चिकित्सास्थानम् - पञ्चमोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातो राजयक्ष्मादिचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
बलिनो बहुदोषस्य स्निग्धस्विन्नस्य शोधनम्
ऊर्ध्वाधो यक्ष्मिणः कुर्यात्सस्नेहं यन्न कर्शनम् ॥१॥
पयसा फलयुक्तेन मधुरेण रसेन वा
सर्पिष्मत्या यवाग्वा वा वमनद्र व्यसिद्धया ॥२॥
वमेत् विरेचनं दद्यात्त्रिवृच्छ्यामानृपद्रुमान्
शर्करामधुसर्पिर्भिः पयसा तर्पणेन वा ॥३॥
द्रा क्षाविदारीकाश्मर्यमांसानां वा रसैर्युतान्
शुद्धकोष्ठस्य युञ्जीत विधिं बृंहणदीपनम् ॥४॥
हृद्यानि चान्नपानानि वातघ्नानि लघूनि च
शालिषष्टिकगोधूमयवमुद्गं समोषितम् ॥५॥
लिघुमच्युतवीर्यं च सुजरं बलकृच्च यत्
आजं क्षीरं घृतं मांसं क्रव्यान्मांसं च शोषजित्
काकोलूकवृकद्वीपिगवाश्वनकुलोरगम् ॥६॥
गृध्रभासखरोष्ट्रं च हितं छद्मोपसंहितम्
ज्ञातं जुगुप्सितं तद्धि छर्दिषे न बलौजसे ॥७॥
मृगाद्याः पित्तकफयोः पवने प्रसहादयः
वेसवारीकृताः पथ्या रसादिषु च कल्पिताः ॥८॥
भृष्टाः सर्पषतैलेन सर्पिषा वा यथायथम्
रसिका मृदवः स्निग्धाः पटुद्र व्याभिसंस्कृताः ॥९॥
हिता मौलककौलत्थास्तद्वद्यूषाश्च साधिताः
सपिप्पलीकं सयवं सकुलत्थं सनागरम् ॥१०॥
सदाडिमं सामलकं स्निग्धमाजं रसं पिबेत्
तेन षडिवनिवर्तन्ते विकाराः पीनसादयः ॥११॥
पिबेच्च सुतरां मद्यं जीर्णं स्रोतोविशोधनम्
पित्तादिषु विशेषेण मध्वरिष्टाच्छवारुणीः ॥१२॥
सिद्धं वा पञ्चमूलेन तामलक्याऽथवा जलम्
पर्णिनीभिश्चतसृभिर्धान्यनागरकेण वा ॥१३॥
कल्पयेच्चानुकूलोऽस्य तेनान्नं शुचि यत्नवान्
दशमूलेन पयसा सिद्धं मांसरसेन वा ॥१४॥
बलागर्भं घृतं योज्यं क्रव्यान्मांसरसेन वा
सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा ॥१५॥
जीवन्तीं मधुकं द्रा क्षां फलानि कुटजस्य च
पुष्कराह्वं शठीं कृष्णां व्याघ्रीं गोक्षुरकं बलाम् ॥१६॥
नीलोत्पलं तामलकीं त्रायमाणां दुरालभाम्
कल्कीकृत्य घृतं पक्वं रोगराजहरं परम् ॥१७॥
घृतं खर्जूरमृद्वीकामधुकैः सपरूषकैः
सपिप्पलीकं वैस्वर्यकासश्वासज्वरापहम् ॥१८॥
दशमूलशृतात्क्षीरात्सर्पिर्यदुदियान्नवम्
सपिप्पलीकं सक्षौद्रं तत्परं स्वरबोधनम् ॥१९॥
शिरःपार्श्वांसशूलघ्नं कासश्वासज्वरापहम्
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम् ॥२०॥
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे
सिद्धं सर्पिर्जयत्येतद्यक्ष्मणः सप्तकं बलम् ॥२१॥
पञ्चकोलयवक्षारषट्पलेन पचेद्घृतम्
प्रस्थोन्मितं तुल्यपयः स्रोतसां तद्विशोधनम् ॥२२॥
गुल्मज्वरोदरप्लीह ग्रहणीपाण्डुपीनसान्
श्वासकासाग्निसदन श्वयथूर्ध्वानिलाञ्जयेत् ॥२३॥
रास्नाबलागोक्षुरक स्थिरावर्षाभुवारिणि
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषजिद्घृतम् ॥२४॥
अश्वगन्धाशृतात्क्षीराद्घृतं च ससितापयः
साधारणामिषतुलां तोयद्रो णद्वये पचेत् ॥२५॥
तेनाष्टभागशेषेण जीवनीयैः पलोन्मितैः
साधयेत्सर्पिषः प्रस्थं वातपित्तामयापहम् ॥२६॥
मांससर्पिरिदं पीतं युक्तं मांसरसेन वा
कासश्वास्वरभ्रंशशोष हृत्पार्श्वशूलजित् ॥२७॥
एलाजमोदात्रिफला सौराष्ट्रीव्योषचित्रकान्
सारानरिष्टगायत्रीशाल बीजकसम्भवान् ॥२८॥
भल्लातकं विडङ्गं च पृथगष्टपलोन्मितम्
सलिले षोडशगुणे षोडशांशस्थितं पचेत् ॥२९॥
पुनस्तेन घृतप्रस्थं सिद्धे चास्मिन्पलानि षट्
तवक्षीर्याः क्षिपेत्त्रिंशत्सिताया द्विगुणं मधु ॥३०॥
घृतात्त्रिजातात्त्रिपलं ततो लीढं खजाहतम्
पयोनुपानं तत्प्राह्णे रसायनमयन्त्रणम् ॥३१॥
मेध्यं चक्षुष्यमायुष्यं दीपनं हन्ति चाचिरात्
मेहगुल्मक्षयव्याधि पाण्डुरोगभगन्दरान् ॥३२॥
ये च सर्पिर्गुडाः प्रोक्ताः क्षते योज्याः क्षयेऽपि ते
त्वगेलापिप्लीक्षीरीशर्करा द्विगुणाः क्रमात् ॥३३॥
चूर्णिता भक्षिताः क्षौद्र सर्पिषा वाऽवलेहिताः
स्वर्याः कासक्षयश्वासपार्श्वरुक्कफनाशनाः ॥३४॥
अथ स्वरसादचिकित्सितम्
विशेषात्स्वरसादेऽस्य नस्यधूमादि योजयेत्
तत्रापि वातजे कोष्णं पिबेदौत्तरभक्तिकम् ॥३५॥
कासमर्दकवार्ताकीमार्कव स्वरसैर्घृतम्
साधितं कासजित्स्वर्यं सिद्धमार्तगलेन वा ॥३६॥
बदरीपत्रकल्कं वा घृतभृष्टं ससैन्धवम्
तैलं वा मधुकद्रा क्षापिप्पलीकृमिनुत्फलैः ॥३७॥
हंसपाद्याश्च मूलेन पक्वं नस्तो निषेचयेत्
सुखोदकानुपानं च ससर्पिष्कं गुडौदनम् ॥३८॥
अश्नीयात्पायसं चैवं स्निग्धं स्वेदं नियोजयेत्
पित्तोद्भवे पिबेत्सर्पिः शृतशीतपयोनुपः ॥३९॥
क्षीरिवृक्षाङ्कुरक्वाथकल्कसिद्धं समाक्षिकम्
अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम् ॥४०॥
बलाविदारिगन्धाभ्यां विदार्या मधुकेन च
सिद्धं सलवणं सर्पिर्नस्यं स्वर्यमनुत्तमम् ॥४१॥
प्रपौण्डरीकं मधुकं पिप्पली बृहती बला
साधितं क्षीरसर्पिश्च तत्स्वर्यं नावनं परम् ॥४२॥
लिह्यान्मधुरकाणां च चूर्णं मधुघृताप्लुतम्
पिबेत्कटूनि मूत्रेण कफजे रूक्षभोजनः ॥४३॥
कट्फलामलकव्योषं लिह्यात्तैलमधुप्लुतम्
व्योषक्षाराग्निचविकाभार्गीपथ्यामधूनि वा ॥४४॥
यवैर्यवागूं यमके कणाधात्रीकृतां पिबेत्
भुक्त्वाऽद्यात्पिप्पलद्यं शुण्ठीं तीक्ष्णं वा वमनं भजेत् ॥४५॥
शर्कराक्षौद्र मिश्राणि शृतानि मधुरैः सह
पिबेत्पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः ॥४६॥
इति स्वरसादचिकित्सितम्
अथारोचकचिकित्सितम्
विचित्रमन्नमरुचौ हितैरुपहितं हितम्
बहिरन्तर्मृजा चित्तनिर्वाणं हृद्यमौषधम् ॥४७॥
द्वौ कालौ दन्तपवनं भक्षयेन्मुखधावनैः
कषायैः क्षालयेदास्यं धूमं प्रायोगिकं पिबेत् ॥४८॥
तालीसचूर्णवटकाः सकर्पूरसितोपलाः
शाशाङ्ककिरणाख्याश्च भक्ष्या रुचिकराः परम् ॥४९॥
वातादरोचके तत्र पिबेच्चूर्णं प्रसन्नया
हरेणुकृष्णाकृमिजिद्द्रा क्षासैन्धवनागरात् ॥५०॥
एलाभार्गीयवक्षारहिङ्गुयुक्ताद्घृतेन वा
छर्दयेद्वा वचाम्भोभिः पित्ताच्च गुडवारिभिः ॥५१॥
लिह्याद्वा शर्करासर्पिर्लवणोत्तममाक्षिकम्
कफाद्वमेन्निम्बजलैर्दीप्यकारग्वधोदकम् ॥५२॥
पानं समध्वरिष्टाश्च तीक्ष्णाः समधुमाधवाः
पिबेच्चूर्णं च पूर्वोक्तं हरेण्वाद्युष्णवारिणा ॥५३॥
एलात्वङ्नागकुसुमतीक्ष्ण कृष्णामहौषधम्
भागवृद्धं क्रमाच्चूर्णं निहन्ति समशर्करम् ॥५४॥
प्रसेकारुचिहृत्पार्श्वकासश्वास गलामयान्
यवानीतित्तिडीकाम्लवेत सौषधदाडिमम् ॥५५॥
कृत्वा कोलं च कर्षांशं सितायाश्च चतुष्पलम्
धान्यसौवर्चलाजाजीवराङ्गं चार्धकार्षिकम् ॥५६॥
पिप्पलीनां शतं चैकं द्वे शते मरिचस्य च
चूर्णमेतत्परं रुच्यं हृद्यं ग्राहि हिनस्ति च ॥५७॥
विबन्धकासहृत्पार्श्वप्लीहार्शो ग्रहणीगदान्
तालीसपत्रं मरिचं नागरं पिप्पली शुभा ॥५८॥
यथोत्तरं भागवृद्ध्या त्वगेले चार्धभागिके
तद्रुच्यं दीपनं चूर्णं कणाष्टगुणशर्करम् ॥५९॥
कासश्वासारुचिच्छर्दिप्लीहहृत्पार्श्व शूलनुत्
पाण्डुज्वरातिसारघ्नं मूढवातानुलोमनम् ॥६०॥
इत्यरोचकचिकित्सितम्
अर्कामृताक्षारजले शर्वरीमुषितैर्यवैः
प्रसेके कल्पितान्सक्तून् भक्ष्यांश्चाद्याद्वली वमेत् ॥६१॥
कटुतिक्तैस्तथा शूल्यं भक्षयेज्जाङ्गलं पलम्
शुष्कांश्च भक्ष्यान् सुलघूंश्चणकादिरसानुपः ॥६२॥
श्लेष्मणोऽतिप्रसेकेन वायुः श्लेष्माणमस्यति
कफप्रसेकं तं विद्वान्स्निग्धोष्णैरेव निर्जयेत् ॥६३॥
पीनसेऽपि क्रममिमं वमथौ च प्रयोजयेत्
विशेषात्पीनसेऽभ्यङ्गान् स्नेहान् स्वेदांश्च शीलयेत् ॥६४॥
स्निग्धानुत्कारिकापिण्डैः शिरः पार्श्वगलादिषु
लवणाम्लकटूष्णांश्च रसान् स्नेहोपसंहितान् ॥६५॥
शिरॐसपार्श्वशूलेषु यथादोषविधिं चरेत्
औदकानूपपिशितैरुपनाहाः सुसंस्कृताः ॥६६॥
तत्रेष्टाः सचतुःस्नेहाः दोषसंसर्ग इष्यते
प्रलेपो नतयष्ट्याह्वशताह्वाकुष्ठचन्दनैः ॥६७॥
बलारास्नातिलैस्तद्वत्स सर्पिर्मधुकोत्पलैः
पुनर्नवाकृष्णगन्धा बलावीराविदारिभिः ॥६८॥
नावनं धूमपानानि स्नेहाश्चौत्तरभक्तिकाः
तैलान्यभ्यङ्गयोगीनि बस्तिकर्म तथा परम् ॥६९॥
शृङ्गाद्यैर्वा यथादोषं दुष्टमेषां हरेदसृक्
प्रदेहः सघृतैः श्रेष्ठः पद्मकोशीरचन्दनैः ॥७०॥
दूर्वामधुकमञ्जिष्ठाकेसरैर्वा घृताप्लुतैः
वटादिसिद्धतैलेन शतधौतेन सर्पिषा ॥७१॥
अभ्यङ्गः पयसा सेकः शस्तश्च मधुकाम्बुना
प्रायेणोपहताग्नित्वात्सपिच्छमतिसार्यते ॥७२॥
तस्यातिसारग्रहणीविहितं हितमौषधम्
पुरीषं यत्नतो रक्षेच्छुष्यतो राजयक्ष्मिणः ॥७३॥
सर्वधातुक्षयार्तस्य बलं तस्य हि विड्बलम्
मांसमेवाश्नतो युक्त्या मार्द्वीकं पिबतोऽनु च ॥७४॥
अविधारितवेगस्य यक्ष्मा न लभतेऽन्तरम्
सुरां समण्डां मार्द्वीकमरिष्टान्सीधुमाधवान् ॥७५॥
यथार्हमनुपानार्थं पिबेन्मांसानि भक्षयन्
स्रोतोविबन्धमोक्षार्थं बलौजःपुष्टये च तत् ॥७६॥
स्नेहक्षीराम्बुकोष्ठेषु स्वभ्यक्तमवगाहयेत्
उत्तीर्णं मिश्रकैः स्नेहैर्भूयोऽभ्यक्तं सुखैः करैः ॥७७॥
मृद्गीयात्सुखमासीनं सुखं चोद्वर्तयेत्परम्
जीवन्तीं शतवीर्यां च विकसां सपुनर्नवाम् ॥७८॥
अश्वगन्धामपामार्गं तर्कारीं मधुकं बलाम्
विदारीं सर्षपान् कुष्ठं तण्डुलानतसीफलम् ॥७९॥
माषांस्तिलांश्च किण्वं च सर्वमेकत्र चूर्णयेत्
यवचूर्णं त्रिगुणितं दध्ना युक्तं समाक्षिकम् ॥८०॥
एतदुद्वर्तनं कार्यं पुष्टिवर्णबलप्रदम्
गौरसर्षपकल्केन स्नानीयौषधिभिश्च सः ॥८१॥
स्नायादृतुसुखैस्तोयै र्जीवनीयोपसाधितैः
गन्धमाल्यादिकां भूषामलक्ष्मीनाशनीं भजेत् ॥८२॥
सुहृदां दर्शनं गीतवादित्रोत्सवसंश्रुतिः
बस्तयः क्षीरसर्पींषि मद्यमांससुशीलता ॥८३॥
दैवव्यपाश्रयं तत्तदथर्वोक्तं च पूजितम् ॥८३॥
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे

चिकित्सितस्थाने राजयक्ष्मादिचिकित्सितं नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP