परमेश्वरसंहिता - पञ्चमोऽध्यायः

परमेश्वरसंहिता


कृत्वैवं तु ततः पश्चान्मानसं यागमारभेत्।
पद्मासनादिकं बध्वा नाभौ ब्रह्माञ्चलिं दृढम् ॥१॥
मनस्युपरतं कुर्यादक्षग्रामं बहिः स्थितम्।
चित्तं बुद्धौ विनिक्षिप्य तां बुद्धिं ज्ञानगोचरे ॥२॥
ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम्।
चतुश्चक्रे नवद्वारे देहे देवगृहे पुरे ॥३॥
कण्ठकूपधरारूढं हृत्पद्मं यदधोमुखम्।
तत्कर्णिकावनेर्मध्यदे(ह)शमाश्रित्य भावयेत् ॥४॥
नाभिमेढ्रान्तरे ध्यायेच्छक्तिं चाधाररूपिणीम्।
कालाग्निं च तदुर्ध्वे तु अनन्तं तस्य चोपरि ॥५॥
तदूर्ध्वे वसुधां देवीं चतुर्भिः पूरितं(तां) स्मरेत्।
कन्द(ात्)नाभ्यवसानं च चतुर्धा भाजितैः पदैः ॥६॥
नाभौ क्षीरार्णवं ध्यात्वा ततः पद्मं समुत्थितम्।
सहस्रदलसंयुक्तं सहस्रकिरणावृतम् ॥७॥
सहस्ररश्मिसंकाशं तत्पृष्ठे चासनं न्यसेत्।
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुर्थकम् ॥८॥
अवतार्य स्वमन्त्रेण आग्नोयाद्ये चतुष्टये।
चतुष्कमेतद्विन्यस्य यावदीशानगोचरम् ॥९॥
तत्पूर्वदिग्विभागादि यावदुत्तरगोचरम्।
न्यस्याधर्मं तथाऽज्ञानमवैराग्यमनैश्वरम् ॥१०॥
पुरुषाकृतयस्त्वेते बन्धूककुसुमोज्ज्वलाः।
प्रागीशानदिगन्ते तु प्रागाग्नेयदिगन्तरे ॥११॥
यातुवारुणमध्ये तु वायव्यवरुणान्तरे।
ऋग्वेदाद्यं चतुष्कं तु कृताद्यं युगसङ्‌घकम् ॥१२॥
ईशानसोमदिङ्‌मध्ये अन्तकाग्निदिगन्तरे।
याम्यराक्षसमध्ये तु सोमसामीरणान्तरे ॥१३॥
तन्मूर्ध्नि कालचक्रं तु तन्मध्येऽव्यक्तपङ्कजम्।
वायव्योद्भूतनालं तु विकाराधारसंस्थितम् ॥१४॥
भूतान्याधारशक्तौ तु तन्मात्राः कालपावके।
वागादिकं तथैवाक्षमनन्तं व्याप्त संस्थितम् ॥१५॥
श्रोत्रादिकं धरण्यां च मनः क्षीरार्णवे द्विज!
अनन्तदलपद्मे तु अहङ्कारः समाश्रितः ॥१६॥
द्विरष्टकं च धर्माद्यमधिष्टाय च धी(:)स्थिता।
तदूर्ध्वपझे प्रकृतिर्गुणसाम्यविभागिनी ॥१७॥
धामत्रयाश्रितः कालो भावाख्ये पुरुषस्थितिः।
आधेयमब्जसंभूत! स्वे विकारे स्वरूपिणि ॥१८॥
स्वयमाद्यन्तयो रुद्धं सूत्रे (त्रं) मणिगणो (णे) यथा।
प्रागाधारात्मना चैव विश्वाकारतया ततः ॥१९॥
नानामन्त्रात्मना ह्यूर्ध्वे निस्तरङ्गो हि तत्वतः।
अभ्यस्तवासनानां च कर्मिणां कर्मशान्तये ॥२०॥
तदिच्छाविष्कृतानां च भोगकैवल्यसिद्धये।
अनाद्यविद्याविद्धानामियत्तैषा(त्तेषां) ह्यवस्तुनि ॥२१॥
नातोर्ध्वे तत्वदृष्टीनां तत्वतो वाऽस्ति पौष्कर!।
न तिर्यक्‌पृष्ठपूर्वे च न हेयादिविकल्पना ॥२२॥
या विशेषविकल्पैस्तु प्रत्यस्तमितलक्षणा।
शक्तिर्भगवतो विष्णोः साधाराख्याऽभिधीयते ॥२३॥
प्राग्वदासनसामर्थ्यं बीजमादाय चेच्छया।
अव्यक्तव्यक्तरूपा च यथादित्यकदम्बकम् ॥२४॥
भाविप्रसरधर्मित्वाद्विश्वबीजचयस्य च।
सांप्रतं संहृताङ्गस्य कूर्मसंज्ञा विधीयते ॥२५॥
यो विश्वं निर्दहत्यन्ते कालवैश्वानरात्मना।
दैवतं यस्य भगवान् कूर्मात्मा लोकपूजितः ॥२६॥
अजहद्भगवच्छक्ति(:)सामर्थ्यं पुनरेव तत्।
अनन्तं सविकल्पानां यद्विश्वाङ्‌कुरमव्ययम् ॥२७॥
नयत्यूर्ध्वं यथा कूर्मो ग्रीवां स्वात्मनि संवृ(हृ)ताम्।
शेषाक्यफणिदैवत्यं तदनन्तं हि गीयते ॥२८॥
आश्रयं बीजभूतानां चतुर्णां यन्महामते!।
तद्गन्धविटपस्तस्माद्व्यक्तिमब्येति पूर्ववत् ॥२९॥
भूरात्मा भगवान् यस्मिन्नभिमानाख्यदेवता।
फलं रसात्मकं तस्माद्व्यज्यत्यमृतलक्षणम् ॥३०॥
यस्याभिमानिकं रूपं क्षीरार्णवमनश्वरम्।
तस्मादनन्तरत्नोत्थकान्तिं कमलमब्जज! ॥३१॥
व्यक्तं यस्य च वै शक्तिर्नित्या दहनलक्षणा।
तदनन्तदलं विद्धि दिव्यं विकसितं सितम् ॥३२॥
परपूर्वेण भेदेन एकद्वित्रिगुणात्मना।
स्थिता बुद्धिर्विकारैस्तु सह चाष्टाभिरब्जज! ॥३३॥
यत्राधिदेवतात्वेन वाग्विकारा ऋगादयः।
तथा कालविकारा ये चत्वारः कृतपूर्वकाः ॥३४॥
तत्र रूपं हि सर्वेषां सत्तामात्रं परं स्मृतम्।
व्यक्तिकारणधानाभिः साङ्गाभिरपरं तु तत् ॥३५॥
तृतीयमभिमानाक्यदेवतादेहलक्षणम्।
तस्माद्वै वायुदैवत्यं स्पर्शतन्मात्रमेव च ॥३६॥
जाता यस्य स्फुटा व्यक्तिर्नानाचक्राङ्गलक्षणा।
तस्मादाकाशदैवत्यं शब्दमुत्पन्नमब्जज! ॥३७॥
सर्वाङ्गसंहृता चक्रव्यक्तिर्यस्यामलं वपुः।
गीयते व्योमवृत्तं तत् प्रधानकमलालयम् ॥३८॥
यस्यान्तस्थानि भूतानि यस्मिन् सर्वं प्रतिष्ठितम्।
यस्मादुन्मेषपूर्वं हि महत्प्रलयपश्चिमम् ॥३९॥
प्रवर्तते कालतानं भेदकृत् सर्ववस्तुषु।
वाङ्भात्रेणैव भिन्नस्य अभिन्नस्यैव तत्वतः ॥४०॥
ज्ञानादिगुणबृन्दस्य ब्रह्नणश्चतुरात्मनः।
नित्योदितत्वान्नित्यत्वाद्व्यापकत्वात् परं पदम् ॥४१॥
पूर्णत्वात् षड्‌गुणत्वाच्च न कालो लब्धगोचरः।
शब्दादादित्यदैवत्यमहङ्कारं महामते! ॥४२॥
मनश्च चन्द्रदैवत्यमहङ्कारादभूत्ततः।
बुद्धिः प्रकाशदैवत्या व्यक्तानन्दात्मनो विभोः ॥४३॥
दळादिकर्णिकान्तायाः सूर्यपूर्वादिकल्पना।
प्रधानकमलस्यैषा मूर्तिर्गुणमयी स्मृता ॥४४॥
बुद्ध्यादीनां च तत्वानां कारणं यदनश्वरम्।
अव्यक्ताख्यं महाबुद्धे! ह्यभिन्नगुणमूर्तिभृत् ॥४५॥
स्वगुणानधरीकृत्य स्वप्रतिष्ठं प्रवर्तते।
अद्यात्मलक्षणावृत्तिः सर्वाः संहृत्य वै हृदि ॥४६॥
उत्पद्यन्ते हि चैतस्माद्भावाः सर्वे द्विजोत्तम!।
विपद्यन्तेऽत्र वै भूयस्तस्मात्पझं परं त्विदम् ॥४७॥
चिदादित्यकलाजालं ग्राह्यग्राहकलक्षणम्।
संक्रान्तं यत्र स्वं धाम स्वसामर्थ्यं च वेत्यपि ॥४८॥
विमलाख्या विमलता ज्ञानशक्ति(ज्ञ)र्ज्ञताब्जज!।
प्रभ्व्याख्या प्रभुता चैव सत्यसंज्ञा च सत्यता ॥४९॥
नित्याख्या नित्यता चैव प्रकाशाख्या प्रकाशता।
अनन्तता ह्यनन्ताख्या कला कमलसंभव! ॥५०॥
सहानुग्रहशक्त्या वै ज्ञेयाऽनुग्रहता परा।
द्विचतुष्कं कलानां यत् स्वप्रतिष्ठं हि वर्तते ॥५१॥
संवर्तते परं चैव पुनरेव निवर्तते।
परापरविभागेन कलास्त्वेताश्चिदात्मनः ॥५२॥
प्रोक्ताः कमलसंभूत! यासामानन्त्यमुत्तमम्।
यथाक्रमेण सर्वेषां ध्यानमाकर्णयामलम् ॥५३॥
शानत्मुज्झितचेष्टं च सितमन्तर्मुखं स्थितम्।
आधेयोल्लिङ्गिताकारमाधाराख्यं स्मरेत् प्रभुम् ॥५४॥
कूर्ममुद्रान्वितं कूर्मवक्त्रं निष्ठप्तरुक्मभम्।
शह्खपझधरं कूर्मं स्वस्तिकेन स्थितं स्मरेत् ॥५५॥
मुञ्चन्तमनिशं तेजो देहाद्भीषणमुत्कटम्।
तिर्यगूर्ध्वं च धातारं ज्वालाजालमिवोच्च्वलम् ॥५६॥
अनन्तशशिसंकाशमनन्तमथ संस्मरेत्।
सहस्रफणमालाढ्यं सहस्रभुजभूषितम् ॥५७॥
स्वपाणिसंपुटेनैव शोभयन् स्वान्तभूस्थलम्।
सितारविन्दशङ्खाक्षसूत्रचक्रकरान्वितम् ॥५८॥
पतनाशङ्किबुद्धेर्वै वित्रस्तमनसस्तु च।
मा भैरित्यभयं यच्छन्नाब्रह्नभवनस्य च ॥५९॥
निःशेषरत्नहेमाङ्गां प्राबृट्‌छ्रियमिवोच्च्वलाम्।
पझासनेनोपविष्टां ध्यायेत् पझाञ्जलिं धराम् ॥६०॥
फुल्लकुन्दावदातं च सितस्निग्धजटाधरम्।
ध्मायमानं सितं शङ्खं मुक्तादामैरलङ्‌कृतम् ॥६१॥
विस्तीर्णसर्वावयवं विक्षिप्तोरुद्वयं स्थितम्।
विक्षिप्तजानुपादं च संस्मर्तव्यं पयोनिधिम् ॥६२॥
सुपव्काम्रफलश्यामपाणिपादतलोज्ज्वलम्।
रक्ताक्षं च तथा विप्रकीर्णकेशं स्मिताननम् ॥६३॥
पझासनेनोपविष्टमलिमालाशताकुलम्।
पझमुद्रान्वितं पझं सुदीर्घचरणं स्मरेत् ॥६४॥
तुहिनाच्छोपलस्वच्छमुक्ताफलशशिप्रभाः।
मृगेन्द्रस्कन्धवदना धर्मज्ञानादयश्चतुः ॥६५॥
पझरागप्रवालाग्निसद्दाडिमफलोज्ज्वलाः।
अन्तर्दयोपरक्ताश्च राजराजेश्वरोपमाः ॥६६॥
द्विरष्टवर्षवद्विद्धि चत्वारो ऽधर्मपूर्वकाः।
हेमचम्पकखद्योतहरितालदलोज्ज्वलाः ॥६७॥
वाजिवक्त्राः स्मृता वेदाः संपूर्णनरलक्षणाः।
एवं वृषेन्द्रवदना युगा ब्रह्नन्! कृतादयः ॥६८॥
सुपव्काम्रातसीपुष्पनीलाब्जशुकसन्निभाः।
सर्वे सद्वस्त्रसत्पुष्पसदलङ्करणान्विताः ॥६९॥
शङ्खपझधराः सर्वे वराभयकरास्तु वै।
आधेयचक्रविन्यस्तमस्तका स्वात्मसिद्धये ॥७०॥
समर्पितान्तःकरणाः परस्मिन् मन्त्रकारणे।
युगान्तार्काग्निसङ्काशस्वगोमण्डलमध्यगम् ॥७१॥
स्वमुद्रान्वितपाणिं च वल्गन्तं हेतिराट् स्मरेत्।
चिन्त्यमव्यक्तपझं च हिमहेमाग्निभास्वरम् ॥७२॥
शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु।
स्फटिकोपलकान्तिं च चिद्धनं ध्रुवमव्ययम् ॥७३॥
सर्वशक्तिनिधिं ध्यायेदमूर्तं चित्प्रभाकरम्।
सर्वे स्वविभवान्तस्थास्तत्राधारात्मनो विभोः ॥७४॥
स्वसत्ताभासितं सत्वं गुणसत्वाद्विलक्षणम्।
विभवं विद्धि विप्रेन्द्र! ज्वालौघं कच्छपात्मनः ॥७५॥
स्वभोगं नागनाथस्य भूः क्षितेः काञ्चनी तथा।
आसारमामृतं दिव्यं वीच्योघैस्तु समन्वितम् ॥७६॥
क्षीरोदकीयविभवं परिज्ञेयमनश्वरम्।
बीजकोशं सकिञ्जल्कं कमलस्य दलान्वितम् ॥७७॥
धर्माद्यस्य चतुष्कस्य सद्विवेकं सुनिर्मलम्।
द्वि(क)द्विकस्या(त्व)धर्मादेरविद्याविभवं महत् ॥७८॥
वाक्प्रपञ्चमहेयं यत् तदृगादिगणस्य च।
विभवं च कृतादीनां महत्कल्पान्तमात्रुटेः ॥७९॥
चक्रस्य विभवं विद्धि भ्रमं मायाश्रयं हि यत्।
गौणीवृत्तिरमेया या विभवं प्राकृतं हि तम् ॥८०॥
विमलादिकलाजालं पौरुषं विभवं स्मृतम्।
विभोर्मन्त्रात्मनस्चेदमशेषममरार्चितम् ॥८१॥
आमहन्मन्त्रनाथेब्यो नानामन्त्रगणं हि यत्।
स्वशक्तिनिचयोपेतं तद्विष्णोः परमात्मनः ॥८२॥
विभवं कमलोद्‌भूत! ज्ञात्वैवं संयजेत् सदा।
शब्दव्यक्तिस्तदूर्ध्वे तु स्थितार्केन्द्वग्निलक्षणा ॥८३॥
त्रिदीप्तिभास्वरा नाडी त्वव्यक्तध्वनिविग्रहा।
व्यक्तचक्रत्रयस्योर्ध्वे वर्तते या महामते! ॥८४॥
निःसृता ब्रह्नरन्ध्रेण गता सूर्यपथात् परम्।
वायुद्वारेण पातालं भित्वा याता स्वगोचरम् ॥८५॥
सङ्कल्पविषयः सर्वस्तद्बद्धः प्रतितिष्ठति।
सूत्रे मणिगणो यद्वन्मध्यनाडी ह्यतः स्मृता ॥८६॥
लक्ष्यस्थाने तु पूर्वोक्ते तस्यामभ्यन्तरे तु वै।
संपुटे शशिसूर्याख्ये निमेषोन्मेषलक्षणे ॥८७॥
तत्राब्जं चार्कमालम्ब्य परा वाग्भ्रमरी स्थिता।
या सर्वमन्त्रजननी शक्तिः शान्तात्मनो विभोः ॥८८॥
नदन्ती वर्णजं नादं शब्दव्रह्नेति यः स्मृतः।
अकारपूर्वो हान्तश्च धारा सन्तानरूपधृक् ॥८९॥
नादावसानगगने देवोऽनन्तः सनातनः।
वरदाभयदेनैव शङ्कचक्राह्कितेन तु ॥९०॥
त्रैलोक्यधृतिदक्षेण युक्तः पाणिद्वयेन तु।
शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ॥९१॥
अनौपम्येन वपुषा ह्यमूर्तो मूर्ततां गतः।
तस्मादावाहनं कुर्याद्यथा तदवधारय ॥९२॥
स्वशक्त्याधिष्ठितं कृत्वा स्वस्वभावस्वभावया।
ग्राह्यग्राहकरूपाया एवमव्यक्तपुष्करम् ॥९३॥
समास्ते केवलं शुद्धमीषत्काललवं द्विज!।
सामान्यचिन्मयो भूत्वा सांप्रतं शक्तयः कलाः ॥९४॥
अस्मिता लक्षणं धर्मं स्वकं सम्यङ्‌निरस्य च।
मवर्तते तन्निरासात् आनन्दमतुलं द्विज! ॥९५॥
स्वप्रकाशमनौपम्यं तमिच्छेन्मन्त्रमव्ययम्।
परिच्छेद्यां दिगाद्यैस्तु प्रकाशाकाशवर्तिनीम् ॥९६॥
कृत्वाश्रित्य कलामूर्तिं समनन्तरमब्जज!।
विहायोमध्यदेशं च प्रकाशगहनात्ततः ॥९७॥
धृतिशक्त्यासने स्वेऽथ उपविश्य यथासुखम्।
विद्यादेहेन सूक्ष्मेण भूतदेहानुकारिणा ॥९८॥
अथानन्दकदम्बं (स्य स्वस्वरूपात्) तद्यत्स्वरूपंपृथक् स्थितम्।
रञ्जयेच्छास्त्रदृष्टेन व्यवहारगतेन च ॥९९॥
स्वकेनालम्बनेनैव देवतालक्षणेन च।
मणिर्यथा विभागेन नीलपीतादिभिर्युतः ॥१००॥
रूपभेदमवाप्नोति ध्यानभेदात्तथा विभुः।
एवं प्रवर्तते सम्यङ्भन्त्ररूपं परात्मकम् ॥१०१॥
हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम्।
कदम्बगोलकाकारं विश्वरूपं मणिप्रभम् ॥१०२॥
रत्नदीपसमाकारमच्छिन्नप्रसरं महत्।
श्रोत्रपूर्वैः खरन्ध्रैस्तु रश्मयस्तस्य निर्गताः ॥१०३॥
छेद्रपूर्णाद्यथा कुम्भान्महादीपयुताद्‌द्विज!।
याति भासां गणो बाह्ये शरीरादेवमेव हि ॥१०४॥
मान्त्रो रश्मिसमूहस्तु नाडीभिः प्रसरेद्वहिः।
अप्रत्यक्षः सदाक्षाणां मन्त्रात्मा यद्यपि द्विज! ॥१०५॥
तथाऽप्यनेन न्यायेन प्रत्यक्षमुपलभ्यते।
बहिः स्थितं यद्‌भूतानां क्ष्मादीनां गुणपञ्चकम् ॥१०६॥
तेन तच्चोपलब्धव्यं प्रत्यक्षेण परोक्षकम्।
तस्य भौमो गुणस्थैर्यं तद्‌गुणेन हि सा स्थिरा ॥१०७॥
परस्परानुभावेन संवित्तौ तदुपारुहेत्।
आह्‌लादो यस्तदीयो हि स तोये चोपलभ्यते ॥१०८॥
तौयो गुणस्तु तस्यास्ति कथं स्यादन्यथा मुने!।
स्मृतमात्रेण मन्त्रेण आहलादो मनसो महान् ॥१०९॥
रूपात्मना परिणतः स चाग्नौ पारमेश्वरः।
यो रूपाख्यो गुणश्चाग्नेः स मन्त्रात्मनि तिष्ठति ॥११०॥
तेजो विना यतो द्यानं कुत्रचिन्नोपपद्यते।
स्पर्शधर्मो हि यो वायोः स तदीयो महामुने! ॥१११॥
यो वायव्यो गुणः सूक्ष्मः स च मन्त्रतनौ स्थितः।
स चान्तःकरणेनैव संयमे स्यात्तदुत्थितः ॥११२॥
यदाकाशस्य शून्यत्वमस्ति तत् स्यात्तदुद्भवम्।
स मन्त्रात्मनि संश्लिष्टो गुणो ह्यस्ति महामते! ॥११३॥
अग्राह्यत्वाच्च करणैः प्राकृतैर्भावनां विना।
इत्येवं मन्त्रसामर्थ्यं पुरा ज्ञात्वा यथार्थतः ॥११४॥
सन्निधानं भवेद्येन पूजाकाले ह्युपस्थिते।
तस्मिन्नङ्गानि विन्यस्य प्राक्‌ संपूर्णगुणानि च ॥११५॥
स्वमन्त्रैरर्चयेदेव स्थानभेदं विना ततः।
तस्मिन् कदम्बकुसुमसदृशे मन्त्रगोलके ॥११६॥
द्वादशाक्षरमन्त्रेण अभिन्नेन तु सांप्रतम्।
व्यक्तिमापद्यते तस्माद्ध्येया हृत्पझमध्यगा ॥११७॥
या परा प्रकृतिर्वाणी चिद्रपा निर्मलात्मिका(परा)।
पूरिताध्यक्षभावेन निष्कलेन महात्मना ॥११८॥
शरीरमिव जीवेन स्थूलं सूक्ष्मं द्विलक्षणम्।
मूलमन्त्रादितः प्राग्वत् सर्वमन्त्रगणस्य च ॥११९॥
करन्यासं विना देहे न्यासं तस्य च संस्मरेत्।
सृष्टिसंस्थितिसंहारन्यासं चापि तथाऽऽचरेत् ॥१२०॥
ततः खाब्जखमध्यात्त्वप्यूर्ध्वस्थात् संस्मरेच्च्युताम्।
गङ्गां भगवतो मूर्ध्नि तेनामृतजलेन तु ॥१२१॥
अर्घ्याद्यखिलभोगानां कार्या वै शुभकल्पना।
यं यं संकल्पयेद्भोगं तं तं भाव्यसुधामयम् ॥१२२॥
पतन्तमम्बराद्वेगादमृतांशुपरिप्लुतम्।
साक्षादमृतरूपैस्तु तैस्तैरमृतसंभवैः ॥१२३॥
बृंहितं मुदितं मग्नं(सम्प्लुतं)मन्त्रराट् स्मरेत्।
ततस्तु देवदेवस्य अर्ध्यं दत्वा यथाविधि ॥१२४॥
सन्निधिं सन्निरोधं च सांमुख्यं च समाचरेत्।
हृदयादीनि चाङ्गानि लाञ्छनं कमलादिकम् ॥१२५॥
भूषणं च किरीटाद्यं लक्ष्म्याद्याः शक्तयस्तथा।
गरुडो मूर्तयो वान्या देहे देवस्य याः स्थिताः ॥१२६॥
व्यापकस्य तथात्वेन स्वे स्वे स्थाने प्रभात्मकाः।
तद्देहसंस्थिताः सर्वे पूजनीयाः क्रमेण तु ॥१२७॥
परिवारं विना मन्त्रैः स्वैः स्वैरर्घ्यादिभिर्द्विज!।
लययागो ह्ययं विप्र! हृदादिष्वनुकीर्तितः ॥१२८॥
तस्माद्धत्कर्णिकाधारे मूर्तौ वा यत्र कुत्रचित्।
मूलमन्त्रशरीरस्थं परिवारं यजेत् सदा ॥१२९॥
याग एष लयाख्यस्तु संक्षिप्तः सर्वसिद्धिदः।
मन्त्रराट् कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु ॥१३०॥
साकाराः केवलाः सर्वे यत्र भोगाभिधः स तु।
केवलेन च यागेन पृथग्भूतेन नारद! ॥१३१॥
पूजनं कमलादीनामधिकाराभिधः स तु।
एवं कृत्वा लयाख्यं तु यागं भोगाभिधं तथा ॥१३२॥
ततः क्रमाद्यजेद्देवं भोगैरमृतसंभवैः।
सुसमस्तादिभिः सम्यक्ताम्बूलान्तैर्यथोदितैः ॥१३३॥
सर्वं कृत्वा यथायोगं यावदात्मनिवेदनम्।
मानसान् जयशब्दांश्च कृत्वा विज्ञापयेदिदम् ॥१३४॥
स्वागतं तव देवेश! सन्निधिं भज मेऽच्युत!।
गृहाण मानसीं पूजा यथार्थपरिभाविताम् ॥१३५॥
ज्ञात्वा तु सुप्रसन्नं त प्रसादाभिमुखं प्रभुम्।
विस्तरेण द्विजश्रेष्ठ! मानसं यागमारभेत् ॥१३६॥
संकल्पजनितैर्भोगैः पवित्रैरक्षयैः शुभैः।
सांस्पर्शैरौपचाराख्यैस्तथा चाभ्यवहारिकैः ॥१३७॥
महद्रपैः प्रभूतैस्तु सप्तलोकसमुद्भवैः।
यथोदितैस्तु विधिवदुत्कृष्टतरलक्षणैः ॥१३८॥
एवंविधांस्तु तान् भोगान् सद्भक्त्या विनिवेद्य च।
समुच्चरन् धिया मन्त्रं प्रसन्नेनान्तरात्मना ॥१३९॥
गजाश्वधेनुयानानि सुवस्त्रालङ्कतानि च।
निवेद्यचान्त(तं)र्मानानि ग्राहयन्तं स्मरेत्ततः ॥१४०॥
आत्मानं ससुतान् दारान् सर्वस्वेन समायुतान्।
निवेद्य प्रणतो मूर्ध्ना आनन्दाश्रुसमन्वितः ॥१४१॥
कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम्।
बध्वा संचिन्तयेद्विष्णोः सर्वकामप्रपूरणीम् ॥१४२॥
ततो विशेषयजनं कल्पयेदच्युतस्य तु।
सौवर्णपुष्पसंपूर्णमञ्जलिं संप्रसार्य च ॥१४३॥
मूलमन्त्रं समुच्चार्य प्रयत्नैः पूरकादिकैः।
दीर्घघण्टारवप्रख्यं यावत्तत्संभवावधि ॥१४४॥
स्फुरद्रश्मिचयाकीर्णं वह्न्यर्केन्दुशतप्रभम्।
ध्यात्वा नारायणं देवमञ्जलौ सन्निरोधयेत् ॥१४५॥
तमञ्जलिं क्षिपेन्मूर्ध्नि तस्मिन् वै मन्त्रविग्रहे।
अर्ध्यं निवेदयेद्‌भूयः पुनः पुष्पाञ्जलिं शुभम् ॥१४६॥
मुद्रां सन्दर्श्य मूलाख्यां मानसीं जपमारभेत्।
संख्याहीनं यथाशक्ति घण्टाख्यकरणेन च ॥१४७॥
भोगस्थानगतानां च लक्ष्म्यादीनां क्रमेण तु।
मनसा दर्शयेन्मुद्रां जपं कुर्यात् सकृत् सकृते ॥१४८॥
स्तोत्रमन्त्रैः पवित्रैश्च स्तुत्वा सम्यक् प्रसादयेत्।
एवं क्रमेण विप्रेन्द्र! कृत्वा यागं तु मानसम् ॥१४९॥
होमं तथाविधं कुर्यान्मोक्षलक्ष्मीप्रदं शुभम्।
नाभिचक्रान्तरस्थं तु ध्यायेद्वह्निगृहं मुने! ॥१५०॥
त्रिकोणं त्रिगुणेनैव अव्यक्तेनावृतं परि।
ध्यानारणिं तु निर्मथ्य चिदग्निमवतार्य च ॥१५१॥
सुशुद्धं संस्कृतं दीप्तं सदैवोर्ध्वशिख द्विज!।
वासुदेवात्मकं यस्मात् स वसत्यन्तरात्मसु ॥१५२॥
प्रोच्चरेन्मूलमन्त्रं तु यावच्छब्दस्य गोचरः।
तत्रस्थमाहरेद्दिव्यमाह्‌लादाज्यामृतं परम् ॥१५३॥
ब्रह्नसर्पिस्समुद्राद्यन्निस्तरङ्गात् परिच्युतम्।
गृहीत्वाऽमृतमार्गेण ब्रह्यरन्ध्रेण संविशेत् ॥१५४॥
हृदयान्मध्य(न्त्र)मार्गेण चिन्मयेन सदीप्तिना।
प्रोल्लसन्तं स्मरेन्मन्त्रं व्रह्नशक्त्युपबृंहितम् ॥१५५॥
स्वकारणाग्नौ नाभिस्थे य ऊर्ध्वेन्धनवत् स्थितः।
स्वभावदीप्तब्रह्नाग्नौ परितश्चोदरोज्ज्वलम् ॥१५६॥
स्मृत्वा यन्त्रं तु तन्मूर्ध्नि पतमानं द्विजाम्बरात्।
चिन्तयेदा(द)मृतं त्वाज्यं पुरावच्चाहृतं द्विज! ॥१५७॥
चिदग्निमेवं सन्तर्प्य नाभौ मन्त्रस्वरूपिणम्।
ज्वालाग्रावस्थितं चैव भूयो हृत्पङ्कजे स्मरेत् ॥१५८॥
प्रोच्चारयंश्च मन्त्रेशं प्लुतं ध्यानसमन्वितम्।
कृत्वैवमेकसन्धानं स्थानद्वयगतस्य च ॥१५९॥
विण्णोर्मन्त्रस्वरूपस्य नानामन्त्रात्मकस्य च।
सर्वं तु विन्यसेत् पश्चात्तस्मिन् कर्मकृतं च यत् ॥१६०॥
तोयपुष्पाक्षतैः पूर्णं भावयेद्दक्षिणं करम्।
तन्मध्ये निष्कलं मन्त्रं संस्मरेत् किरणाकुलम् ॥१६१॥
यागोत्थां फलसंपत्तिं लक्ष्मीरूपां विचिन्त्य च।
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ॥१६२॥
भूयश्च निष्कलं मन्त्रं तस्यामुपरि भावयेत्।
सशीर्षे जानुनी भूमौ कृत्वा विष्णोर्निवेदयेत् । १६३॥
प्रसादाभिमुखेनाथ तेन तच्चात्मसात्कृतम्।
भावनीयं द्विजश्रेष्ठ! परितुष्टेन चादरात् ॥१६४॥
निर्वृत्ते पुरुषार्थे तु हृदये बाह्यतोऽपि वा।
क्रमान्मन्त्रगणं स्मृत्वा यातं मन्त्रेश्वरे लयम् ॥१६५॥
मन्त्रव्यक्तिं स्वसंकल्पशक्तावथ शमं नयेत्।
सह संकल्पशक्त्या वै विद्यामूर्तिं स्वकां ततः ॥१६६॥
स्वकलासु लयीकुर्यात् कलाजातं तथाऽऽत्मनि।
प्राग्वदानन्दसन्दोहपरिपूर्णं तु जायते ॥१६७॥
बहिर्यजामीति यदा संकल्पं मनसा कृतम्।
तदा संहृत्य तां व्यक्तिमास्ते मध्याह्नसूर्यवात् ॥१६८॥
विसर्जयेन्नतं यावन्न कृता बाह्यतः क्रियाः ।
न्यसनीयो ह्यसौ यस्मान्मण्डलादिषु वस्तु(वृत्ति)षु ॥१६९॥
सृष्टिकमेण संहृत्य आधारं यत् पुरोदितम्।
ज्ञानिनां विगलत्येष स्वभावात्तत्ववेदिनाम् ॥१७०॥
निष्कियाणां महाबुद्धे! निष्पन्नानां स्वकर्मणा।
विकासमेति चान्येषां नित्याकाररतात्मनाम् ॥१७१॥
मन्त्रक्रियारतानां च नानात्वेना(न)समात्मनाम्।
धृतमच्युतशक्त्या वै ह्यपरिच्युतसत्तया ॥१७२॥
सद्वि(वि)कल्पस्वरूपं च विश्वासनमिदं द्विज!।
विधृतं विभुना व्याप्तं स्वसामर्थ्येन यद्यपि ॥१७३॥
तत्रापि तच्छरीराणां जीवानां तन्निवासिनाम्।
स्वशक्त्यानुगृहीतानां तमाक्रम्य महामते! ॥१७४॥
नानामन्त्रात्मना त्वास्ते तस्मिन्नानाविधात्मनि।
इत्येवमुक्तमाधारस्वरूपं हि यथा स्थितम् ॥१७५॥
जायते यत्परिज्ञानात् कर्मिणां कर्मसंक्षयः।
अयं यो मानसो यागो ज्वरव्याधिलयापहः ॥१७६॥
पापोपसर्गशमनो भवाभावकरो द्विज!।
सतताभ्यासयोगेन देहपातात् प्रमोचयेत् ॥१७७॥
यस्त्वेवं परया भक्त्या सकृदाचरते नरः।
क्रमोदितेन विधिना तस्य तुष्याम्यहं मुने! ॥१७८॥
याजकानां च सर्वेषां प्रधानत्वेन वर्तते।
तारयेत् स्वपितॄन् सर्वान् यातानेष्यांश्च साम्प्रतम् ॥१७९॥
किं पुनर्नित्ययुक्तो यस्तद्भावगतमानसः।
मन्त्राराधनमार्गस्थः श्रद्धाभक्तिसमन्वितः ॥१८०॥
न तस्य पुनरावृत्तिः स याति परमं पदम्।
ज्ञात्वैवं यत्नतो नित्यं कुर्याद्यागं तु मानसम् ॥१८१॥
इदं रहस्यं परमं मयोक्तं तेऽद्य नारद!।
नाशिष्याणां च वक्तव्यं नाभक्तानां कथंचन ॥१८२॥
अत्यन्तभवभीतानां भक्तानां भावितात्मनाम्।
इदं रहस्यं वक्तव्यं सम्यग्भावं परीक्ष्य च ॥१८३॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे मानसयागो नाम पञ्चमोऽध्यायः॥

N/A

References : N/A
Last Updated : January 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP