चिकित्सास्थानम् - अष्टादशोऽध्यायः

हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड म्हणजेच संहिता.


अथातो विसर्पचिकित्सितं व्याख्यास्यामः
इति ह स्माहुरात्रेयादयो महर्षयः
आदावेव विसर्पेषु हितं लङ्घनरूक्षणम्
रक्तावसेको वमनं विरेकः स्नेहनं न तु ॥१॥
प्रच्छर्दनं विसर्पघ्नं सयष्टीन्द्र यवं फलम्
पटोलपिप्पलीनिम्बपल्लवैर्वा समन्वितम् ॥२॥
रसेन युक्तं त्रायन्त्या द्रा क्षायास्त्रैफलेन वा
विरेचनं त्रिवृच्चूर्णं पयसा सर्पिषाऽथवा ॥३॥
योज्यं कोष्ठगते दोषे विशेषेण विशोधनम्
अविशोध्यस्य दोषेऽल्पे शमनं चन्दनोत्पलम् ॥४॥
मुस्तनिम्बपटोलं वा पटोलादिकमेव वा
सारिवामलकोशीरमुस्तं वा क्वथितं जले ॥५॥
दुरालभां पर्पटकं गुडूचीं विश्वभेषजम्
पाक्यं शीतकषायं वा तृष्णावीसर्पवान् पिबेत् ॥६॥
दार्वीपटोलकटुकामसूर त्रिफलास्तथा
सनिम्बयष्टीत्रायन्तीः क्वथिता घृतमूर्च्छिताः ॥७॥
शाखादुष्टे तु रुधिरे रक्तमेवादितो हरेत्
त्वड्मांसस्नायुसंक्लेदो रक्तक्लेदाद्धि जायते ॥८॥
निरामे श्लेष्मणि क्षीणे वातपित्तोत्तरे हितम्
घृतं तिक्तं महातिक्तं शृतं वा त्रायमाणया ॥९॥
निर्हृतेऽस्रे विशुद्धेऽन्तर्दोषे त्वङ्मांससन्धिगे
बहिःक्रियाः प्रदेहाद्याः सद्यो वीसर्पशान्तये ॥१०॥
शताह्वामुस्तवाराहीवंशार्तगल धान्यकम्
सुराह्वा कृष्णगन्धा च कुष्ठं चालेपनं चले ॥११॥
न्यग्रोधादिगणः पित्ते तथा पद्मोत्पलादिकम्
न्यग्रोधपादास्तरुणाः कदलीगर्भसंयुताः ॥१२॥
बिसग्रन्थिश्च लेपः स्याच्छतधौतघृताप्लुतः
पद्मिनीकर्दमः शीतः पिष्टं मौक्तिकमेव वा ॥१३॥
शङ्खः प्रवालं शुक्तिर्वा गैरिकं वा घृतान्वितम्
त्रिफलापद्मकोशीर समङ्गाकरवीरकम् ॥१४॥
नलमूलान्यनन्ता च लेपः श्लेष्मविसर्पहा
धवसप्ताह्वखदिरदेवदारु कुरण्टकम् ॥१५॥
समुस्तारग्वधं लेपो वर्गो वा वरुणादिकः
आरग्वधस्य पत्राणि त्वचः श्लेष्मातकोद्भवाः ॥१६॥
इन्द्रा णिशाकं काकाह्वा शिरीषकुसुमानि च
सेकव्रणाभ्यङ्गहविर्लेपचूर्णान् यथायथम् ॥१७॥
एतैरेवौषधैः कुर्याद्वायौ लेपा घृताधिकाः
कफस्थानगते सामे पित्तस्थानगतेऽथवा ॥१८॥
अशीतोष्णा हिता रूक्षा रक्तपित्ते घृतान्विताः
अत्यर्थशीतास्तनवस्तनु वस्त्रान्तरास्थिताः ॥१९॥
योज्याः क्षणे क्षणेऽन्येऽन्ये मन्दवीर्यास्त एव च
संसृष्टदोषे संसृष्टमेतत्कर्म प्रशस्यते ॥२०॥
शतधौतघृतेनाग्निं प्रदिह्यात्केवलेन वा
सेचयेद्घृतमण्डेन शीतेन मधुकाम्बुना ॥२१॥
सिताम्भसाऽम्भोदजलैः क्षीरेणेक्षुरसेन वा
पानलेपनसेकेषु महातिक्तं परं हितम् ॥२२॥
ग्रन्थ्याख्ये रक्तपित्तघ्नं कृत्वा सम्यग्यथोदितम्
कफानिलघ्नं कर्मेष्टं पिण्डस्वेदोपनाहनम् ॥२३॥
ग्रन्थिवीसर्पशूले तु तैलेनोष्णेन सेचयेत्
दशमूलविपक्वेन तद्वन्मूत्रैर्जलेन वा ॥२४॥
सुखोष्णया प्रदिह्याद्वा पिष्टया कृष्णगन्धया
नक्तमालत्वचा शुष्कमूलकैः कलिनाऽथवा ॥२५॥
दन्ती चित्रकमूलत्वक् सौधार्कपयसी गुडः
भल्लातकास्थि कासीसं लेपो भिन्द्याच्छिलामपि॥२६॥
बहिर्मार्गाश्रितं ग्रन्थिं किं पुनः कफसम्भवम्
दीर्घकालस्थितं ग्रन्थिमेभिर्भिन्द्याच्च भेषजैः ॥२७॥
मूलकानां कुलत्थानां यूषैः सक्षारदाडिमैः
गोधूमान्नैर्यवान्नैर्वा ससीधुमधुशार्करैः ॥२८॥
सक्षौद्रै र्वारुणीमण्डै र्मातुलुङ्गरसान्वितैः
त्रिफलायाः प्रयोगैश्च पिप्पल्याः क्षौद्र संयुतैः ॥२९॥
देवदारुगुडूच्योश्च प्रयोगैर्गिरिजस्य च
मुस्तभल्लातसक्तूनां प्रयोगैर्माक्षिकस्य च ॥३०॥
धूमैर्विरेकैः शिरसः पूर्वोक्तैर्गुल्मभेदनैः
तप्तायोहेमलवणपाषाणादि प्रपीडनैः ॥३१॥
आभिः क्रियाभिः सिद्धाभिर्विविधाभिर्बले स्थितः
ग्रन्थिः पाषाणकठिनो यदि नैवोपशाम्यति ॥३२॥
अथास्य दाहः क्षारेण शरैर्हेम्नाऽपि वा हितः
पाकिभिः पाचयित्वा वा पाटयित्वा तमुद्धरेत् ॥३३॥
मोक्षयेद्बहुशश्चास्य रक्तमुत्क्लेशमागतम्
पुनश्चापहृते रक्ते वातश्लेष्मजिदौषधम् ॥३४॥
प्रक्लिन्ने दाहपाकाभ्यां बाह्यान्तर्व्रणवत्क्रिया
दार्वीविडङ्गकम्पिल्लैः सिद्धं तैलं व्रणे हितम् ॥३५॥
दूर्वास्वरससिद्धं तु कफपित्तोत्तरे घृतम्
एकतः सर्वकर्माणि रक्तमोक्षणमेकतः ॥३६॥
विसर्पो न ह्यसंसृष्टः सोऽस्रपित्तेन जायते
रक्तमेवाश्रयश्चास्य बहुशोऽस्र हरेदतः ॥३७॥
न घृतं बहुदोषाय देयं यन्न विरेचनम्
तेन दोषो ह्युपस्तब्धस्त्वग्रक्तपिशितं पचेत् ॥३८॥

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां चतुर्थे
चिकित्सितस्थाने विसर्पचिकित्सितं नामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : March 15, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP