चिकित्सास्थानम् - एकविंशोऽध्यायः
हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.
अथातो वातव्याधिचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
केवलं निरुपस्तम्भमादौ स्नेहैरुपाचरेत्
वायुं सर्पिर्वसामज्जतैलपानैर्नरं ततः ॥१॥
स्नेहक्लान्तं समाश्वास्य पयोभिः स्नेहयेत्पुनः
यूषैर्ग्राम्योदकानूपरसैर्वा स्नेहसंयुतैः ॥२॥
पायसैः कृसरैः साम्ललवणैः सानुवासनैः
नावनैस्तर्पणैश्चान्नैः सुस्निग्धैः स्वेदयेत्ततः ॥३॥
स्वभ्यक्तं स्नेहसंयुक्तैः शङ्कराद्यैः पुनः पुनः
स्नेहाक्तं स्विन्नमङ्गं तु वक्रं स्तब्धं सवेदनम् ॥४॥
यथेष्टमानामयितुं सुखमेव हि शक्यते
शुष्काण्यपि हि काष्ठानि स्नेहस्वेदोपपादनैः ॥५॥
शक्यं कर्मण्यतां नेतुं किमु गात्राणि जीवताम्
हर्षतोदरुगायामशोफ स्तम्भग्रहादयः ॥६॥
स्विन्नस्याशु प्रशाम्यन्ति मार्दवं चोपजायते
स्नेहश्च धातून् संशुष्कान् पुष्णात्याशूपयोजितः ॥७॥
बलमग्निबलं पुष्टिं प्राणांश्चास्याभिवर्धयेत्
असकृत्तं पुनः स्नेहैः स्वेदैश्च प्रतिपादयेत् ॥८॥
तथा स्नेहमृदौ कोष्ठे न तिष्ठन्त्यनिलामयाः
यद्येतेन सदोषत्वात्कर्मणा न प्रशाम्यति ॥९॥
मृदुभिः स्नेहसंयुक्तैर्भेषजैस्तं विशोधयेत्
घृतं तिल्वकसिद्धं वा सातलासिद्धमेव वा ॥१०॥
पयसैरण्डतैलं वा पिबेद्दोषहरं शिवम्
स्निग्धाम्ललवणोष्णाद्यैराहारैर्हि मलश्चितः ॥११॥
स्रोतो बद्ध्वाऽनिलं रुन्ध्यात्तस्मात्तमनुलोमयेत्
दुर्बलो योऽविरेच्यः स्यात्तं निरूहैरुपाचरेत् ॥१२॥
दीपनैः पाचनीयैर्वा भोज्यैर्वा तद्युतैर्नरम्
संशुद्धस्योत्थिते चाग्नौ स्नेहस्वेदौ पुनर्हितौ ॥१३॥
आमाशयगते वायौ वमितप्रतिभोजिते
सुखाम्बुना षड्धरणं वचादिं वा प्रयोजयेत् ॥१४॥
सन्धुक्षितेऽग्नौ परतो विधिः केवलवातिकः
मत्स्यान्नाभिप्रदेशस्थे सिद्धान्बिल्वशलाटुभिः ॥१५॥
बस्तिकर्म त्वधोनाभेः शस्यते चावपीडकः
कोष्ठगे क्षारचूर्णाद्या हिताः पाचनदीपनाः ॥१६॥
हृत्स्थे पयः स्थिरासिद्धम् शिरोबस्तिः शिरोगते
स्नैहिकं नावनं धूमः श्रोत्रादीनां च तर्पणम् ॥१७॥
स्वेदाभ्यङ्गनिवातानि हृद्यं चान्नं त्वगाश्रिते
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ॥१८॥
विरेको मांसमेदःस्थे निरूहाः शमनानि च
बाह्याभ्यन्तरतः स्नेहैरस्थिमज्जगतं जयेत् ॥१९॥
प्रहर्षोऽन्न च शुक्रस्थे बलशुक्रकरं हितम्
विबद्धमार्गं दृष्ट्वा तु शुक्रं दद्याद्विरेचनम् ॥२०॥
विरिक्तं प्रतिभुक्तं च पूर्वोक्तां कारयेत्क्रियाम्
गर्भे शुष्के तु वातेन बालानां च विशुष्यताम् ॥२१॥
सिताकाश्मर्यमधुकैः सिद्धमुत्थापने पयः
स्नावसन्धिशिराप्राप्ते स्नेहदाहोपनाहनम् ॥२२॥
तैलं सङ्कुचितेऽभ्यङ्गो माषसैन्धवसाधितम्
आगारधूमलवणतैलैर्लेपः स्रुतेऽसृजि ॥२३॥
सुप्तेऽङ्गे वेष्टयुक्ते तु कर्तव्यमुपनाहनम्
अथापतानकेनार्तमस्रस्ताक्षमवेपनम् ॥२४॥
अस्तब्धमेढ्रमस्वेदं बहिरायामवर्जितम्
अखट्वाघातिनं चैनं त्वरितं समुपाचरेत् ॥२५॥
तत्र प्रागेव सुस्निग्धस्विन्नाङ्गे तीक्ष्णनावनम्
स्रोतोविशुद्धये युञ्ज्यादच्छपानं ततो घृतम् ॥२६॥
विदार्यादिगणक्वाथदधिक्षीररसैः शृतम्
नातिमात्रं तथा वायुर्व्याप्नोति सहसैव वा ॥२७॥
कुलत्थयवकोलानि भद्र दार्वादिकं गणम्
निःक्वाथ्यानूपमांसं च तेनाम्लैः पयसाऽपि च ॥२८॥
स्वादुस्कन्धप्रतीवापं महास्नेहं विपाचयेत्
सेकाभ्यङ्गावगाहान्नपाननस्यानुवासनैः ॥२९॥
स हन्ति वातं ते ते च स्नेहस्वेदाः सुयोजिताः
वेगान्तरेषु मूर्धानमसकृच्चास्य रेचयेत् ॥३०॥
अवपीडैः प्रधमनैस्तीक्ष्णैः श्लेष्मनिबर्हणैः
श्वसनासु विमुक्तासु तथा संज्ञां स विन्दति ॥३१॥
सौवर्चलाभयाव्योषसिद्धं सर्पिश्चलेऽधिके ॥३१॥१
पलाष्टकं तिल्वकतो वरायाःप्रस्थं पलांशं गुरुपञ्चमूलम्
सैरण्डसिंहीत्रिवृतं घटेऽपा पक्त्वा पचेत्पादशृतेन तेन ॥३२॥
दध्नः पात्रे यावशूकात्त्रिबिल्वैः सर्पिःप्रस्थं हन्ति तत्सेव्यमानम्
दुष्टान् वातानेकसर्वाङ्गसंस्थान् योनिव्यापद्गुल्मवर्ध्मोदरं च ॥३३॥
विधिस्तिल्वकवज्ज्ञेयो रम्यकाशोकयोरपि ॥३४॥
चिकित्सितमिदं कुर्याच्छुद्धवातापतानके
संसृष्टदोषे संसृष्टं चूर्णयित्वा कफान्विते ॥३५॥
तुम्बरूण्यभया हिङ्गु पौष्करं लवणत्रयम्
यवक्वाथाम्बुना पेयं हृत्पार्श्वार्त्यपतन्त्रके ॥३६॥
हिङ्गु सौवर्चलं शुण्ठी दाडिमं साम्लवेतसम्
पिबेद्वा श्लेष्मपवनहृद्रो गोक्तं च शस्यते ॥३७॥
आयामयोरर्दितवद्बाह्याभ्यन्तरयोः क्रिया
तैलद्रो ण्यां च शयनमान्तरोऽत्र सुदुस्तरः ॥३८॥
विवर्णदन्तवदनः स्रस्ताङ्गो नष्टचेतनः
प्रस्विद्यंश्च धनुष्कम्भी दशरात्रं न जीवति ॥३९॥
वेगेष्वतोऽन्यथा जीवेन्मन्देषु विनतो जडः
खञ्जः कुणिः पक्षहतः पङ्गुलो विकलोऽथवा ॥४०॥
हनुस्रंसे हनू स्निग्धस्विन्नौ स्वस्थानमानयेत्
उन्नामयेच्च कुशलश्चिबुकं विवृते मुखे ॥४१॥
नामयेत्संवृते शेषमेकायामवदाचरेत्
जिह्वास्तम्भे यथावस्थं कार्यं वातचिकित्सितम् ॥४२॥
अर्दिते नावनं मूर्ध्नि तैलं श्रोत्राक्षितर्पणम्
सशोफे वमनं दाहरागयुक्ते सिराव्यधः ॥४३॥
स्नेहनं स्नेहसंयुक्तं पक्षाघाते विरेचनम्
अवबाहौ हितं नस्यं स्नेहश्चोत्तरभक्तिकः ॥४४॥
ऊरुस्तम्भे तु न स्नेहो न च संशोधनं हितम्
श्लेष्माममेदोबाहुल्याद्युक्त्या तत्क्षपणान्यतः ॥४५॥
कुर्याद्रू क्षोपचारश्च यवश्यामाककोद्र वाः
शाकैरलवणैः शस्ताः किञ्चित्तैलैर्जलैः शृतैः ॥४६॥
जाङ्गलैरघृतैर्मांसै र्मध्वम्भोरिष्टपायिनः
वत्सकादिर्हरिद्रा दिर्वचादिर्वा ससैन्धवः ॥४७॥
आढ्यवाते सुखाम्भोभिः पेयः षड्धरणोऽथवा
लिह्यात्क्षौद्रे ण वा श्रेष्ठाचव्यतिक्ताकणाघनान् ॥४८॥
कल्कं समधु वा चव्यपथ्याग्निसुरदारुजम्
मूत्रैर्वा शीलयेत्पथ्यां गुग्गुलुं गिरिसम्भवम् ॥४९॥
व्योषाग्निमुस्तत्रिफलाविडङ्गैर्गुग्गुलुं समम्
खादन् सर्वान् जयेद्व्याधीन् मेदःश्लेष्मामवातजान् ॥५०॥
शाम्यत्येवं कफाक्रान्तः समेदस्कः प्रभञ्जनः
क्षारमूत्रान्वितान् स्वेदान् सेकानुद्वर्तनानि च ॥५१॥
कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपैः
मूलैर्वाऽप्यर्कतर्कारीनिम्बजैः ससुराह्वयैः ॥५२॥
सक्षौद्र सर्षपापक्वलोष्ट वल्मीकमृत्तिकैः
कफक्षयार्थं व्यायामे सह्ये चैनं प्रवर्तयेत् ॥५३॥
स्थलान्युल्लङ्घयेन्नारीः शक्तितः परिशीलयेत्
स्थिरतोयं सरः क्षेमं प्रतिस्रोतो नदीं तरेत् ॥५४॥
श्लेष्ममेदःक्षये चात्र स्नेहादीनवचारयेत्
स्थानदूष्यादि चालोच्य कार्या शेषेष्वपि क्रिया ॥५५॥
सहचरं सुरदारु सनागरं क्वथितमम्भसि तैलविमिश्रितम्
पवनपीडितदेहगतिः पिबन् द्रुतविलम्बितगो भवतीच्छया ॥५६॥
रास्नामहौषधद्वीपि पिप्पलीशठिपौष्करम्
पिष्ट्वा विपाचयेत्सर्पिर्वातरोगहरं परम् ॥५७॥
निम्बामृतावृषपटोल निदिग्धिकानां भागान् पृथक् दश पलान् विपचेद्घटेऽपाम्
अष्टांशशेषितरसेन पुनश्च तेन प्रस्थं घृतस्यविपचेत्पिचुभागकल्कैः ॥५८॥
पाठाविडङ्गसुरदारु गजोपकुल्या द्विक्षारनागरनिशामिशि चव्यकुष्ठैः
तेजोवतीमरिचवत्सकदीप्यकाग्नि रोहिण्यरुष्करवचा कणमूलयुक्तैः ॥५९॥
मञ्जिष्ठयाऽतिविषया विषया यवान्या संशुद्धगुग्गुलुपलैरपि पञ्चसङ्ख्यैः
तत्सेवितं विधमति प्रबलं समीरं सन्ध्यस्थिमज्जगतमप्यथ कुष्ठमीदृक् ॥६०॥
नाडीव्रणार्बुद भगन्दरगण्डमाला जत्रूर्ध्वसर्वगद गुल्मगुदोत्थमेहान्
यक्ष्मारुचिश्वसनपीन सकासशोफ हृत्पाण्डुरोगमद विद्र धिवातरक्तम् ॥६१॥
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत्
तस्य शुक्तिः प्रकुञ्चो वा नस्यं वाते शिरोगते ॥६२॥
तद्वत्सिद्धा वसा नक्रमत्स्यकूर्मचुलूकजा
विशेषेण प्रयोक्तव्या केवले मातरिश्वनि ॥६३॥
जीर्णं पिण्याकं पञ्चमूलं पृथक् च
क्वाथ्यं क्वाथाभ्यामेकतस्तैलमाभ्याम्
क्षीरादष्टांशं पाचयेत्तेन पानाद्वाता
नश्येयुः श्लेष्मयुक्ता विशेषात् ॥६४॥
प्रसारिणीतुलाक्वाथे तैलप्रस्थं पयःसमम्
द्विमेदामिशिमञ्जिष्ठाकुष्ठरास्नाकुचन्दनैः ॥६५॥
जीवकर्षभकाकोली युगलामरदारुभिः
कल्कितैर्विपचेत्सर्व मारुतामयनाशनम् ॥६६॥
समूलशाखस्य सहाचरस्य तुलां समेतां दशमूलतश्च
पलानि पञ्चाशदभीरुतश्च पादावशेषं विपचेद्वहेऽपाम् ॥६७॥
तत्र सेव्यनखकुष्ठहिमैला स्पृक्प्रियङ्गुनलिकाम्बुशिलाजैः
लोहितानलदलोहसुराह्वैः कोपनामिशितुरुष्कनतैश्च ॥६८॥
तुल्यक्षीरं पालिकैस्तैलपात्रं सिद्धं कृछ्रान् शीलितंहन्ति वातान्
कम्पाक्षेपस्तम्भ शोषादियुक्तान् गुल्मोन्मादौपीनसं योनिरोगान् ॥६९॥
सहाचरतुलायास्तु रसे तैलाढकं पचेत्
मूलकल्काद्दशपलं पयो दत्त्वा चतुर्गुणम् ॥७०॥
अथवा नतषड्ग्रन्थास्थिराकुष्ठसुराह्वयात्
सैलानलदशैलेयशताह्वारक्तचन्दनात् ॥७१॥
सिद्धेऽस्मिन् शर्कराचूर्णादष्टादशपलं क्षिपेत्
भेडस्य सम्मतं तैलं तत्कृच्छ्राननिलामयान् ॥७२॥
वातकुण्डलिकोन्मादगुल्मवर्ध्मादिकान् जयेत्
बलाशतं छिन्नरुहापादं रास्नाष्टभागिकम् ॥७३॥
जलाढकशते पक्त्वा शतभागस्थिते रसे
दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं समैः ॥७४॥
पचेत्साजपयोर्धांशं कल्कैरेभिः पलोन्मितैः
शठीसरलदार्वेला मञ्जिष्ठागुरुचन्दनैः ॥७५॥
पद्मकातिबलामुस्ता शूर्पपर्णीहरेणुभिः
यष्ट्याह्वसुरसव्याघ्र नखर्षभकजीवकैः ॥७६॥
पलाशरसकस्तूरी नलिकाजातिकोशकैः
स्पृक्काकुङ्कुमशैलेय जातीकटुफलाम्बुभिः ॥७७॥
त्वक्कुन्दरुककर्पूरतुरुष्क श्रीनिवासकैः
लवङ्गनखकङ्कोल कुष्ठमांसीप्रियङ्गुभिः ॥७८॥
स्थौणेयतगरध्याम वचामदनकप्लवैः
सनागकेसरैः सिद्धे दद्याच्चात्रावतारिते ॥७९॥
पत्रकल्कं ततः पूतं विधिना तत्प्रयोजितम्
कासंश्वासं ज्वरं छर्दिं मूर्च्छां गुल्मक्षतक्षयान् ॥८०॥
प्लीहशोषावपस्मारमलक्ष्मीं च प्रणाशयेत्
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् ॥८१॥
पाने नस्येऽन्वासनेऽभ्यञ्जने च स्नेहाः काले सम्यगेते प्रयुक्ताः
दुष्टान् वातानाशु शान्तिं नयेयुर्वन्ध्या नारीः पुत्रभाजश्च कुर्युः ॥८२॥
स्नेहस्वेदैर्द्रुतः श्लेष्मा यदा पक्वाशये स्थितः
पित्तं वा दर्शयेद्रू पं बस्तिभिस्तं विनिर्जयेत् ॥८३॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थानेवातव्याधिचिकित्सितं नाम एकविंशोऽध्यायः ॥२१॥
N/A
References : N/A
Last Updated : March 15, 2021
TOP