संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका| षष्ठः परिच्छेदः क्रिया-कैरव-चन्द्रिका प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः सप्तमः परिच्छेदः अष्टमः परिच्छेदः नवमः परिच्छेदः दशमः परिच्छेदः एकादश परिच्छेदः द्वादश परिच्छेदः त्रयोदशः परिच्छेदः चतुर्दशः परिच्छेदः पञ्चदशः परिच्छेदः षोडश परिच्छेदः सप्तदशपरिच्छेदः अष्ठादश परिच्छेद: एकोनविंशः परिच्छेदः विंशः परिच्छेदः एकविंशः परिच्छेदः द्वाविंशः परिच्छेदः त्रयोविंशः परिच्छेदः चतुर्विंशः परिच्छेदः पञ्चविंशः परिच्छेदः षड्विंशः परिच्छेदः सप्तविंशः परिच्छेदः अष्टाविंशः परिच्छेदः एकोन त्रिंशः परिच्छेदः त्रिंशः परिच्छेदः एकत्रिंशः परिच्छेदः द्वात्रिंशः परिच्छेदः त्रयस्त्रिंशः परिच्छेदः चतुत्रिंशः परिच्छेदः पञ्चत्रिंशः परिच्छेदः षट् त्रिंशः परिच्छेदः सप्तत्रिंशः परिच्छेदः क्रिया कैरव चन्द्रिका - षष्ठः परिच्छेदः श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः Tags : kriya kairav chandrikasanskritक्रिया कैरव चन्द्रिकासंस्कृत मूर्धेष्टका (कवाटस्थापन) विधिः Translation - भाषांतर मूर्धेष्टका (कवाटस्थापन) विधिः उच्यते-पूर्वे मण्डपं प्रपां वा मध्ये वेदिकाद्वयेन सह कल्पयित्वा। मध्यवेदिकायां पूर्ववत् व्रीहिशालि तण्डुल तिलैः सवस्त्राच्छादनं स्तण्डिलं कृत्वा। तस्मिन् पूर्वोक्त लक्षणयुतान्नवकुम्बान् पुण्याहपूर्वकं संस्थाप्य। इष्टकाधिवासार्थं द्वितीय वेदिकायां च स्थण्डिलंपूर्ववत् कृत्वा। दर्भान् आस्तीर्य। मूर्धेष्टका शुद्ध्यर्थं स्नपनकर्मकरिष्ये। इति संकल्प्य।पुण्याहं वाचयित्वा। तत्र नवकलशान् सलक्षणान् संस्थाप्य। तान् च पूर्वोक्त विशेषेणविशिष्टान् विधाय।ब्रह्मादि ईशानान्तं पूर्ववत् घृतादि द्रव्यैः आपूर्य। तेषु पूर्ववत्तदधिदैवतानि आवाह्य अभ्यर्च्य। नपुंसकेष्टकाः चतस्रः संगृह्य। पुण्याहं वाचयित्वा।प्रोक्ष्य। तेषु वासुदेवादीन् आवाह्य अभ्यर्च्य। पीठे संस्थाप्य। नवकलशैः तत्तन्मन्त्रेण ताःक्रमेण पृथक् अभिषिच्य। सदर्भ नव वासोभिः पृथक् पृथक् संवेष्ट्य। पुण्याहं वाचयित्वा।प्रोक्ष्य।पूर्वकृत द्वितीयवेदिका स्थण्डिलोपरि ताः शाययित्वा।पूर्ववत् द्वारतोरण कुम्भान्संस्थाप्य।तत्तद्दैवतानि आवाह्य अभ्यर्च्य।मध्यवेदिकाकुम्भेषु मध्ये परमात्मानंउपकुम्भाष्टके विष्ण्वादीन् आवाह्य अभ्यर्च्य।पायसान्नं निवेद्य।वेदिकायां चतसृषु दिक्षुअधिवासहोमं धाम्नः अष्टसु दिक्षु शान्ति होमं च कृत्वा।संपाताज्यं संगृह्य।तेनस्पर्शमन्त्रेण ताः स्पृष्ट्वा।पूर्ववत् संकल्पादि पूर्वसूत्रैः प्रतिसरं बध्नीयात्।ततःपञ्चविंशतिकलशस्नपन कर्मकरिष्ये।इति संकल्प्य।पुण्याहं वाचयित्वा।प्रोक्ष्य।पूर्वायतानि दशउदकायतानि तावन्ति सूत्रानि निपातयेत्।तदाकृते एकोत्तराशीति पदानि भवन्ति।तेषुमध्यपद नवके कुम्भ नवकं तत्परितः द्वेद्वे पङ्क्तिं वीध्यर्थं परिमाज्र्य। तद्बहिःपूर्वादिसोमान्तं दिक्षु त्रीणि त्रीणि आग्नेयादीशानान्तं एकैकं कुम्भानां व्रीहि तण्डुलतिलकृतस्थण्डिलोपरि विन्यस्य। मध्यकुम्भनवकं घृतोष्णोदक नवरत्न फलसप्तलोहमार्जन गन्धाक्षत यवैःब्रह्मादीशानान्तं क्रमेण आपूर्य।पूर्वादि दिक्स्थमध्य कुम्भान्चतुरः क्रमेण पाद्य अर्घ्य आचमन पंचगव्यैः आग्नेयादि कोणस्थितान्चतुरः दधिक्षीर मधुकषायैः पाश्र्वस्थित कुम्भाष्टकं शुद्धोदकेन च आपूर्य।पूर्वोक्त विशेषेण विशिष्टान् आधाय।द्रव्यकुम्भेषु परवासुदेवादि दामोदरान्तान् शुद्धोदक कुम्भेषु नारायणं चआवाह्य।अभ्यर्च्य। ततः यजमानः आचार्यः स्नात्वा वस्त्राङ्गुलीयकादिभूषणैः भूषितःउपोषितः। तत्र दर्भान् आस्तीर्य। परमपुरुषं ध्यायन् शायीत।श्वभूते सुमुहूर्ते कृतकृत्यःगुरुः इष्टकाः पञ्चविंशतिकलशैः मूलमन्त्रेण महाकुम्भतोयेन च स्नापयित्वा अभ्यर्च्य।मूलेन जलैः वासोभिः वेष्टयित्वा। सर्वालङ्कृतानां ऋत्विजां मूध्र्नि विन्यस्य।सवेदवाद्यघोषं धामप्रदक्षिणी कृत्य।विमानोपरितले इष्टकाः आरोप्य। पुण्याहंवाचयित्वा।आचार्यः प्राङ्मुखः हृदयकमले नारायणं ध्यायन् पूर्वादि दिक्रमेण प्रणवेनइष्टकाः स्थापयेत्। तदानीं पापरोगयुतान् प्रतिलोमजान् अपि बहिः निर्वासयेत्।तदनुयजमानः शिरसा गुरुं प्रणम्य।गो भू हिरण्य भूषणदासीदास वाहन छत्र चामरपादुकादीन् महादक्षिणां च दद्यात्।रथकारं च तथा वस्त्रान्नधनदान्यादिभिः तोषयेत्।अत्र स्थूपिकाकील विधिः उच्यते ।सौवर्ण राजतं ताम्रं वा दारुजं वा वक्र ग्रन्थि वर्जितं स्थूपिका कीलं मूर्धभूम्यङघ्रि प्रमाणविस्तारायामं भवेत्।तदग्रमङ्गुली प्रमाणं विमान कण्ठतुल्य प्रमाणं अध्यर्ध प्रमाणं द्विगुणप्रमाणं वा वृत्तं चतुरश्रं पञ्चाश्रं वा कल्पयेत् । वृत्तायते चतुरश्रायते च विमानेस्थूपिकाकीलानि युग्मानि स्युः;इतरेषु विमानेषुअयुग्मानि।विंशति यावत्युग्मानि;एकोनविंशतिं यावत्अयुग्मानि चतुरश्र षडश्राष्टाश्र वृत्तेषु धामसु स्थूपिकाकीलंएवमेवस्यात् एवं कीलं कृत्वा। आचार्यः तस्य मूर्धेष्टका विधिवत् अधिवास स्नपनादिआरोपणान्तं सर्वं कर्म कृत्वा।कीलं विमानाग्रं प्रापय्य।ततः आचार्यः तत्र पुण्याहं वाचयित्वा। स्थूपिका गर्ते नवरत्नानि धातु लोहबीजानि चयथाविधि निक्षिप्य। स नववस्त्र उत्तरीयः धृत पञ्चाङ्ग भूषणः प्राङ्मुखः मूलमन्त्रेणस्थूपिका कीलं गर्ते संस्थाप्य। सुधया धृढीकृत्य। ततः विमानदिग्देवता कल्पनंकुर्यात्।तदनु यजमानः यथावित्तं आचार्यं मूर्तिपानां दक्षिणां दद्यात्==अथ शिखाकुम्भंसौवर्णं राजतं ताम्रं पैत्तलं मृण्मयं वाशिखाकुम्भं वृत्तेधाम्निवृत्तं अश्रे अश्रं संस्थाप्य। तंनानारत्नैःलोहैः च आपूर्य।तदग्रं मुकुळाकृतिं दीपाकृतिं वा कल्पयित्वा।ततः विकचकमलाकृतिं कुर्यात्।अथ विमानदिग्देवता कल्पन विधिः विमानस्य ऐन्द्र्यां श्यामलं इन्द्रं रक्तं कुमारं वा दक्षिणस्यां रक्तवर्णं उमापतिं दक्षिणामूर्तिंवा प्रतीच्यां श्वेतवर्णं नृहरिं श्रीधरं वा उदीच्यां कनकवर्णं ब्रह्माणं धनपतिं वा अथवा पुरुषसत्य अच्युताऽनन्तान् यद्वा श्याम रक्त कनकश्यामळ वर्णान् वासुदेव संकर्षण प्रद्युम्नअनिरुद्धान् यदिवा नर नारायण हरि कृष्णान् आहोस्वित् वराह नृसिह्म श्रीधर हयवक्त्रान्एतान् चतुर्भुजान् शंखचक्रधरान् ब्रह्माद्यान् अपिस्वायुध धरान् ध्रुव भेरेस्थिते स्थितान्आसीने आसीनान् शयिते तु स्थितान् आसीनान् वा यानारूढे यानारूढान् स्थितान् वाविश्वरूपे विश्वरूपान् स्थितान् वा चतुर्भुजान् इन्द्रादीन् च सर्वेष्वपि प्राकारेषु आसीनान्विमाने शैलजे शैलजान् कुर्यात्।तेषां जलाधिवासादि शयनाधि वासान्तं कर्मं यथाविधिकृत्वा।सुमुहूर्ते स्वस्व स्थानेषु संस्थाप्य।वर्णलेपनं कुर्यात्।इष्टकामये धाम्नि तु शूलानांजलाधिवासादि शयनाधिवासान्तं कर्म कृत्वा।स्वस्वस्थानेषु संस्थाप्य।त्रिवस्तुकमयंकृत्वा।यस्य यः वर्णःविहितः तेनैव रञ्जयेत्।ते सर्वे भित्तिमागस्ताः सपद्मविष्टरःअर्धचित्राः आभास चित्राः वा कल्पनीयाः।एक नासायुते धाम्नि दिङ्मूर्तिरपि एकैव । नासिकाहीने तु दिङ्मूर्तिः न इष्यते ।चतुरश्रायते वृत्ते वृत्तायते च धाम्नि आग्नेयादिषु विदिक्षु क्रमेण वीरसेन सुषेण भद्रसुभद्रका बाहुभिः चतुर्भिः सद्मधारिणः स्थाप्याः।चतुरश्रायते धाम्नि दक्षिणोत्तरतः नासिका द्वययुते पूर्णपुष्फरौ शंखचक्र धरौ यवनिकां स्पर्शि हस्तौ कल्पनीयौ।विमानस्यप्रतितलं नृत्यतः सुरविद्याधरान् किन्नरोरगान् वीणा पणवधारिणश्च सर्वत्र भगवदवतारान्च वृत्तेः उपरि कण्ठस्य अधस्तात् कोणेषु चतुर्षु कनक वर्णं गरुडं सिह्मं वाकण्ठमात्रोन्नतं पादमात्रोन्नतं अध्यर्धोन्नतं त्रिपादमात्रोन्नतं वा कल्पयेत्।अधस्तात्विमानाधिष्टाने आग्नेये स्थितं हस्ति वदनं दक्षिणस्यां शोणमीशं ऋषिभिः सेवितंदक्षिणामूर्तिं वा प्रतीच्यां विश्वरूपं उत्तरे कमलासनं कनक वर्णं ऐशान्यां महिषासुरमर्दिनींअथवा पूर्ववत् सर्वाऽपि दिङ्मूर्तिः तस्य अधस्तात् उपपीठेऽपि पूर्ववत् अथवातत्कर्तोपेतान् प्रादुर्भावान् प्रकल्पयेत्।पाषाण शर्करा तक्रसुधया त्रिप्रकारया त्रिफलांम्भोभिःत्रिवारं द्विवारं एकवारं वा पिष्टयाखादिरार्जुन शाल्मली क्षीरशाखिनांकषायांभोभिः तथा कृतया घटे भूयः पिष्टयामाषीयत्वक्वात मिश्रया गुडपाकरसैः सैकतैः च पुनः भृशंकुट्टितयाधाम स्थूल सूक्ष्मरूपपराख्येन त्रिविधेन क्रमेण लिम्पेत्।एवं कृतेधाम चिरस्थायी भवति।पाषाणशर्करातक्रसुगन्धचूर्णं द्विगुणवालुकया युक्तं संयक् पिष्ट्वा कुर्यात्।एकवारं क्षुण्णंस्थूलं,द्विवारं क्षुण्णं सूक्ष्मं,त्रिवारं क्षुण्णं परम्।एवं क्रमेण लेपनक्रमःतद्धाम पञ्चवर्णैःयथाविधि शोभितं कृत्वा। उपानदादि स्थूप्यन्तं कनकादिभिः भूषयेत्।अथ कवाट स्थापन विधिः उच्यतेकवाटद्वार शाखाः समानीय।‘‘ओं लां नमः पराय सर्वात्मने’‘इति संक्षाळ्य। पुण्याहंवाचयित्वा।कवाटद्वारशाखाः चतस्रः पञ्चोपनिषन्मन्त्रेण अद्भिः संप्रोक्ष्य।अहतैःवासोभिः आच्छाद्य। पूर्ववत् धान्यराशिं कृत्वा।तत्र कवाटद्वार शाखाःसंस्थाप्य।कुम्भस्थापनार्थं च पूर्ववत् स्थण्डिलं कृत्वा।तत्र सरत्नलोहकूर्चाऽश्वत्थपल्लवापिधानं सकरकं महाकुम्भं मध्ये तत्परितः तादृश विशेषण विशिष्टं कलशाष्टकं च क्रमात् विन्यस्य।द्वारतोरण कुम्भेषु तत्तद्दैवतानि आवाह्य।अभ्यर्च्य।पुण्याहवाचन पुरस्सरं अधिवासहोमं कृत्वा।प्रभाते गुरुः कवाटआधारशिलागर्तयोः पूर्ववत् रत्नन्यासं विधाय। तदुपरि कवाटाधारशिलेसंस्थाप्य।पुण्याहं वाचयित्वा। आधारशिले पञ्चगव्येन प्रक्षाळ्य।सुलग्ने कवाटेसंस्थाप्य। महाकुम्भस्त कूर्चेन कवाटयोः देवता विन्यासं कारयेत्। तत्क्रमः-अधश्शाखायां शान्तिं दक्षिण शाखायां वाग्देवीं उपरि श्रियं औत्तर शाखायां रतिं दक्षिणकवाटे विश्वदृग्भूतनाथौ उत्तरे विश्ववक्र प्रतापवन्तौ च । तत्रस्थाःमत्स्यादि दशमूर्तिःस्वस्व विद्यया प्रोक्ष्य।वेत्रेषु वेदशास्त्र पुराणानि नाराचेषुत्रयस्त्रिशत् देवताः कीलेषु ऋषीन्कवाट पट्टिकायां भूतनाथं कवाटकन्द पट्टे विश्वभावनं च प्रणवादि नमोन्तैः स्वस्व मन्त्रैःमहाकुम्भजलैःन्यसेत्। ततःआचार्यादिभ्यः यथाविभवं दक्षिणां दद्यात्।इति मूर्धेष्टका (कवाटस्थापन) विधिः नाम षष्टः परिच्छेदः N/A References : N/A Last Updated : January 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP