चिकित्सास्थानम् - षोडशोऽध्यायः
हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.
अथातः पाण्डुरोगचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
पाण्ड्वामयी पिबेत्सर्पिरादौ कल्याणकाह्वयम्
पञ्चगव्यं महातिक्तं शृतं वाऽरग्वधादिना ॥१॥
दाडिमात्कुडवो धान्यात्कुडवार्धं पलं पलम्
चित्रकाच्छृङ्गबेराच्च पिप्पल्यर्धपलं च तैः ॥२॥
कल्कितैर्विंशतिपलं घृतस्य सलिलाढके
सिद्धं हृत्पाण्डुगुल्मार्शःप्लीहवातकफार्तिनुत् ॥३॥
दीपनं श्वासकासघ्नं मूढवातानुलोमनम्
दुःखप्रसविनीनां च वन्ध्यानां च प्रशस्यते ॥४॥
स्नेहितं वामयेत्तीक्ष्णैः पुनः स्निग्धं च शोधयेत्
पयसा मूत्रयुक्तेन बहुशः केवलेन वा ॥५॥
दन्तीफलरसे कोष्णे काश्मर्याञ्जलिमासुतम्
द्रा क्षाञ्जलि वा मृदितं तत् पिबेत पाण्डुरोगजित् ॥६॥
मूत्रेण पिष्टां पथ्यां वा तत्सिद्धं वा फलत्रयम्
स्वर्णक्षीरीत्रिवृच्छ्यामाभद्र दारुमहौषधम् ॥७॥
गोमूत्राञ्जलिना पिष्टं शृतं तेनैव वा पिबेत्
साधितं क्षीरमेभिर्वा पिबेद्दोषानुलोमनम् ॥८॥
मूत्रे स्थितं वा सप्ताहं पयसाऽयोरजः पिबेत्
जीर्णे क्षीरेण भुञ्जीत रसेन मधुरेण वा ॥९॥
शुद्धश्चोभयतो लिह्यात्पथ्यां मधुघृतद्रुताम्
विशालाकटुकामुस्ताकुष्ठदारुकलिङ्गकाः ॥१०॥
कर्षांशा द्विपिचुर्मूर्वा कर्षार्धांशा घुणप्रिया
पीत्वा तच्चूर्णमम्भोभिः सुखैर्लिह्यात्ततो मधु ॥११॥
पाणडुरोगं ज्वरं दाहं कासं श्वासमरोचकम्
गुल्मानाहामवातांश्च रक्तपित्तं च तज्जयेत् ॥१२॥
वासागुडूचीत्रिफलाकट्वी भूनिम्बनिम्बजः
क्वाथः क्षौद्र युतो हन्ति पाण्डुपित्तास्रकामलाः ॥१३॥
व्योषाग्निवेल्लत्रिफलामुस्तैस्तुल्यमयोरजः
चूर्णितं तक्रमध्वाज्यकोष्णाम्भोभिः प्रयोजितम् ॥१४॥
कामलापाण्डुहृद्रो गकुष्ठार्शोमेह नाशनम्
गुडनागरमण्डूरतिलांशान् मानतः समान् ॥१५॥
पिप्पलीद्विगुणान् दद्याद्गुटिकां पाण्डुरोगिणे
ताप्यं दार्व्यास्त्वचं चव्यं ग्रन्थिकं देवदारु च ॥१६॥
व्योषादिनवकं चैतच्चूर्णयेद् द्विगुणं ततः
मण्डूरं चाञ्जननिभं सर्वतोऽष्टगुणेऽथ तत् ॥१७॥
पृथग्विपक्वे गोमूत्रे वटकीकरणक्षमे
प्रक्षिप्य वटकान् कुर्यात्तान् खादेत्तक्रभोजनः ॥१८॥
एते मण्डूरवटकाः प्राणदाः पाण्डुरोगिणाम्
कुष्ठान्यजरकं शोफमूरुस्तम्भ मरोचकम् ॥१९॥
अर्शांसि कामलां मेहान् प्लीहानं शमयन्ति च
ताप्याद्रि जतुरौप्यायोमलाः पञ्चपलाः पृथक् ॥२०॥
चित्रकत्रिफलाव्योषविडङ्गैः पालिकैः सह
शर्कराष्टपलोन्मिश्राश्चूर्णिता मधुना द्रुताः ॥२१॥
पाण्डुरोगं विषं कासं यक्ष्माणं विषमं ज्वरम्
कुष्ठान्यजरकं मेहं शोफं श्वासमरोचकम् ॥२२॥
विशेषाद्धन्त्यपस्मारं कामलां गुदजानि च
कौटजत्रिफलानिम्बपटोलघन नागरैः ॥२३॥
भावितानि दशाहानि रसैर्द्वित्रिगुणानि वा
शिलाजतुपलान्यष्टौ तावती सितशर्करा ॥२४॥
त्वक्क्षीरीपिप्पलीधात्रीकर्कटाख्याः पलोन्मिताः
निदिग्ध्याः फलमूलाभ्यां पलं युक्त्यात्रिजातकम् ॥२५॥
मधुत्रिपलसंयुक्तान् कुर्यादक्षसमान् गुडान्
दाडिमाम्बुपयःपक्षिरसतोयसुरासवान् ॥२६॥
तान् भक्षयित्वाऽनु पिबेन्निरन्नो भुक्त एव वा
पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरम् ॥२७॥
हृन्मूत्रपूतिशुक्राग्निदोष शोषगरोदरम्
कासासृग्दरपित्तासृक्शोफगुल्मगलामयान् ॥२८॥
मेहवर्ध्मभ्रमान् हन्युः सर्वदोषहराः शिवाः
द्रा क्षाप्रस्थं कणाप्रस्थं शर्करार्धतुलां तथा ॥२९॥
द्विपलं मधुकं शुण्ठीं त्कक्क्षीरीं च विचूर्णितम्
धात्रीफलरसद्रो णे तत्क्षिप्त्वा लेहवत्पचेत् ॥३०॥
शीतान्मधुप्रस्थयुताद् लिह्यात्पाणितलं ततः
हलीमकं पाण्डुरोगं कामलां च नियच्छति ॥३१॥
कनीयःपञ्चमूलाम्बु शस्यते पानभोजने
पाण्डूनां कामलार्तानां मृद्वीकामलकाद्र सः ॥३२॥
इति सामान्यतः प्रोक्तं पाण्डुरोगे भिषग्जितम्
विकल्प्य योज्यं विदुषा पृथग्दोषबलं प्रति ॥३३॥
स्नेहप्रायं पवनजे तिक्तशीतं तु पैत्तिके
श्लैष्मिके कटुरूक्षोष्णं विमिश्रं सान्निपातिके ॥३४॥
मृदं निर्यापयेत्कायात्तीक्ष्णैः संशोधनैः पुरः
बलाधानानि सर्पींषि शुद्धे कोष्ठे तु योजयेत् ॥३५॥
व्योषबिल्वद्विरजनीत्रिफला द्विपुनर्नवम्
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च ॥३६॥
वृश्चिकाली च भार्गी च सक्षीरैस्तैः शृतं घृतम्
सर्वान् प्रशमयत्याशु विकारान् मृत्तिकाकृतान् ॥३७॥
तद्वत्केसरयष्ट्याह्वपिप्पली क्षीरशाड्वलैः
मृद्द्वेषणाय तल्लौल्ये वितरेद्भावितां मृदम् ॥३८॥
वेल्लाग्निनिम्बप्रसवैः पाठया मूर्वयाऽथवा
मृद्भेदभिन्नदोषानुगमाद्योज्यं च भेषजम् ॥३९॥
कामलायां तु पित्तघ्नं पाण्डुरोगाविरोधि यत्
पथ्याशतरसे पथ्यावृन्तार्धशतकल्कितः ॥४०॥
प्रस्थः सिद्धो घृताद्गुल्मकामलापाण्डुरोगनुत्
आरग्वधं रसेनेक्षोर्विदार्यामलकस्य वा ॥४१॥
सत्र्यूषणं बिल्वमात्रं पाययेत्कामलापहम्
पिबेन्निकुम्भकल्कं वा द्विगुडं शीतवारिणा ॥४२॥
कुम्भस्य चूर्णं सक्षौद्रं त्रैफलेन रसेन वा
त्रिफलाया गुडूच्या वा दार्व्या निम्बस्य वा रसम् ॥४३॥
प्रातः प्रातर्मधुयुतं कामलार्ताय योजयेत्
निशागैरिकधात्रीभिः कामलापहमञ्जनम् ॥४४॥
तिलपिष्टनिभं यस्तु कामलावान् सृजेन्मलम्
कफरुद्धपथं तस्य पित्तं कफहरैर्जयेत् ॥४५॥
रूक्षशीतगुरुस्वादुव्यायाम बलनिग्रहैः
कफसम्मूर्च्छितो वायुर्यदा पित्तं बहिः क्षिपेत् ॥४६॥
हारिद्र नेत्रमूत्रत्वक्श्वेत वर्चास्तदा नरः
भवेत्साटोपविष्टम्भो गुरुणा हृदयेन च ॥४७॥
दौर्बल्याल्पाग्निपार्श्वार्तिहिध्माश्वासा रुचिज्वरैः
क्रमेणाल्पेऽनुषज्येत पित्ते शाखासमाश्रिते ॥४८॥
रसैस्तं रूक्षकट्वम्लैः शिखितित्तिरिदक्षजैः
शुष्कमूलकजैर्यूषैः कुलत्थोत्थैश्च भोजयेत् ॥४९॥
भृशाम्लतीक्ष्णकटुकलवणोष्णं च शस्यते
सबीजपूरकरसं लिह्याद्व्योषं तथाऽशयम् ॥५०॥
स्वं पित्तमेति तेनास्य शकृदप्यनुरज्यते
वायुश्च याति प्रशमं सहाटोपाद्युपद्र वैः ॥५१॥
निवृत्तोपद्र वस्यास्य कार्यः कामलिको विधिः
गोमूत्रेण पिबेत्कुम्भकामलायां शिलाजतु ॥५२॥
मासं माक्षिकधातुं वा किट्टं वाऽथ हिरण्यजम्
गुडूचीस्वरसक्षीरसाधितेन हलीमकी ॥५३॥
महिषीहविषा स्निग्धः पिबेद्धात्रीरसेन तु
त्रिवृतां तद्विरिक्तोऽद्यात्स्वादु पित्तानिलापहम् ॥५४॥
द्रा क्षालेहं च पूर्वोक्तं सर्पींषि मधुराणि च
यापनान् क्षीरबस्तींश्च शीलयेत्सानुवासनान् ॥५५॥
मार्द्वीकारिष्टयोगांश्च पिबेद्युक्त्याऽग्निवृद्धये
कासिकं चाभयालेहं पिप्पलद्यं मधुकं बलाम् ॥५६॥
पयसा च प्रयुञ्जीत यथादोषं यथाबलम्
पाण्डुरोगेषु कुशलः शोफोक्तं च क्रियाक्रमम् ॥५७॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने पाण्डुरोगचिकित्सितं नाम षोडशोऽध्यायः ॥१६॥
N/A
References : N/A
Last Updated : March 15, 2021
TOP