संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|क्रिया-कैरव-चन्द्रिका| प्रथमः परिच्छेदः क्रिया-कैरव-चन्द्रिका प्रथमः परिच्छेदः द्वितीयः परिच्छेदः तृतीयः परिच्छेदः चतुर्थः परिच्छेदः पञ्चमः परिच्छेदः षष्ठः परिच्छेदः सप्तमः परिच्छेदः अष्टमः परिच्छेदः नवमः परिच्छेदः दशमः परिच्छेदः एकादश परिच्छेदः द्वादश परिच्छेदः त्रयोदशः परिच्छेदः चतुर्दशः परिच्छेदः पञ्चदशः परिच्छेदः षोडश परिच्छेदः सप्तदशपरिच्छेदः अष्ठादश परिच्छेद: एकोनविंशः परिच्छेदः विंशः परिच्छेदः एकविंशः परिच्छेदः द्वाविंशः परिच्छेदः त्रयोविंशः परिच्छेदः चतुर्विंशः परिच्छेदः पञ्चविंशः परिच्छेदः षड्विंशः परिच्छेदः सप्तविंशः परिच्छेदः अष्टाविंशः परिच्छेदः एकोन त्रिंशः परिच्छेदः त्रिंशः परिच्छेदः एकत्रिंशः परिच्छेदः द्वात्रिंशः परिच्छेदः त्रयस्त्रिंशः परिच्छेदः चतुत्रिंशः परिच्छेदः पञ्चत्रिंशः परिच्छेदः षट् त्रिंशः परिच्छेदः सप्तत्रिंशः परिच्छेदः क्रिया कैरव चन्द्रिका - प्रथमः परिच्छेदः श्री वराहगुरुणाविरचितायां क्रियाकैरवचन्द्रिकाः Tags : kriya kairav chandrikasanskritक्रिया कैरव चन्द्रिकासंस्कृत भूपरीक्षा विधिः Translation - भाषांतर आदौ भूपरीक्षा विधिः उच्यतेश्रद्धावान् आस्तिको भक्तः धनधान्यौ समेधितः।महोत्साहः शुचिः दक्षः कृतज्ञो लोभवर्जितः।ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यनुलोमजः।इत्याद्युक्तैः समस्तगुणैः समेतः यजमानःपाञ्चरात्रविदं शान्तं सिद्धान्तेषु कृतश्रमम्।भगवद्वंशजं शुद्धं अलोलुपमदांभिकम्।अपापमृजुमव्याधिमदृष्टपरमास्तिकम्।इत्याद्युक्त लक्षणं आचार्यं प्रथमं वरयेत्। ततः आचार्यो यजमानश्च दैवज्ञेन सह शुभे दिनेग्रामादिस्थापनाय आदौ निमित्तानि परीक्ष्य। शुभे निमित्ते ग्रामादीन् आरभेत।तदर्थंरथकारेण सह आचार्यः भुवं परीक्षेत।अथ भूमि लक्षणम् उच्यते-सुपद्मा, भद्रका, पूर्णा,धूम्रा च इति भूमि श्चतुर्विधा। सुपद्मा-चंपकागरु खर्जूर कदंब तिलकार्जुन क्रमुक नारिकेल कुश काश कमल कुवलययुताप्रागुदक्प्रवणा शुभतोयावृता।भद्रका-नदीसागर पाश्र्वस्था तीर्थायतनम्- आश्रिता क्षीरवृक्ष फलवृक्षसमाकुलाउद्यानोपवनोपेता लतागुल्म यज्ञ वृक्ष कुशकाशव्रीहि क्षेत्रैः अधः जलेन च उपेता।पूर्णा-कुलुत्थ कंकु निष्पाव कोद्रव श्यामाकान्विता आप्रभूतोदक गिरि पाश्र्वं गिरिशिखरंवा आश्रिता।धूम्रा- यववेणुस्नुहिश्लेष्मातक विभीतकार्कसंकीर्णं कठिन शर्करान्विता वायस श्येनगृध्रगोमायुवृक संकुला ऊषरान्विता।सुपद्मा शान्तिदा। भद्रका सुखदा। पूर्णा पुष्टिदा।धूम्रा क्षयदा।भूमिम् एवं विधां ज्ञात्वा।तां दण्डमानेन विस्तारायामयोः सदृशं जानुदघ्नं खात्वा। पुनःताभिरेव मृद्भिः पूरिते समाधिके उत्तमाम्।समे मध्यमाम्। न्यूने अधमाम् ज्ञात्वा ।अधमां वर्जयित्वा। अन्ययोः शालिमुद्ग यवादीनां बीजान्युप्त्वा परीक्षेत ।त्रिरात्राभ्यन्तरे यद्यङ्कुराः समुद्भूताःतदा उत्तमा । पञ्चरात्राभ्यन्तरे चेत् मध्यमा, सप्तरात्राभ्यंतरे चेत् अधमा।अङ्कुरेषु अप्ररूढेष्वपि अधमैव। अधमां वर्जयेत् । अन्येगृह्णीयात्। कुशपलाश हरिणाः यत्र विद्यंते सा अधमा अपि उत्तमा । मधुरेण रसेन युक्ताउत्तमा।कटुका मध्यमा। आम्लाद्यन्य रसा अधमा। श्वेता उत्तमा। पीत लोहिता मध्यमा।कृष्णा अधमा।संयक् एवं विचार्य पाञ्चरात्रवित् आचार्यः यजमानेन रथकारेण चसाकम्,वास्तुसीमनि नृत्तगीतवाद्य मंगलपाठ पूर्णकुम्भ दीपध्वज छत्रसमन्वितम्सवेदाध्ययनं स्वस्तिवाचनेन सह प्रदक्षिणं परिक्रम्य। सर्वास्वपि दिक्षु विदिक्षु च प्रागादिपिशाचादीनां पायसैः ब्रह्मस्थानांतं बलिकर्म कुर्यात् ।भूताः पिशाचाः नागाश्च असुराः राक्षसाः ग्रहाः।सर्वे ते व्यपगच्छन्तु बलितुष्टाः यथा तथम्।देवानां च द्विजानां च स्थानं सम्यक् करोम्यहम्।वासुदेवस्य देवस्य सर्व भूतात्मकस्य चइति मंत्रं उदीरयन्, अस्त्र मन्त्रेण संसिद्धान् सिद्धार्थान् सर्वतः विकीर्य। यथाविधिबलिंदत्वा। तत्रसूत्राणि निपात्य। सूत्रसंधिषु शंकून् संस्थाप्य। ततः यथाविधि वास्तुपूजांकुर्यात्।अधोमुखं प्राक्छिरसं कोणप्रसारित पाणि पादम् वास्तु पुरुषं विलिख्य आवाह्य अभ्यर्च्य।वास्तुपुरुषस्य दक्षिणतः अग्नि कुण्डे स्थण्डिले वा विधिवत् संस्कृतम् अग्निं दीपयित्वा।तस्मिन् तमावाह्य पञ्चोपनिषदा घृतेन आहुतीनां सहस्रं शतं वा अपामार्ग शमीखादिराणां समिद्भिश्च तावत् हुत्वा।अग्निं यक्षरक्षः पिशाचानाम् पूर्वोक्ताभिः समिद्भिःपूर्वोक्त संख्यया स्वयं हुत्वा। ततः मूलमंत्राभ्यां पृथक् अष्टोत्तरशताहुतीः वास्तुनाथमंत्रेण चरुणा आहुतीनां शतं च हुत्वा। पूर्णाहुतिं हुत्वा। अग्निस्थं उद्वास्य। अष्टासु दिक्षुइन्द्रादीनां स्वस्वमन्त्रेण बलिंदद्यात्।इति श्री वराहगुरुणा विरचितायां क्रियाकैरव चन्द्रिकायांभूपरीक्षा विधिः नाम प्रथमः परिच्छेदःदानपालनयोर्मध्ये दानात् श्रेयोनुपालनम्।दानात् स्वर्गमवाप्नोति पालनादच्युतं पदम्।स्वदत्तां परदत्तां वा यो हरेत वसुंधराम्।षष्टिवर्ष सहस्राणि विष्टया जायते कृमिः।स्वदत्तात् द्विगुनंपुण्यं परदत्तानुपालनम्।परदत्ताऽपहारेण स्वदत्तं निष्पलं भवेत्।एकैव भगिनी लोके सर्वेषामेव भूभुजाम् ।न भोज्या न कदा ग्राह्या विष्णुदत्ता वसुंधरा।(नीतिश्लोकम् )।इति श्री वराहगुरुणा विरचितायां क्रियाकैरवचन्द्रिकायां भूपरीक्षा विधिः नाम प्रथमः परिच्छेदः N/A References : N/A Last Updated : January 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP