चिकित्सास्थानम् - त्रयोदशोऽध्यायः
हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.
अथातो विद्र धिवृद्धिचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
विद्र धिं सर्वमेवामं शोफवत्समुपाचरेत्
प्रततं च हरेद्र क्तं पक्वे तु व्रणवत्क्रिया ॥१॥
पञ्चमूलजलैर्धौतं वातिकं लवणोत्तरैः
भद्रा दिवर्गयष्ट्याह्वतिलै रालेपयेद्व्रणम् ॥२॥
वैरेचनिकयुक्तेन त्रैवृतेन विशोध्य च
विदारीवर्गसिद्धेन त्रैवृतेनैव रोपयेत् ॥३॥
क्षालितं क्षीरितोयेन लिम्पेद्यष्ट्यमृतातिलैः
पैत्तं घृतेन सिद्धेन मञ्जिष्ठोशीरपद्मकैः ॥४॥
पयस्याद्विनिशाश्रेष्ठायष्टीदुग्धैश्च रोपयेत्
न्यग्रोधादिप्रवालत्वक्फलैर्वा कफजं पुनः ॥५॥
आरग्वधादिना धौतं सक्तुकुम्भनिशातिलैः
लिम्पेत्कुलत्थिकादन्तीत्रिवृच्छ्यामाग्नितिल्वकैः ॥६॥
ससैन्धवैः सगोमूत्रैस्तैलं कुर्वीत रोपणम्
रक्तागन्तूद्भवे कार्या पित्तविद्र धिवत्क्रिया ॥७॥
वरुणादिगणक्वाथ मपक्वेऽभ्यन्तरोत्थिते
ऊषकादिप्रतीवापं पूर्वाह्णे विद्र धौ पिबेत् ॥८॥
घृतं विरेचनद्र व्यैः सिद्धं ताभ्यां च पाययेत्
निरूहं स्नेहबस्तिं च ताभ्यामेव प्रकल्पयेत् ॥९॥
पानभोजनलेपेषु मधुशिग्रुः प्रयोजितः
दत्तावापो यथादोषमपक्वं हन्ति विद्र धिम् ॥१०॥
त्रायन्तीत्रिफलानिम्बकटुकामधुकं समम्
त्रिवृत्पटोलमूलाभ्यां चत्वारॐऽशा पृथक् पृथक् ॥११॥
मसूरान्निस्तुषादष्टौ तत्क्वाथः सघृतो जयेत्
विद्र धीगुल्म वीसर्पदाहमोहमदज्वरान् ॥१२॥
तृण्मूर्च्छाच्छर्दिहृद्रो गपित्ता सृक्कुष्ठकामलाः
कुडवं त्रायमाणायाः साध्यमष्टगुणेऽम्भसि ॥१३॥
कुडवं तद्र साद्धात्रीस्वरसात्क्षीरतो घृतात्
कर्षांशं कल्कितं तिक्तात्रायन्तीधन्वयासकम् ॥१४॥
मुस्तातामलकीवीराजीवन्तीचन्दनोत्पलम्
पचेदेकत्र संयोज्य तद्घृतं पूर्ववद्गुणैः ॥१५॥
द्रा क्षा मधूकं खर्जूरं विदारी सशतावरी
परूषकाणि त्रिफला तत्क्वाथे पाचयेद्घृतम् ॥१६॥
क्षीरेक्षुधात्रीनिर्यासप्राणदाकल्कसंयुतम्
तच्छीतं शर्कराक्षौद्र पादिकं पूर्ववद्गुणैः ॥१७॥
हरेच्छृङ्गादिभिरसृक् सिरया वा यथान्तिकम्
विद्र धिं पच्यमानं च कोष्ठस्थं बहिरुन्नतम् ॥१८॥
ज्ञात्वोपनाहयेत् शूले स्थिते तत्रैव पिण्डिते
तत्पार्श्वपीडनात्सुप्तौ दाहादिष्वल्पकेषु च ॥१९॥
पक्वः स्याद्विद्र धिं भित्त्वा व्रणवत्तमुपाचरेत्
अन्तर्भागस्य चाप्येतच्चिह्नं पक्वस्य विद्र धेः ॥२०॥
पक्वः स्रोतांसि सम्पूर्य स यात्यूर्ध्वमधोऽथवा
स्वयं प्रवृत्तं तं दोषमुपेक्षेत हिताशिनः ॥२१॥
दशाहं द्वादशाहं वा रक्षन् भिषगुपद्र वान्
असम्यग्वहति क्लेदे वरुणादिं सुखाम्भसा ॥२२॥
पाययेन्मधुशिग्रुं वा यवागूं तेन वा कृताम्
ऊर्ध्वं दशाहात्त्रायन्तीसर्पिषा तैल्वकेन वा
शोधयेद्बलतः शुद्धः सक्षौद्रं तिक्तकं पिबेत् ॥२४॥
सर्वशो गुल्मवच्चैनं यथादोषमुपाचरेत्
सर्वावस्थासु सर्वासु गुग्गुलुं विद्र धीषु च ॥२५॥
कषायैर्यौगिकैर्युञ्ज्यात्स्वैःस्वैस्तद्वच्छिलाजतु
पाकं च वारयेद्यत्नात्सिद्धिः पक्वे हि दैविकी ॥२६॥
अपि चाशु विदाहित्वाद्विद्र धिः सोऽभिधीयते
सति चालोचयेन्मेहे प्रमेहाणां चिकित्सितम् ॥२७॥
स्तनजे व्रणवत्सर्वं न त्वेनमुपनाहयेत्
पाटयेत्पालयन् स्तन्यवाहिनीः कृष्णचूचुकौ ॥२८॥
सर्वास्वामाद्यवस्थासु निर्दुहीत च तत्स्तनम्
इति विद्र धिचिकित्सितम्
अथ वृद्धिचिकित्सितम्
शोधयेत्त्रिवृता स्निग्धं वृद्धौ स्नेहैश्चलात्मके ॥२९॥
कौशाम्रतिल्वकैरण्डसुकुमारकमिश्रकैः
ततोऽनिलघ्ननिर्यूहकल्कस्नेहैर्निरूहयेत् ॥३०॥
रसेन भोजितं यष्टितैलेनान्वासयेदनु
स्वेदप्रलेपा वातघ्नाः पक्वे भित्त्वा व्रणक्रियाम् ॥३१॥
पित्तरक्तोद्भवे वृद्धावामपक्वे यथायथम्
शोफव्रणक्रियां कुर्यात् प्रततं च हरेदसृक् ॥३२॥
गोमूत्रेण पिबेत्कल्कं श्लैष्मिके पीतदारुजम्
विम्लापनादृते चास्य श्लेष्मग्रन्थिक्रमो हितः ॥३३॥
पक्वे च पाटिते तैलमिष्यते व्रणशोधनम्
सुमनोरुष्कराङ्कोल्लसप्तपर्णेषु साधितम् ॥३४॥
पटोलनिम्बरजनीविडङ्गकुटजेषु च
मेदोजं मूत्रपिष्टेन सुस्विन्नं सुरसादिना ॥३५॥
शिरोविरेकद्र व्यैर्वा वर्जयन् फलसेवनीम्
दारयेद्वृद्धिपत्रेण सम्यङ्मेदसि सूद्धृते ॥३६॥
व्रणं माक्षिककासीससैन्धेवप्रतिसारितम्
सीव्येदभ्यञ्जनं चास्य योज्यं मेदोविशुद्धये ॥३७॥
मनः शिलैलासुमनोग्रन्थिभल्लातकैः कृतम्
तैलमाव्रणसन्धानात्स्नेहस्वेदौ च शीलयेत् ॥३८॥
मूत्रजं स्वेदितं स्निग्धैर्वस्त्रपट्टेन वेष्टितम्
विध्येदधस्तात्सेवन्याः स्रावयेच्च यथोदरम् ॥३९॥
व्रणं च स्थगिकाबद्धं रोपयेत् अन्त्रहेतुके
फलकोशमसम्प्राप्ते चिकित्सा वातवृद्धिवत् ॥४०॥
पचेत्पुनर्नवतुलां तथा दशपलाः पृथक्
दशमूलपयस्याश्व गन्धैरण्डशतावरीः ॥४१॥
द्विदर्भशरकाशेक्षु मूलपोटगलान्विताः
वहेऽपामष्टभागस्थे तत्र त्रिंशत्पलं गुडात् ॥४२॥
प्रस्थमेरण्डतैलस्य द्वौ घृतात्पयसस्तथा
आवपेद् द्विपलांशं च कृष्णातन्मूलसैन्धवम् ॥४३॥
यष्टीमधु कमृद्वीकायवानीनागराणि च
तत्सिद्धं सुकुमाराख्यं सुकुमारं रसायनम् ॥४४॥
वातातपाध्वयानादि परिहार्येष्वयन्त्रणम्
प्रयोज्यं सुकुमाराणामीश्वराणां सुखात्मनाम् ॥४५॥
नृणां स्त्रीवृन्दभर्तॄणामलक्ष्मीकलिनाशनम्
सर्वकालोपयोगेन कान्तिलावण्यपुष्टिदम् ॥४६॥
वर्ध्मविद्र धिगुल्मार्शोयोनिमेढ्रा निलार्तिषु
शोफोदरखुडप्लीहविडिवबन्धेषु चोत्तमम् ॥४७॥
यांयाद्वर्ध्म न चेच्छान्तिं स्नेहरेकानुवासनैः
बस्तिकर्म पुरः कृत्वा वङ्क्षणस्थं ततो दहेत् ॥४८॥
अग्निना मार्गरोधार्थं मरुतः अर्धेन्दुवक्रया
अङ्गुष्ठस्योपरि स्नाव पीतं तन्तुसमं च यत् ॥४९॥
उत्क्षिप्य सूच्या तत्तिर्यग्दहेच्छित्त्वा यतो गदः
ततोऽन्यपार्श्वेऽन्ये त्वाहुर्दहेद्वाऽनामिकाङ्गुलेः ॥५०॥
गुल्मेऽन्यैर्वातकफजे प्लीह्नि चायं विधिः स्मृतः
कनिष्ठिकानामिकयोर्विश्वाच्यां च यतो गदः ॥५१॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने विद्र धिवृद्धिचिकित्सितं नाम त्रयोदशोऽध्यायः ॥१३॥
N/A
References : N/A
Last Updated : March 15, 2021
TOP