अथ जीर्णोद्धार विधिः उच्यते।
स्वायंभुवार्षदिव्यमानुषेषु चतुर्ष्वपि रत्नजेषु अङ्गहानिः यदि तत्तदङ्गं पुनस्तपनीयैः
समाधातव्यमेव। न त्यागो युज्यते। शैलजेष्वपि तद्वदेव। दार्वादिषु पञ्चसु हीनाङ्गेषु तानि
सन्त्यज्य पुनस्सृजेत्।सर्वात्मना सृष्टौ अङ्गमात्रसमाधाने च तच्छक्तिं कुम्भे समावाह्य। यथापुरं
निर्माय जलाधिवासादिकं सर्वं प्रतिष्ठायामिव कारयेत्।
स्थित्यासनशयनारूढेषु बिंबेषु समाधिः शक्यते यदि तेषां त्यागः न युज्यते। लोहजं बिंबंत्यक्तं
द्रावयित्वा पुनः सृजेत्। देवी जीर्णे पुनस्सृष्टौ देव्यो यथावत् स्थिताश्चेत् देवस्ताभिरेव योज्यः।
न अन्याः पुनः सृजेत्।तासु पूजने सन्तते पुनः उद्वाहश्च न कार्यः। प्रभापद्मासन आयुधादीनां
वैकल्ये चलने वापि असमाहित प्रतिमाशक्तिं मूलबिंबे घटे वा उद्वास्य, तानि यथापुरं समाधाय
यथाविधि संप्रोक्ष्य तां शक्तिं पुनः बिम्बे समावाह्य पुनः पूजयेत्।बालगेहं निर्माय तत्र शैलादिषु
जीर्णेभ्यः शक्तिं आवाह्य पूजयेत्। समाधानाऽनन्तरं ततः पुनः आवाह्य पूजयेत्। तत्रापि
सन्धान योग्यं सन्धेयं, अयोग्यं तु क्षितौ अंभसि वा निक्षिपेत्। प्रासाधे शिथिले स्वैः परिवारैः
उपेतं देवं बालवेश्मनि यथापुरं पूजयेत्। अजीर्णे ध्रुवबिम्बे धामनि जीर्णे सति तत्स्थितान्
देवान् देवपरिवारान् मूलबिम्बे निवेशयेत्। अजीर्णे धामनि जीर्णेध्रुवबिम्बे तन्निष्ठदेवतानां
उद्वासः न अन्यत्र कर्तव्यः। अजीर्णे वा अङ्ग भङ्गादि रहिते धामादौ सति न पुनः कल्पनं
कार्यम्। यदि कल्पयेत् आत्महानिः भवति। पुरा प्रासादात् प्रमाणरहित कल्पितं प्रासादादि
पुनः कल्पने लक्षणान्वितं कुर्यात्। बहुबेरैकबेरेषु यथापुरमेव कल्पयेत्.विपरीतकरणे महान्
दोषो भवति। बहुबेरं पूर्वं देवीभ्यां रहितं यदि, भूयः कल्पने ताभ्यां सह विना वा कुर्यात्।
अमानुषे तु बिंबादिकं पूर्वं लक्षण वर्जितं यदि जीर्णोद्धारेपि तथैव, न तदन्यथा। अमानुषे तु
बिम्बानां आसन शयन यानानि पुनः उद्धारे यथापुरमेव।मानुषे तु तेषां पुनः सृष्टौ यथेच्छाकरणं
न दोषाय।
दिव्यं विमानं पुरा यद्वस्तु यन्मानं यादृशं पुनः सृष्टौ तादृगेव, न अन्यथा। आर्षं मानुषं सदनं
ऐष्टक़ं मृण्मयं वा जीर्णं पुनः कल्पने शैलेन इष्टकया वा कार्यं। क्लृप्तानां उपपीठादीनां रक्षार्थं
बहिः वर्धने न दोषः। सालगोपुरपीठादौ चलिते जीर्णेपि शिलाभिः दृढं विस्तीर्णं अन्यथा वा
कुर्यात्।नद्यादि जलवेगेन प्रासादादि निर्बाधेअन्यत्र स्थाने पुनः कल्पयेत्। प्रथमकल्पने
मूर्तिमन्त्राधिकारिणः यादृग्विधाः तथैव द्वितीय कल्पने च। न अन्यथा। धामादीनां पूर्वकल्पने
जीर्णोद्धारे च फलं तुल्यमेव। तत्र मूर्तिव्यत्ययं न कुर्यात्। बहुबेरावयवमात्रजीर्णोद्धारे तु
प्रतिष्ठायामिव कर्मार्चां वेद्यां संस्थाप्य शय्यायां शाययित्वा। जलाधिवास नयनोन्मीलन
तत्वसंहारोत्पादनानि विना सर्वकर्माणि कुर्यात्।
अथ बालालय प्रतिष्ठाविधिः उच्यते-
आचार्यः यजमानेन सह वैष्णवान् सकलशास्त्रवेदागम पुराणज्ञान् ब्राह्मणानपि स्वयं आहूय,
प्रणिपत्य, प्रार्थयन् एतान् भोजयित्वा। स्वर्णाभरणवस्त्रगन्धतांबूलाद्यैः उपचर्य। तान्
प्रदक्षिणीकृत्य। प्रणम्य, कृताञ्जलिःसन् वासुदेवं ध्यात्वा च इत्थं विज्ञापयेत्।
पूजाबिंबमिदं विष्णोः स्थापितं पूर्व सूरिभिः।
पूज्यमानेऽङ्ग वैकल्य दूषणं चेहवर्तते।
अस्य जीर्णस्य बिम्बस्य चोद्धारं कर्तुमुद्यमे।
आगमस्यवशात् कर्तुं व्यवसायमुपास्महे।
यथैव देवपूजायां विनियुक्तं अनिन्दितम्।
गन्धपुष्पादिकं पश्चात् निर्माल्यं इति निन्द्यते.
तथैव जीर्णितं बिंबं पूजायामुपयुज्यते।
पश्चात्तज्जीर्णितं बिम्बं निर्माल्यमितिनिन्द्यते।
अस्य बिंबस्यचोद्धारं कर्तुमिच्छामि संप्रति।
भवन्तो नः अनुजानन्तु भवदाज्ञां करोम्यहम्।
इति विज्ञाप्य। तैः अनुज्ञातः सन् प्रासादाग्रे दूर्वाभिः मधुयुक्ताभिः आहुतीनां लक्षं सहस्रं
अष्टोत्तरशतं वा व्याहृतीभिः(ॐ भूः,ॐ भुवः, ॐ सुवःस्वाहा)हुत्वा। पञ्चोपनिषन्मन्त्रैः
शान्तिहोमं विधाय। ब्राह्मणैः सह पुण्याहं वाचयित्वा. शान्तिं च, आत्मसमर्पणपूर्वकं गुरुं
नमस्कृत्य। दक्षिणां दत्वा। लोहजं दारुजं वा बिंबं पूर्वलक्षणोपेतं कल्पयित्वा।
जलाधिवासादीनि कर्माणिमण्डपे कृत्वा। पूर्वोक्तप्रदेशे इष्टकया दारुणा मृदा वा
विमानानुगुण्येन एकहस्त समुच्छ्रायवतीं कर्णिकादलयुतां वेदिकां आपाद्य। तदुपरि बालबिम्बं
संस्थाप्य. अपरेऽहनि प्रतिष्ठाप्य। तत्परेऽहनि रात्रौ मूलगेहं प्रविश्य। स्नपनादिभिः यथाक्रमं
संपूज्य। रक्षाबन्धनं कृत्वा। प्रासादस्य चतसृषु दिक्षु पूर्ववत् शान्तिहोमं च विधाय. कर्मार्चायाः
पुरतः स्थण्डिलं कृत्वा। लोहजं मृण्मयं वा महाकुम्भं, तत्परितः कलशाष्टकं च विन्यस्य।
तान् ससूत्रवस्त्रापिधानकूर्चान् सनिष्फप्रमाण दलाष्टकयुत स्वर्णपद्मान् कृत्वा। महाकुंभे
मूलमन्त्रेण मूलर्मूींत कलशेष्वपि इन्द्रादीन् आवाह्य अभ्यर्च्य। कुम्भस्योत्तरेदेशे गुरुः शयीत।
तदनु प्रभाते स्नात्वा आचार्यः बालगेहं समासाद्य, पूजयित्वा। प्रलयोदयमार्गेण शोधयित्वा।
योगपीठं संकल्प्य च। इमां गाथां उदीरयेत्.
कियन्तं कालमेतस्मिन् कल्पगेहे जनार्दन।
निवासं कुरु देवेश कल्पिते बालमन्दिरे।
अद्यप्रभृति देवेश द्वादशाब्दावधि प्रभो।
त्वदन्यान् केशवादीन् च वासुदेवोनुमन्यते।
इति प्रहृष्टेन मनसा देवं प्रणम्य।बद्धाञ्जलिपुटः भूत्वा इमां उदीरयेत्।
भगवन् देवदेवेश शङ्खचक्र गदाधर।
नीचालयमहंकर्तुं बिम्बं चापिमनोहरम्।
वाञ्छामि तव देवेश तदनुज्ञातुमर्हसि।
एवं सयजमानः आचार्यः प्रार्थयन् मनसा शनैः काले विज्ञाप्य। महाकुम्भे पञ्चमन्त्रेण आवाह्य।
प्रणवेन विनिष्क्रम्य। प्रासादं प्रदक्षिणी कृत्य।बालगेहं च। तस्य अग्रतः महाकुम्भं निधाय।
ब्राह्मणानां अनुज्ञया कालं विज्ञाप्य। पञ्चोपनिषन्मन्त्रेण महाकुम्भजलेन बिम्बं संसिच्य। ततः
देवं प्रणम्य। संपूज्य। प्रासादकोणेषु बलिं दत्वा,बिम्बं अलंकृत्य,पुण्याहं वाचयित्वा। सृष्टि
संहारन्यासं कृत्वा. गन्धपुष्पादिभिः संपूज्य। ब्राह्मणेषु वैदिकतान्त्रिकान् मन्त्रान् जपत्सु,
सोष्णीषः अलङ्कृतः गुरुः हैमं लाङ्गलं आदाय। मूलमन्त्रेण पीठबन्धनं मोचयित्वा। विष्वक्सेनं
ध्यायन् बिम्बं गेहं वा निर्माल्यवत् स्मृत्वा। वस्त्रैः आच्छाद्य, व्याहृत्या रज्ज्वा बद्ध्वा समुद्धृत्य
वाद्यघोषैः सह आचार्यः क्षितौ अंभसि वा निक्षिप्य। विधिवत् स्नात्वा प्रासादं प्रविश्य। पुण्याहं
वाचयित्वा। समन्ततः बलिं च दत्वा। गेहस्थान् देवान् उद्वास्य,तत्र गाः वासयित्वा। खात्वा,
उद्धृत्य वालुकाभिः सम्पूर्य। प्रासादाग्रे रक्षाहोमं कृत्वा। ऋचं पश्चिमायां उत्तरस्यां साम प्राच्यां
च यजुरथर्वणं,दक्षिणस्यां दिशि ब्राह्मणान् पाठयित्वाच। एवं शान्तिहोमं कृत्वा। चतुर्थेऽहनि
बालबिम्बस्य प्रासादादेः वा स्नपनं कृत्वा, तदन्ते पुष्पयागावसानिकं उत्सवं कुर्यात्। यजमानः
गुरवे यथाविधि दक्षिणां दत्वा। मूलगेहं बिम्बं वा यथाविधि समाप्य। प्रतिष्ठां च यथा विधि
कुर्यात्।
इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां
जीर्णोद्धारविधिः नाम पञ्चत्रिंशः परिच्छेदः