परमेश्वरसंहिता - द्वाविंशोऽध्यायः
परमेश्वरसंहिता
सनकः ---
संप्रोक्षणविधानं मे प्रब्रूहि मुनिसत्तम!।
प्रायश्चित्तेषु सर्वत्र प्रशस्तो यस्तु पूरकः ॥१॥
शाण्डिल्यः ---
प्रासादप्रतिमापीठे प्रमादादेव दूषिते।
समाहिते यथापूर्वं पूजालोपे विशेषतः ॥२॥
चण्डालपतितोदक्यासूतिकादिशवादिभिः।
सूतकैर्मृतकैर्वाऽपि नित्याशौचैश्च गर्हितैः ॥३॥
शिल्पिभिर्वेदवाह्यैश्च मूर्खैरज्ञातजातिभिः।
विण्मूत्ररुधिरापेयरेतोभिर्दूषिते सति ॥४॥
जनने मरणे नॄणां मन्दिरे राष्ट्रसंकुले।
श्वसृगालखराद्यैश्च वायसश्येनजातिभिः ॥५॥
स्पृष्टे बिम्बे तु संदृष्टे तन्त्राणां सङ्करे सति।
एवमादिषु सर्वेषु संप्रोक्षणविधिर्भवेत् ॥६॥
दौषैरुपहतं ज्ञात्वा प्रासादप्रतिमादिकम्।
असंप्रोक्ष्यार्चनं कुर्वन् राजानं राष्ट्रम़ञ्जसा ॥७॥
देवतायतनं ग्रामं नाशयेन्नात्र संशयः।
तस्मात् संप्रोक्षणं कार्य प्रासादप्रतिमादिषु ॥८॥
पुरा संप्रोक्षणदिनं राजराष्ट्राभिवृद्धिदम्।
निश्चयीकृत्य कालज्ञैः पुरस्तादुक्तवासरे ॥९॥
अंकुरानर्प्य विधिवत् पस्चात् संशोधिते गृहे।
सर्वत्र गोमयाम्भोभिः पुण्याहोक्तिपुरस्सरम् ॥१०॥
संप्रोक्ष्य पञ्चभिर्गव्यैः कुशोदकसमन्वितैः।
मूलबेरादिबिम्बानां षड्भिः सिद्धार्थकादिभिः ॥११॥
पवित्रावर्तितैरद्भिर्बहुशः क्षाळने कृते।
प्रधानदिनपूर्वस्यां रात्र्यां यागादिमण्टपे ॥१२॥
तोरणद्वारकलशवितानध्वजशोभिते।
दीक्षाधिवासवत् कृत्वा कुंभे वै मण्टपस्थले ॥१३॥
पूजनं विभवेनैव जपान्तं मूलमन्दिरे।
क्षीराद्यैः पञ्चविंशद्भिः स्नापयेद्ध्रुवकौतुकम् ॥१४॥
लेपभित्तिपटस्थस्य पुरस्ताद्भद्रविष्टरे।
कर्मार्चामथवा कूर्चं दर्पणे प्रतिबिम्बितम् ॥१५॥
संस्नाप्य विधिवत् कुंभैः स्थापितैरग्रमण्टपे।
उत्सवार्चादि बिम्बानामह्गानामाश्रयात्मनाम् ॥१६॥
पूजनं स्नपनं कार्यं पाश्चात्यं यागमण्डपे।
तत्रस्थे हवनं कुण्डे शङ्खचक्रादिलक्षणे ॥१७॥
मधुक्षीरादिभिः कार्यं सहस्रशतसङ्ख्यया।
कर्मबिम्बं विनान्येषां बिम्बानामङ्गरूपिणाम् ॥१८॥
दक्षिणे मण्टपस्याथ शयनं कल्पयेन्महत्।
तिलतण्डुलशालीनां भारैर्वस्त्रादिभिः सह ॥१९॥
तदूर्ध्वे शाययेदर्चां विधिवद्बद्धकौतुकाम्।
संपूज्य कम्बळाद्यैश्च छादयेत्तां सितादिभिः ॥२०॥
वर्णकैर्मण्डलं कुर्याच्चक्राम्बुरुहभूषितम्।
यावत् प्रभातसमयं बिम्बस्थस्य समीपतः ॥२१॥
देशिको मूलमन्त्रस्य जपेनैव नयेन्निशाम्।
प्रबातायां तु शर्वर्यां कृतसन्ध्याविधिर्गुरुः ॥२२॥
चतुःस्थानार्चनं कृत्वा पूर्ववत् स्नपनान्वितम्।
मुहूर्ते शोभने प्राप्ते नववस्त्रपरिष्कृतम् ॥२३॥
सोत्तरीयोपवीतं च कृतकौतुकबन्धनम्।
समस्ततत्वविन्यस्तमभ्यर्च्यार्घ्यादिभिः क्रमात् ॥२४॥
तासु स्वहृदयाम्भोजात् पुष्पाञ्जलिपुरस्सरम्।
अग्राह्यमपरिच्छेद्यममूर्तममलं महत् ॥२५॥
नित्यशुद्धमनौपम्यं सुसूक्ष्ममचलं स्फुटम्।
सच्चिद्रूपं च सामान्यं भास्वरं सुदृढं महत् ॥२६॥
[तेजस्तु संक्रमय्याथ दण्डवत् प्रणिपत्य तु।
विनिवेद्य विभोः सर्वं कृतं कर्म द्विजोत्तमाः ॥२७॥
उत्थाप्योत्सवबिम्बादीन् पूर्ववन्मङ्गलैः सह।
महाकुम्भं च पुरतो वाहयन् मूर्तिपादिभिः ॥२८॥
करकास्त्रं समादाय त्वाचार्यः पुरतो व्रजेत्।
शलाकामात्रयाऽच्छिन्नधारया सेचयन् भुवम् ॥२९॥
प्रादक्षिण्येन धामान्तः प्रवेश्य मुनिपुड्गवाः!।
महोत्सवोक्तमार्गेण कुम्भप्रोक्षणमाचरेत् ॥३०॥
द्वारावरणदेवांश्च आलयश्रयवर्तिनः।
खगेशविष्वक्सेनादीन् परिवारांश्च सर्वसः ॥३१॥
कुम्भावशिष्टतोयेन प्रोक्षयेत् सर्वतः क्रमात्।
अवशिष्टं कुम्भतोयं बलिपीठेऽभिषेचयेत् ॥३२॥
एवं सम्प्रोक्ष्य विधिवत् प्रासादान्तः प्रविश्य च।
करस्थं कौतुकं चाथ हृदयेन विसृज्य तु ॥३३॥
गोभूहेमादिकं दत्वा सर्वदोषप्रशान्तये।
देवमर्घ्यादिनाभ्यर्च्य हविरन्तं विशेषतः ॥३४॥
ब्राह्नणान् भोजयेत् पश्चात् सहस्रं शतमेव वा।
सद्यो वा सकलं त्वेवं कुर्यात् संप्रोक्षणं विभोः ॥३५॥
पुष्पांकुरपुरस्कं तु तत्तद्दोषप्रशान्तये।
न तिथिर्न च नक्षत्रं कालवेला न विद्यते ॥३६॥
सद्यः सम्प्रोक्षणं विप्राः! निशि वा दिवसेऽपि वा।
प्रायश्चित्तविलम्बे तु कुर्यात् कालनिरीक्षणम् ॥३७॥
इति सम्प्रोक्षणं प्रोक्तं सर्वं चापि द्विजोत्तमाः!।}
स्थापनं पञ्चगव्यस्य सर्वाब्युदयसाधनम् ॥३८॥
नागयोग इति ख्यातः सार्पर्क्षकरणक्षमैः।
ऋक्षेण वानयोरेकयोगस्यान्नागसंज्ञितः ॥३९॥
पुरा तन्निश्चयीकृत्य कर्तव्यमिति सत्तमैः।
तदर्थमंकुरानर्प्य द्रव्याणि समुपाहरेत् ॥४०॥
मनश्शिलां हरीतालमञ्जनं श्यामसीसके।
सौराष्ट्रं रोचनं चैव गैरिकं पारदं तथा ॥४१॥
आदाय धातुरत्नानि पझरागपुरस्सरम्।
मुक्ताफलं प्रवाळं च वज्रं वैडूर्यसंज्ञितम् ॥४२॥
गोमेदं पुष्यरागं च महानीलं च गारुडम्।
रत्नान्येतानि संगृह्य बीजानि समुपाहरेत् ॥४३॥
शालिनीवारकंकूनि प्रियंगुतिलमाषकान्।
मृद्गांश्च यववेणूंश्च यवसाख्यान्यनन्तरम् ॥४४॥
हिरण्यं रजतं ताम्रमायसं त्रपुसीसकम्।
सौवर्णं कूर्मरूपं च सौवर्णं चक्रमम्बुजम् ॥४५॥
राजतं पाञ्चजन्यं च समाहृत्य ततः परम्।
कदळीपनसाम्राणां बिल्वामलकयोरपि ॥४६॥
दाडिमीमातुळुङ्गस्य नाळिकेरस्य कालतः।
पव्कानि समुपाहृत्य फलानि च ततः परम् ॥४७॥
चन्दनागरुकर्पूरकुंकुमादीन्युपाहरेत्।
कोष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकान् ॥४८॥
वचाकच्चोरमुस्तानि ह्रीबेरोशीरजान्यपि।
मल्लिकाजातिवकुळनन्द्यावर्तकचंपकान् ॥४९॥
पाटलीपझकल्हाराण्युपाहृत्य ततः परम्।
वस्त्रादीनि सितादीनि माल्यानि च विशेषतः ॥५०॥
शालिपूर्वाणि धान्यानि कुशदूर्वादिकान्यपि।
बिल्वाश्वत्थकदम्बाम्रपल्लवादीनि यान्यपि ॥५१॥
हविः पाकोपयोग्यानि तण्डुलादीनि सत्तम!।
होमद्रव्याणि सर्वाणि पझपत्राणि मृण्मये ॥५२॥
द्वादशाङ्गुळविस्तीर्णे पव्कापव्के घटे दृढे।
नृहरेः पूजनार्थं तु कुंभं सकरकं बृहत् ॥५३॥
एवमादीनि चान्यानि पुराऽऽहृत्य विधानतः।
गृह्णीयात् पञ्चगव्यानि मृत्पात्रे नूतने शुभे ॥५४॥
गोमूत्रं गोमयं क्षीरं दधि मस्तु च पञ्चमम्।
कपिलाया जराया वा पञ्चगव्यं प्रशस्यते ॥५५॥
तयोरभावे चान्यासां गवां गव्यं विधीयते।
नार्ताया न च गर्भिण्या न वृद्धायाः कदाचन ॥५६॥
नावत्साया उपादेयं धेनोर्मूत्रं शकृद्द्वयम्।
भुविष्ठं गोमयं ग्राह्यं सोष्णं कृम्याद्यदूषितम् ॥५७॥
निष्पीड्य सम्यग्गृह्णीयाद्गोमयस्य रसं पुनः।
सद्यस्तप्तं घृतं शुद्धमहोरात्रोषितं दधि ॥५८॥
क्षीरं ग्राह्यमतप्तं च दशाहाज्जन्मनः परम्।
गोमूत्रं विष्णुगायत्र्या `गन्धद्वारे' ति गोमयम् ॥५९॥
आप्यायस्वे' ति च क्षीरं `दधिक्राव्ण्णे' ति वै दधि।
घृतं `शुक्रमसी' त्येवं द्रव्याणि सह योजयेत् ॥६०॥
विष्णुगायत्रिया यद्वा, पञ्चोपनिषदैस्तु वा।
`परमेष्ठी' शकृन्मन्त्रो गोमूत्रस्य तु `पूरुषः' ॥६१॥
विश्वमन्त्रो भवेद्दध्नो निवृत्तिस्सर्पिषोभवेत्।
पयसः सर्वमन्त्रः स्यात्, सर्वेषां वाष्टवर्णकमम् ॥६२॥
प्रोक्षणे स्नपने पञ्चगव्यमन्त्रा उदीरिताः।
सर्वदोषोपशान्त्यर्थं संप्राप्ते स्थापने सति ॥६३॥
सौदर्शननृसिंहस्य हृदाद्यैर्नेत्रपश्चिमैः।
अङ्गमन्त्रैः प्रकल्प्यानि क्षीरान्तानि शकृद्रसात् ॥६४॥
दधि द्विगुणमाघारात् पीयूषं त्रिगुणं ततः।
षड्गुणं मूत्रमेतस्माच्छकृद्वारि चतुर्गुणम् ॥६५॥
स्थापने कथितं मानमभिषेकविधावपि।
भूमिसंशोधनार्थं तत् प्रोक्षयो पञ्चकं समम् ॥६६॥
गोमयेन समं मूत्रं दधि स्याद्द्विगुणं ततः।
दध्नश्चतुर्गुणं सर्पिः सर्पिषोष्टगुणं पयः ॥६७॥
प्राशने पञ्चगव्यानां प्रमाणमिदमीरितम्।
स्थापनं स्नपनं ह्येतत् सर्वाघौघविनाशनम् ॥६८॥
ब्रह्नकूर्चसमोपेतं हन्यादागामिनं त्वघम्।
तद्बिधानं समासेन श्रृणु वक्ष्यामि तत्वतः ॥६९॥
चूर्णेन यववेणुभ्यां समेतं तु कुशोदकम्।
ब्रह्नकूर्चमितिख्यातं वैष्णवास्त्रौघसप्रभम् ॥७०॥
कुशोदं द्विविधं प्रोक्तं शुष्काशुष्कविबागतः।
अशुष्कमथ निष्पीड्य वस्त्रेण रसमाहरेत् ॥७१॥
प्रहृत्य शुष्कमुदके प्रक्षिप्य जलमाहरेत्।
पवित्रं मन्त्रमुच्चार्य मूलं वास्त्रसमन्विम् ॥७२॥
गोमूत्रसंमितं मानाद्गृण्डीयात्तत् कुशोदकम्।
शकृद्रसप्रमाणेन चूर्णं तत्र मियोजयेत् ॥७३॥
चक्रास्त्रमन्त्रमुच्चार्य गायत्र्या बिष्णुसंज्ञया।
ध्यात्वा च चक्रनृहरिं तद्गव्येषु नियोजयेत् ॥७४॥
यद्वा पृथक् स्थापयित्वा पञ्चगव्यैः कुशोदके।
हृदयाद्यस्त्रपर्यन्तैरभिमन्त्र्य च योजयेत् ॥७५॥
प्रशस्तं प्राशनं ताभ्यां प्रातः सर्वाघनाशनम्।
इति सम्यक् समाख्यातः पञ्चगव्यविधिस्तव ॥७६॥
मण्टपेऽथ पुरा क्लृप्ते यागस्नपनसिद्धये।
पश्चगव्याधिवासार्थं यजनं प्रारभेद्गुरुः ॥७७॥
पूर्वेद्युः कर्मदिवसात् त्रिस्नायी समुपोषितः।
अहिर्बुध्न्ये मुहूर्ते तु ऋत्विग्भिः पाञ्चरात्रिकैः ॥७८॥
पुण्याहं प्राग्वदुच्चार्य गव्यैरभ्युक्षयेत् स्थलीम्।
सद्रव्यामस्त्रमन्त्रेण प्राग्भागे धान्यविष्टरे ॥७९॥
दशारमष्टपत्रं तु चक्राब्जं भूपुरान्तके।
विलिख्य कर्णिकामध्ये त्रिकोणकृतसंपुटे ॥८०॥
महाकुम्भं प्रतिष्ठाप्य सूत्रवस्त्रादिवेष्टितम्।
करकेण समोपेतं दिक्पालकलशान्वितम् ॥८१॥
पूरितं दधिमध्वाज्वक्षीरयुक्तेन वारिणा।
पिप्पलादिदळोपेतं गन्धस्रग्भिरलंकृतम् ॥८२॥
सकूर्चं सफलं सर्वरत्नहेमसमन्वितम्।
सर्वौषधिसमोपेतमक्षतैरपि चार्चितम् ॥८३॥
प्रदीप्य तैजसे पात्रे मृण्मये वा घृतेन तु।
कापिलेन चतुर्दिक्षु दीपं नेत्राभिमन्त्रितम् ॥८४॥
स्थापयेद्धान्यपीठस्थचक्राम्बुरुहमध्यतः।
कुम्भस्य पुरतः प्राग्वदुपविश्यासनोपरि ॥८५॥
प्राणायामादिकं कृत्वा भूतशुद्धिं यथाविधि।
सौदर्शननृसिंहस्य मन्त्रं करशरीरगम् ॥८६॥
साङ्गं विन्यस्य हृदये चक्राम्बुरुहमध्यगम्।
नादावसानगगनादवतार्य परादिना ॥८७॥
मूर्तिमन्त्रं स्वमन्त्रेण भावनामृतजैः शुभैः।
अर्घ्याद्यैरखिलैर्भोगैरभ्यर्च्य प्रणवेन तु ॥८८॥
प्रीणयित्वा तथा हुत्वा नाभिकुण्डगतानले।
बहिरभ्यर्चयेत् कुंभे(ण्डे) मध्यस्थे चक्रवारिजे ॥८९॥
समावाह्यं स्वमन्त्रेण मूर्तैरर्घ्यादिभिः क्रमात्।
जपावसानं विधिवत् कुण्डे क्राब्जलक्षणे ॥९०॥
चक्रे वा पङ्कजे शङ्खे तुर्यश्रे स्थण्डिलेऽपि वा।
समिद्भिः सप्तभिर्हुत्वा पूर्णान्तं तदनन्तरम् ॥९१॥
चन्दनेन प्रसूनैस्च गुग्गुल्वगरुणाऽपि च।
दुग्धेन दधिना क्षौद्रगुडखण्जान्वितेन च ॥९२॥
शाल्यादीनां तथा बीजैः पायसाद्यैश्च सर्पिषा।
हुत्वाऽथ पूर्णया तृप्तिं नीत्वा सम्यक् समर्प्य च ॥९३॥
ततः कलशनिष्ठस्य पुरस्ताच्छोधिते स्थले।
सर्वधान्यमये पीठे लिखिते चक्रपङ्कजे ॥९४॥
स्वास्तृते नववस्त्रेण छादिते चोर्ध्वतः कुशैः।
प्रागुक्तं कुम्भमादाय द्वादशाह्गुलसंमितम् ॥९५॥
बहिरन्तश्च संक्षाल्य सूत्रेणावेष्ट्य पूर्ववत्।
चन्दनाद्यैः समालिप्य प्रणवेन समाहितः ॥९६॥
चक्राब्जकर्णिकामध्ये विन्यसेत्तमधोमुखम्।
ततो मानेन तत्तुल्यमपव्कं मृण्मयं घटम् ॥९७॥
संप्रोक्ष्य पञ्चगव्येन सास्त्रेण कुशवारिणा।
चतुर्गुणेन सूत्रेण पझैरन्तर्मुखैर्दळैः ॥९८॥
बन्धयित्वा तु सुदृढमास्यवर्जं समन्ततः।
तं च तेनैव विन्यस्य जपंस्तारमवाङ्मुखम् ॥९९॥
स्तृणीयादूर्ध्वतो दर्भान् कुम्भयोः परमेष्ठिना।
प्रोक्षयेदर्घ्यतोयेन प्राङ्मुखः पुरुषात्मना ॥१००॥
विश्वमन्त्रेण विकिरेदक्षतानि तदूर्ध्वतः।
उत्तानयेन्निवृत्या तौ पाणिभ्यामुत्तरान्तिमम् ॥१०१॥
सर्पिषाष्टोत्तरशतं विष्णुगायत्रिया हुनेत्।
सर्वात्मनाऽथ संस्पृश्य संपाताज्येन मन्त्रवित् ॥१०२॥
द्रव्याणि पव्ककुम्भेऽस्मिन् हृन्मन्त्रेण नियोजयेत्।
मृत्कन्दधातुरत्रानि बीजलोहफलानि च ॥१०३॥
चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च।
कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वतः ॥१०४॥
योजयेत् पञ्चगव्येन प्राह्मुखः सकुशोदकम्।
अर्चयित्वाऽर्घ्यगन्धाद्यैः साङ्गं मूलं समुच्चरन् ॥१०५॥
आच्छाद्य नववस्त्रेण दद्याद्भूतबलिं ततः।
देवतायतनग्रामनगरेष्वपि पत्तने ॥१०६॥
स्थापनास्पदमासाद्य शोभ(ध?)नं पञ्चगव्यकैः।
तत्र मध्ये खनेच्छ्वब्रं मूलमन्त्रमुदीरयन् ॥१०७॥
अङ्गुष्ठोदरमावृत्य त्रिधा सूत्रेण वेष्टयेत्।
तेनैव भ्रामयेन्मद्ये स्थाप्य तत्रावटं खनेत् ॥१०८॥
हस्तमानमधस्ताच्च षडङ्गुलसमन्वितम्।
संप्रोक्ष्यं पञ्चगव्येन तत्र रत्नादिकं न्यसेत् ॥१०९॥
शेषं ध्यात्वा तदूर्ध्वे तु अब्यर्च्यार्घ्यादिभिः क्रमात्।
वाससाऽऽच्छाद्य दिग्बन्धमाचरेदस्त्रमुच्चरन् ॥११०॥
संस्पृश्य गव्यं कुम्भाभ्यां ध्यात्वा मूलं जपेद्गुरुः।
प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकीः क्रियाः ॥१११॥
कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्मना।
पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरुः ॥११२॥
पझपत्रावृतं कुम्भं श्वब्रे तारेण विन्यसेत्।
परितः सर्वधान्येन पूरियत्वाऽचलं यथा ॥११३॥
पञ्चगव्यं समुद्धृत्य घटस्थं कवचं लपन्।
तेनैव पूरयेत् कुम्भं श्वब्रस्थं मूलमुच्चरन् ॥११४॥
समभ्यर्च्यार्घ्यपुष्पाद्यैः पूरयेन्मृद्भिराहृतैः।
नृसुक्तं भद्रसूक्तं च स्वस्तिसूक्तं च पाठयेत् ॥११५॥
शान्तिहोमं ततः कुर्याद्द्रव्यैः पूर्वोदितैः क्रमात्।
शतं शतार्धं पादं वा यथाशक्ति समाचरेत् ॥११६॥
दक्षिणा गुरवे देया प्रतिष्ठाफलमिच्छता।
इति ते पञ्चगव्यस्य स्थापनं परिकीर्तितम् ॥११७॥
सर्वोत्पातप्रशमनं महापातकनाशनम्।
सर्वसौख्यप्रदं पुण्यं सर्वोपद्रववारणम् ॥११८॥
सर्वोरोग्यप्रदं नित्यं पुत्रपौत्रविवर्धनम्।
यद्यत् कामयते मन्त्री तत्तदाप्नोत्यसंशयम् ॥११९॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे प्रायश्चित्त सम्प्रोक्षण पञ्चगव्त्यस्थापन विधानं नाम द्वाविंशोध्यायः।
N/A
References : N/A
Last Updated : January 14, 2021
TOP