संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका| पञ्चविंशः परिच्छेदः क्रिया-कैरव-चन्द्रिका प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः सप्तमः परिच्छेदः अष्टमः परिच्छेदः नवमः परिच्छेदः दशमः परिच्छेदः एकादश परिच्छेदः द्वादश परिच्छेदः त्रयोदशः परिच्छेदः चतुर्दशः परिच्छेदः पञ्चदशः परिच्छेदः षोडश परिच्छेदः सप्तदशपरिच्छेदः अष्ठादश परिच्छेद: एकोनविंशः परिच्छेदः विंशः परिच्छेदः एकविंशः परिच्छेदः द्वाविंशः परिच्छेदः त्रयोविंशः परिच्छेदः चतुर्विंशः परिच्छेदः पञ्चविंशः परिच्छेदः षड्विंशः परिच्छेदः सप्तविंशः परिच्छेदः अष्टाविंशः परिच्छेदः एकोन त्रिंशः परिच्छेदः त्रिंशः परिच्छेदः एकत्रिंशः परिच्छेदः द्वात्रिंशः परिच्छेदः त्रयस्त्रिंशः परिच्छेदः चतुत्रिंशः परिच्छेदः पञ्चत्रिंशः परिच्छेदः षट् त्रिंशः परिच्छेदः सप्तत्रिंशः परिच्छेदः क्रिया कैरव चन्द्रिका - पञ्चविंशः परिच्छेदः श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः Tags : kriya kairav chandrikasanskritक्रिया कैरव चन्द्रिकासंस्कृत गृहार्चाप्रतिष्ठाविधिः Translation - भाषांतर अथ गृहार्चा प्रतिष्ठाविधिः उच्यते-सुवर्णादिलोहजां,यद्वा चन्दनाऽगरु देवदारु बिल्वसरल तमाल चूत बदरी पनस क्षीरिणी सप्तलाजाति स्पन्दन तिमिश कदंब कुरवकतिलक मधूकासन जंबू पुन्नाग कनद खदिर निंब विभीतिक शाल्मल्यादि वृक्षजांयजमानाभीष्ट कर्मानुरूपां ब्राह्मणस्य चेत् हस्तमानमितां, क्षत्रियस्यचेत्एकविंशाङ्गुलमानां वैश्यस्य चेत् एकोनविंशाङ्गुलां, शूद्रस्य सप्तविंशाङ्गुलां, लोहजां चेत्ब्राह्मणस्य द्वादशाङ्गुलमानेन, क्षत्रियस्य नवाङ्गुलमानेन, विशः सप्ताङ्गुलमानेन, शूद्रस्यपञ्चाङ्गुलेन कृतां प्रतिमां रत्नजां मणिजां वा श्रीभूमिभ्यां श्रियावा युतां केवलां वा प्रभापीठादियुतां सलक्षणां संहारशयनमात्ररहितां यथाविधि शिल्पिना कारयित्वा। गृहस्यमारुत्यां दिशि स्थापयेत्।तत्प्रतिष्ठार्थं सर्वान् संभारान्संभृत्य। यजमानःस्वयं आचार्यवरणं कृत्वा ।अंगणे नदीतीरे वा, यद्वा सुपूजिते क्षेत्रे प्रपां समध्यवेदिकां सचतुष्फुण्डां सैककुण्डें वानिर्माय, आचार्येण प्रतिष्ठां कारयेत्।आचार्यः पूर्वं अङ्कुरान् अर्पयित्वा। तदनु जलाधिवास नयनोन्मीलन पाद्यादिद्रव्यकलशस्नपन शयनाधिवास कुम्भावाहनादिकं यथापूर्वं प्रतिष्ठायामिव कृत्वा। कुण्डेअग्निं उपसमिध्य। पुरस्तात्तन्त्रपूर्वकं तत्वहोमादि शान्तिहोमावसानिकं हुत्वा। पूर्ववत्संपातेन संस्पृश्य।सुमुहूर्ते प्रतिमास्थापनस्थाने रत्नन्यासं कृत्वा। तत्र यथाविधि संस्थाप्य।आवाहनादिकं कर्म कुर्यात्। जङ्घमस्य चेत् आवाहनादिकं अभिप्रेत वेदिकायां कृत्वा। तदनु स्थाने स्थापयेत्। द्वारे चण्ड प्रचण्ड क्षेत्रपाल विघ्नेश वास्तुनाथदुर्गा गुह विष्वक्सेन शङ्ख पद्मनिधीश्च आवाह्य अभ्यर्चयेत्।तदनु यजमानः चआचार्याचोदितः भूमौ दण्डवत् प्रणम्य इमां गाथां उदीरयेत्।‘ दासोस्मि तव देवेश सपुत्रगणबान्धवः।सन्निधत्स्व गृहे यावत् अन्ववायो महाच्युत।पूजां मयां यथाशक्ति विहितां विकलामपि।गृह्णीष्व भगवन् भक्तजनानुग्रह काम्यया।’‘ इत्थं आचार्यसन्निधौ भगवन्तं याचयित्वा। गुरवे मूर्तिपेभ्यश्च यथाशक्ति दक्षिणां वितीर्य।ब्राह्मणान् भोजयित्वा तेभ्यः अपि दक्षिणां दद्यात्।श्रीवत्सप्रतिष्ठाः- अथ श्रीवत्सप्रतिष्ठा विधिः उच्यते-श्रीवत्सं अग्रे शालिभारे सशाटिके निवेश्य। पुण्याहादिपूर्वकं सर्वं कर्म कृत्वा।तत्वानिविन्यस्य। कुम्भे च आवाह्य अभ्यर्च्य। पद्मकुण्डे अग्निं उपसमिध्य। श्रीवत्समन्त्रेणसमिदाज्य चरुभिः प्रत्येकं अष्टोत्तरशतं आहुतीनां हुत्वा। तत्वहोमं शान्तिहोमं चकृत्वा।संपातेन स्पृष्ट्वा।कुम्भजलेन प्रोक्ष्य। सुमुहूर्ते विष्णोः वक्षसि निवेशयेत्।गुरवे दक्षिणाच पूर्ववत्।कौस्तुभ प्रतिष्ठाः-कौस्तुभं तु यथापूर्वम् स्वमन्त्रेण स्थण्डिले स्थापयित्वा। सुवर्ण प्रतिमां कौस्तुभाकारेणकारयित्वा। महाकुम्भे विन्यस्य. पूर्ववत् सर्वं कर्म कुर्यात्।वनमाला प्रतिष्ठाः- वनमालां सुवर्णमयीं नानारत्न परिष्फृतां पूर्वोक्तविधानेन स्वमन्त्रेण प्रतिष्ठाप्य. सुमुहूर्तेविष्णोःकण्ठे लंबयेत्।अथ किरीट प्रतिष्ठाः-शुद्धकार्तस्वरमयं रत्नचितं वा किरीटं भगवद्योग्यं कृत्वा। पाद्यादि घृतान्तैःसप्तदशकलशैःकिरीटमन्त्रेण संस्नाप्य। सवस्त्रधान्यकृत स्थण्डिले निधाय। कुम्भेतन्मन्त्रेण आवाह्यअभ्यर्च्य। कुण्डचतुष्टये वा एकस्मिन् कुण्डे वा समिदाज्यचरुभिःतन्मन्त्रेण पृथक् अष्टोत्तरशताहुतीनां हुत्वा। शान्तिहोमं हुत्वा। संपातेन किरीटं संस्पृश्य।सुमुहूर्ते कुम्भजलेनस्वविद्यया प्रोक्ष्य। तदनु भद्रासने समासीनं देवं राजवत्उपचर्य.संस्नाप्य। अलंकृत्य आराध्य। वेदघोषैः वाद्यघोषैः सर्वोपचारैः सह आचार्यःमूर्तिपैः साकं पञ्चोपनिषन्मन्त्रैः देवस्य मूर्धनि किरीटं आरोप्य। देवं यानं आरोप्य।तूर्यघोष पुष्पवृष्ट्याद्युपचारपुरस्सरं ग्रामं प्रदक्षिणी कृत्य मन्दिरे विनिवेश्य अर्चयेत्। गुरवेदक्षिणा देया।भूषणादि प्रतिष्ठाः-हारादि नूपुरान्तं भूषणजालं द्वादशाक्षरेण गन्ध जलेन संक्षाल्य। धान्यराशौ संस्थाप्य।अग्नौ स्वविद्यया हुत्वा। तत्तद्भूषणं ध्यात्वा। द्वादशाक्षरमनुं जपन् तत्तन्मन्त्रेण तैस्तैःभूषणैः भूषयेत्। चक्राद्यायुध प्रतिष्ठाः- अथ चक्राद्यायुधानां प्रतिष्ठाविधिः उच्यते।- चक्रं तु हस्तमानेन यद्वा सप्तदशांगुलम्। अष्टादशांगुलं यद्वा विंशत्यंगुलसंमितम्।चतुर्दशांगुलं वापि षोडशांगुलमेव वा।द्वादशांगुलमानं वा स्वलक्षण परिष्फृतम्।मूलबिम्बाननसमं सहस्रारं समुज्वलम्।यद्वा शतारमथवा चतुर्विंशत्यरान्वितम्।षोडशारमथाष्टारम् अथवा षडरं वरम्।सहस्रज्वालमथवा षड्ज्वालं नाभिमण्डितम्।त्रिलोहनिर्मितं चक्रं नालपीठ समन्वितम्।कृत्वा करण्डमकुटं बिभ्राणं वा सुदर्शनम्।चतुर्भुजधरं क्रुद्धं भ्रुकुटी कुटिलाननम्।पुरुषं द्विभुजं यद्वा दक्षिणेनापि तर्जनम्।स्पृशन्तं कटिमन्येन च इतराभ्याम् कृताञ्जलिम्।मुख्याभ्यां कराभ्यां तु सुस्थितं पद्मविष्टरे।’‘ एवं रूपयुतं चक्रं कल्पयित्वा। पूर्ववत् अङ्कुरार्पणजलाधिवास नयनोन्मीलन स्नपनशयनाधिवासद्वारतोरणकुम्भपूजानां अनन्तरं महाकुम्भे सुदर्शनं तन्मन्त्रेण आवाह्य।अभ्यर्च्य। अत्युग्रं पुरुषं ध्यायेत् द्विभुजं रक्त वाससम्।रक्तदंष्ट्राननम् नाभौ सुस्थितं चक्रनायकम्।‘’ इति ध्यात्वा। चतुष्फुण्डेषु यद्वा एकस्मिन् समिदाज्य चरुभिः तन्मन्त्रेण पृथक्अष्टोत्तरशतं आहुतीनां हुत्वा। चक्रं शोषणादिभिः संशोष्य। शान्तिहोमावसाने संपातेननाभ्याद्यवयवान् संस्पृश्य। सुमुहूर्ते स्वविद्यया प्रोक्ष्य। सम्पूजयेत्।शङ्खादि प्रतिष्ठाः-शङ्खादीनां चतुर्णाम् यथा पूर्वं आचार्यः स्वस्वमन्त्रैः प्रतिष्ठां कृत्वा। यथाविधि पूजयेत्।गुरवे दक्षिणां च पूर्ववत्।चण्डादिद्वारपाल प्रतिष्ठाः-चण्डादिद्वारपालानां जलाधिवासनयनोन्मीलन स्नपन शयनाधिवास एक कुम्भपूजनतत्वहोमन्यास शान्तिहोम(सम्पात)स्पर्शनादिकर्म कृत्वा।आचार्यः तत्तन्मन्त्रेणबीजयुक्तेन कुम्भजलेन प्रोक्षयेत्।गुरवे दक्षिणा च पूर्ववत्।गरुड प्रतिष्ठाः-अथ वैनतेयप्रतिष्ठा विधिः उच्यते-अङ्कुरावापनादि कर्मं यथाविधि पूर्ववत् कृत्वा। आचार्यः पूर्वादिषु चतुर्षु कोणेषु क्रमेणसत्य सुपर्ण गरुड तार्क्ष्यान् आवाह्य। तेषु क्रमेण बृहत्साम, सुपर्णमनु ,रथन्तर,गरुडगायत्री मन्त्रैः प्रत्येकं प्रतिद्रव्यं अष्टोत्तरशतं आहुतीनां हुत्वा। परस्तादुपरिष्टाश्च शिष्टंकर्म यथापूर्वं कुर्यात्। गुरवे दक्षिणा च देया।आदित्यप्रतिष्ठाः-आदित्यप्रतिष्ठायां तु स्व गायर्त्याराधनम्। तथैव होमः। ‘बिभ्राडि’ त्यनुवाकेन सावि र्त्याच स्थापनं सूर्यविद्यया कुम्भप्रोक्षणं च कुर्यात्। ब्रह्मादीनां च सर्वेषां देवानां च यथा पुरम्। स्वतन्त्रे परतन्त्रे च स्वैः मन्त्रैः स्थापनं भवेत्।दुर्गा च मातरः सप्त याः कश्चित् देवताः स्त्रियः।तासां प्रतिष्ठा लक्ष्मीवत् स्वैः स्वैः मन्त्रैः विशिष्यते।विष्वक्सेन प्रतिष्ठाः-विष्वक्सेनस्य भगवत्बिंबस्येव सर्वकर्माणि कृत्वा। स्वमन्त्रेण स्थापनं कुर्यात्। सर्वत्रदक्षिणा च पूर्ववत्।भक्तप्रतिष्ठा विधिः-भक्तानां प्रतिकायं स्वतन्त्रं स्वामितन्त्रं वा शिलादिभिः यथालाभं कृताञ्जलिपुटं सौम्यंस्थितं आसीनं यथावर्ण रूपं यथाश्रमधर्मं यथावयोरूपधरं पद्मपीठे प्रतिष्ठितंकर्मानुरूप्येण वा प्रतिष्ठितं शिल्पिना कल्पयित्वा। शुभेदिने गुरुः आदौ अङ्कुरान्युग्मास्वेव पालिकासु अर्पयित्वा। वेदिकाधिवासन कुम्भाष्टकरहितं सर्वं अन्यत् कर्मजालंपूर्ववत्। द्वारतोरणयजन पूर्वकं प्रणवेन अन्यैः मन्त्रैश्च यथाविधि कृत्वा। कुम्भप्रोक्षणंतन्मन्त्रेणैव कुर्यात्। तेषां स्वातन्त्ये सिह्मदिङ्मूर्ति वर्जितं मन्दिरं कुर्यात्। दीक्षा गुरु प्रतिष्ठाःआचार्यः मन्त्रसिद्धये दीक्षागुरोः प्रतिमां कृत्वा। पुण्याहपूर्वकं सर्वं कर्मजालं भक्तानामिवकृत्वा। ब्राह्मणान् भोजयित्वा। तेभ्यःदक्षिणां च वितीर्य। तत्र स्वाध्यायाऽध्ययनादिविप्रैःकारयित्वा। स्वयं च कुर्यात्। तेषां स्वातन्त्ये ध्वजारोहण होमबलि तीर्थयात्रारहितमुत्सवंकुर्यात्। पारतन्त्ये भगवता साकं भगवत्प्रीतये कुर्यात्। गुरवे दक्षिणा च पूर्ववत्।इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायां गृहार्चा ,श्रीवत्स, कौस्तुभ,वनमाला, किरीट, भूषण, चक्राद्यायुध, चण्डादिद्वारपाल, गरुडः आदित्य भक्ता,दीक्षागुरुप्रतिष्ठाविधिःनाम पञ्चविंशः परिच्छेदः N/A References : N/A Last Updated : January 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP