो वज्रमसिञ्चत वृत्राय हन्तवे ।त्वष्टा वज्रमसिञ्चत वृत्राय हन्तवे ॥१॥यो वज्रः सो विश्वानरो यत् ते अग्नेर्वीर्यं स विश्वाषाड् यन्ति आरम्भणंस वैश्वानर: ॥२॥एतद् वा इदं सर्वं यत् एतानि त्रीणि ॥३॥विश्वानरो वैश्वानरो विश्वाषाट् ॥४॥सर्वाण्येव पुण्याल्लोकानवरुन्द्धे सर्वाश्व देवता य एवं विद्वाननडुहो व्रतं बिभर्ति ॥५॥२८तमादत्त तमुदैङ्गयत् तमुपामिमीत प्र भराणीति ।सोम्यहस्तादमुच्यत दैवो वज्रः क्षुर: पविः सहस्रपृष्टिर्दिवस्पृशः ॥२॥स संसिजानोतिष्ठद्धरुहरा भवन्नेतदिच्छन् ॥३॥स समुद्रं प्राविशत् स समुद्रमदहत् ॥४॥तस्मात् समुद्रो दुर्गरपि व वैश्वानरेण हि दग्धः ॥५॥स शक्र उदक्रामत् सोध्यायदसौ वज्रै: आसुरैः सपद्यदेवासुरक्षति व्रतं चराणीति स व्रतमचरत् ॥६॥सो ऽणु: कृशो भवति तस्मादणु: कृशो व्रतचारी भवत्यवडुयि कृशो भूत्वेन्द्रो असुरानुपावृङक्त ॥७॥स परमेष्ठिन् उपाधावत् ।स प्रजापतिम् उपाधावत् ।स विष्णुम् उपाधावत् ।स गृहपतिम् उपाधावत् ।स विराजम् उपाधावत् ।स स्वराजम् उपाधावत् ।स सम्राजम् उपाधावत् ।सो ऽहरात्रे उपाधावत् ।सो ऽर्धमासान् उपाधावत् ।स मासान् उपाधावत् ।स ऋतून् उपाधावत् ।स आर्त्तवान् उपाधावत् ।स ऋषीन् उपाधावत् ।स आर्षेयान् उपाधावत् ।सो ऽङ्गिरसान् उपाधावत् ।सो आङ्गिरसान् उपाधावत् ।सो अथर्वणम् उपाधावत् ।सो आथर्वणान् उपाधावत् ॥८॥विश्वान्देवान् मरुद्गणान् तमन्दसान्दवं स्तोम प्रथमोथेन्द्राग्नी ।तमुपामन्त्रयेते पुण्यया वाचा क्रूरया वाचा हहिष्या वाचा स सावित्न्यन् ।अथैषा मोपचामे निष्यसीति ।स उपशाम्यत् ।तस्माद् यो ब्रह्म वेदोतापस्स तं शमयति दोहयत् एवैनाम् ॥९॥तमृक्सामाभ्यां उतभितो यजुषा यज्ञेन गायत्रेण वामदैव्येन च॥१०॥एतद् वा इदं सर्वं यद् ऋक्सामौ एताविन्द्रस्य बाहू ।तमादत्त तं परूंष्या धत्ते ।प्रजा वै समृद्धिमक्षतिं पशवः परूंषि ।प्रजामेव समृद्धिमक्षतिमव रुन्द्धे य एवं वेद ॥११॥२९स दिक्षु प्रत्यतिष्ठत् ॥१॥दिश एवानु प्रति तिष्ठति य एवं वेद ॥२॥३०स विश्वामाह्यक्रमात ।एष वै विश्वाषाड्यौरेवासी ॥१॥एते वै सर्वे पुण्यलोकाः सर्वाश्च देवताः स नाधारयत् ॥२॥सर्वानेव पुण्याल्लोकानवरुन्द्धे ॥३॥सर्वाश्च देवता य एवं वेद ॥४॥ N/A References : N/A Last Updated : May 12, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP