सनकः ---------
स्थापनं मन्त्रबिम्बानां परिज्ञातं यथाविधि।
महोत्सवविधानं तु श्रोतुमिच्छामि सांप्रतम् ॥१॥
शाण्डिल्यः -------
महोत्सवं प्रवक्ष्यामि यथावन्मुनिपुङ्गव!।
सव इत्युच्यते दुःखं विद्वद्भिः समुदाहृतम् ॥२॥
उद्गतः स सवो यस्मात् तस्मादुत्सव उच्यते।
नित्यो नैमित्तिकः काम्यस्त्रिविधः स महोत्सवः ॥३॥
वत्सरे वत्सरे यस्तु क्रियते स तु नित्यकः।
भूमिकंपे दिशां दाहे महोत्पातेषु सत्सु च ॥४॥
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसंकटे।
अनावृष्टौ च सर्वत्र नक्षत्रपतने च खात् ॥५॥
हसने भगवन्मूर्तेरङ्गानां चलने सति।
रोदने चासनाद्बिम्बे परिभ्रमति सत्तम! ॥६॥
व्यत्यासे शशि (दिशि) सूर्यस्य तथान्येष्वेवमादिषु।
शान्त्यर्थं यत् प्रकुर्वीत स नैमित्तिक उच्यते ॥७॥
चतुर्णां पुरुषार्थानामुद्दिश्यान्यतमं फलम्।
उत्सवोऽनुष्ठितः काम्यः संकल्पितफलप्रदः ॥८॥
एकैकमुत्सवं विद्धि त्रिविधं मुनिपुंगव!।
उत्तमादिविभेदेन तत्र चोत्सवकौतुके ॥९॥
क्रियते हयुत्सवो यस्तु स उत्तम उदाहृतः।
नित्यः स्नपनबिंबे यः स मध्यम उदीर्यते ॥१०॥
बिम्बे नित्योत्सवार्थे तु यः स्यात् स तु कनीयसः (!)।
कुम्भे वा विष्टरे चक्रे यः स आभाससंज्ञितः ॥११॥
अन्येनापि प्रकारेण भूयस्त्रैविध्यमुच्यते।
परिभ्रमणकाले तु यात्राबिंबस्य पूर्वतः ॥१२॥
कुमुदाद्यैस्तु भूतेशैः पटेषु लिखितैर्द्विज!।
सध्यानंसिद्धये यद्वा हेमादिद्रव्यनिर्मितैः ॥१३॥
विभवस्यानुगुण्येन रक्षार्थं हेतिना तथा।
सर्वसंपूरणार्थं तु गरुडेनापि वै सह ॥१४॥
ग्रामादौ बलिदानं तु यत्र नित्यं समाचरेत्।
स एष उत्सवो विप्र! भवेदुत्तमसंज्ञितः ॥१५॥
परिभ्रमसमारम्भात् पूर्वमेव महामते!।
नित्योत्सवार्थबिंबस्य सन्निधावन्नमूर्तिना ॥१६॥
सार्धं च चक्रराजेन, अथवा केवलस्य तु।
सन्निधौ बलिबिंबस्य बलिं दत्वा विधानतः ॥१७॥
प्रासादे बलिबिंबादि प्रवेश्य तदनन्तरम्।
यत्र यात्रार्थबिंबस्य परिभ्रमणमाचरेत् ॥१८॥
ग्रामे वा नगरे वापि स तु मध्यमसंज्ञितः।
सन्निधौ चक्रराजस्य बलिं दत्वा पुरैव तु ॥१९॥
देवयात्रा भवेद्यत्र भवेत् स तु कनीयसः (!)।
मुख्यानुकल्पभेदाच्च द्विविधः परिकीर्तितः ॥२०॥
कलशे मण्डले बिंबे वह्नौ च यजनं विभोः।
नित्यशः क्रियते यत्र मुख्यकल्पः स कीर्तितः ॥२१॥
बिंबे वह्नौ च यजनं यत्र स्यात् सोनुकल्पकः।
परसूक्ष्मस्थूलभेदादेकैकस्त्रिविधः स्मृतः ॥२२॥
एकत्रिपच्चसप्ताहो नवाहश्च परः स्मृतः।
द्वादशाहोऽर्धमासश्च एकविंशतिवासरः ॥२३॥
सूक्ष्मः, स्थूलः सप्तविंशद्दिनो मासस्तथा ऋतुः।
षण्मास अभ्दमेवं हि उत्सवास्तु त्रयोदश ॥२४॥
भूयो मुख्यादिबेदेन द्विविधः स तु कीर्तितः।
उत्सवाहर्गणात् पूर्वं यथोक्ते वासरे द्विज! ॥२५॥
ध्वजस्यारोहणं कृत्वा तत्पश्चात् क्रियते तु यः।
मुख्यकल्पमिदं विद्धि दैवाद्वा मानुषात्तु वा ॥२६॥
कुतश्चित् कारणाद्विप्र! पूर्वमुक्ते तु वासरे।
न कल्पिते ध्वजारोहे तूत्सवारम्भवासरे ॥२७॥
ध्वजस्यारोहणं कृत्वा तत्पश्चात् क्रियते तु यः।
अनुकल्पमिदं विद्धि ह्येष तु त्रिविधः स्मृतः ॥२८॥
ध्वजारोहणपूर्वस्तु देवताह्वानपूर्वकः।
अह्कुरार्पणपूर्वस्तु तथा च मुनिपुंगव! ॥२९॥
ध्वजारोहणपूर्वस्तु राजराज्यसुखप्रदः।
देवताह्वानपूर्वस्तु स्वर्गभोगफलप्रदः ॥३०॥
अङ्कुरार्पणपूर्वस्तु सर्वेषां मोक्षदो भवेत्।
उत्सवारंभदिवसे दिवारोप्य ध्वजं निशि ॥३१॥
भेरीताडनमन्वक् च पालिकास्वंकुरान् क्षिपेत्।
ध्वजारोहणपूर्वस्तु ह्येष उत्सव उच्यते ॥३२॥
आघोष्य भेरीं प्रथमं ध्वजारोहणमन्वतः।
ततोंकुरार्पणं ह्येष देवताह्वानपूर्वकः ॥३३॥
अङ्कुरारोपणं विप्र! पूर्वं तु रजनीममुखे।
ततोन्वक् स्याद्ध्वजारोहो भेरीताडनमन्वतः ॥३४॥
अह्कुरारोपपूर्वस्तु ह्येष उत्सव उच्यते।
उत्सवं हयुत्तमं विद्धि त्रिवारं प्रतिवत्सरम् ॥३५॥
द्विवारं मध्यमं प्रोक्तं ह्येकवारं कनीयसम्।
चतुर्वारं पञ्चवारं षड्वारं विभवे भवेत् ॥३६॥
मन्त्रमूर्तिप्रतिष्ठानकाल एव महामते!।
प्रासादस्य शिखाग्रे तु स्थापितः खगराड्ध्वजः ॥३७॥
हेतिराजसमायुक्तौ यत्र तत्र सदा द्विज!।
विना त्वन्यध्वजारोहमुत्सवं परिकल्पयेत् ॥३८॥
तत्राप्यन्यध्वजारोहं कुर्याद्वा विभवे सति।
कुर्यादुत्सवमन्यत्र ध्वजारोहणपूर्वकम् ॥३९॥
तीर्थयात्रानुगुण्येन ध्वजारोहं प्रकल्पयेत्।
उत्सवेषु च सर्वेषु तीर्थयात्रादिनं श्रृणु ॥४०॥
चैत्रादिषु च मासेषु श्रवणर्क्षेऽयनद्वये।
विषुवद्वितये वापि चन्द्रसूर्योपरागयोः ॥४१॥
द्वादश्यां पौर्णमास्यां च दर्शे च नवमीतिथौ।
मासर्क्षेपि च रोहिण्यां तथा चोत्तरफलगुने ॥४२॥
पुनर्वस्वाख्यनक्षत्रे प्रतिष्ठादिवसे तथा।
नगरग्रामजन्मर्क्षे प्रासादारम्भवासरे ॥४३॥
राज्ञां जन्मदिने वापि अबिषेकदिने तथा।
एकस्मिन्नेषु सर्वेषु तीर्थयात्रां समाचरेत् ॥४४॥
एतेषु यस्मिन्नक्षत्ते तीर्थयात्रा प्रकल्पिता।
यदा तु तत् स्याद्द्विगुणं मासि ह्युत्सवकल्पिते ॥४५॥
तदा कुर्यात् तीर्थयात्रां मासान्तस्थे तु तद्दिने।
फाल्गुणादिषु सर्वेषु मासेष्वेवं प्रकल्पयेत् ॥४६॥
पञ्चाहात्तु समारभ्य एकत्रिंशद्दिनान्तिमम्।
तीर्थयात्रादिनादर्वागेकविंशतिमे दिने ॥४७॥
द्वजस्यरोहणं कुर्यादुत्सवार्थं प्रयत्नतः।
यद्वा कल्याणदिवसं त्रिगुणीकृत्य तावताम् ॥४८॥
आदौ दिनानां कर्तव्यो ध्वजारोहो द्विजोत्तम!।
सप्तविंशतिमे ब्रह्नन्! उत्सवारम्भवासरात् ॥४९॥
पूर्वं दिने तु तत्संख्ये ध्वजमारोहयेत् सुधीः।
त्रिंशद्दिने तु तत्संख्ये दिने पूर्वे समाचरेत् ॥५०॥
ऋतूत्सवादित्रितये ह्युत्सवारंभवासरात्।
एकोनविंशतिदिने ध्वजारोहणमाचरेत् ॥५१॥
अष्टादशदिने वापि द्वादशाहेथवा भवेत्।
एकविंशद्दिनाद्ये(दे)वमुत्सवानां त्रिकेपि च ॥५२॥
एवमेव ध्वजारोहमाचरेद्देशिकोत्तमः।
अंकुरानर्पयित्वा हि पुण्ये पूर्वं यथोदिते ॥५३॥
ध्वजमारोहयेत् पश्चान्मङ्गलं मङ्गले दिने।
यस्मिन् दिने ध्वजारोहं कुर्यात् तत्पूर्वमेव तु ॥५४॥
द्वादशाहे नवाहे वा सप्ताहे पञ्चमेहनि।
तृतीयेऽहनि वा कुर्यादंकुरारोपणं द्विज! ॥५५॥
तद्विधानं हि विस्तारात् समाकर्णय सांप्रतम्।
त्रिविधानि च पात्राणि मंगलांकुररोपणे ॥५६॥
पालिका घटिकाश्चेति शरावाश्चेतिभेदतः।
पालिकानामथोच्छ्रायः पच्चविंशांगुलो भवेत् ॥५७॥
तदाननस्य विस्तारो भवेद्वै षोडशांगुलः।
अष्टांगुलस्तदुच्छ्रायो ह्यं(द्वयं)गुलं वलयं ततः ॥५८॥
भवेत् कण्ठबिलं विप्र! ततोष्टांगुलविस्तृतम्।
आरभ्य वक्त्रवलयात् यावत्कण्ठबिलं द्विज! ॥५९॥
ह्रासयेदनुपातेन, तन्नालं द्वादशांगुलम्।
उच्छ्रायादथ विस्तारान्मध्यतस्तु षडंगुलम् ॥६०॥
अधस्तादंगुलानां तु चतुष्कं विस्तृतं भवेत्।
ततः कण्ठबिलाच्चैव ह्रासयेदनुपाततः ॥६१॥
पादपीठमधोत्सेधाद्विज्ञेयं चतुरंगुलम्।
दशांगुलस्तद्विस्तारस्तत्संधिश्चांगुलो भवेत् ॥६२॥
तत्सन्धेश्च भवेन्नाहं सार्धमेकांगुलं द्विज!।
उन्मत्तकुसुमाकारं वक्त्रं पझाकृतिर्भवनेत् ॥६३॥
पालिकोत्सेधतुल्यास्तु घटिकाः समुदाहृताः।
अंगुलत्रयहीना वा तदूर्ध्वं कलशाकृतिः ॥६४॥
घटिकाः पञ्चवक्त्राः स्युरेतासां मध्यमं मुखम्।
षडंगुलं च विस्तीर्णं चतुर्दिक्षु चतुष्टयम् ॥६५॥
चतुरंगुलविस्तारं कलशोदरविस्तृतिः।
षोडशांगुलमानोत्था शेषं प्राग्वत् समाचरेत् ॥६६॥
यदांगुलत्रयन्यूनास्तदा सप्तांगुलोच्छ्रितम्।
तदाननं तु तन्नालं अर्धोत्तरदशांगुलम् ॥६७॥
सार्धत्रयांगुलं पीठं प्राग्वत् सर्वत्र विस्तरः।
शरावाः पालिकोत्सेधतुल्याः पञ्चभिरंगुलैः ॥६८॥
हीना वा, वक्त्रविस्तारात् समारभ्य महामते!।
पादपीठस्य विस्तारं यावत्तावत्क्रमेण तु ॥६९॥
पूर्वोक्तात् पादहीना तु भवेत् सर्वत्र विस्तृतिः।
भवेत् त्रिपादहीना तु पादपीठस्य विस्तृतिः ॥७०॥
यदा शरावा हीनाः स्युरंगुलैः पञ्चभिस्तदा।
मुखं षडंगुलोच्छ्रायं तन्नालं तु दशांगुलम् ॥७१॥
त्र्यंगुलं पादपीठं स्यात् प्राग्वत् सर्वत्र विस्तृतिः।
तदुत्तममानं तु पात्राणां कथितं द्विज! ॥७२॥
एतदेव मुनिश्रेष्ठ! पादहीनं तु मध्यमम्।
अर्धहीनं तु तन्मानमधमं परिकीर्तितम् ॥७३॥
अतो न्यूनं न कर्तव्यं कदाचित् सिद्धिकांक्षिभिः।
हेमादिलोहजाः सर्वे मृण्मया वा यथावसु ॥७४॥
प्रत्येकं पालिकादीनां द्विषट्कं चोत्तमं भवेत्।
द्विरष्टकं वा षट्त्रिंशद्विभवे सति कल्पयेत् ॥७५॥
प्रत्यष्टकं मध्यमं स्याच्चतुष्कमधमं भवेत्।
सर्वार्थे पालिकाः प्राग्वत् षोडशाष्टौ यथाबलम् ॥७६॥
चतस्रो वा ततस्तासु मंगलांकुरकल्पनम्।
अयुग्मा मानुषे कार्ये दैवे युग्मास्तु पालिकाः ॥७७॥
महोत्सवे ध्वजारोहे ह्युत्सवावसरेऽथवा।
पवित्रारोहणे चैव तथा स्थापनकर्मणि ॥७८॥
जीर्णोद्धारविधौ चापि सहस्रकलशे तथा।
त्रिवर्गपालिका यद्वा भवेदुत्तमसंख्यया ॥७९॥
भवेन्मध्यमया वापि नान्यथा द्विजसत्तम!।
कर्मस्वन्येषु सर्वेषु यथावित्तं यथारुचि ॥८०॥
अंकुरावापनस्थानमण्टपं परिकलपयेत्।
प्रथमावरणे वापि द्वितीयावरणेपि वा ॥८१॥
तृतीयावरणे वापि चतुर्थावरणेपि वा।
शुभे विविक्तेऽभिमते देशे वै देशिकोत्तमः ॥८२॥
चतुर्दिक्षु चतुर्द्वारं चतुर्वन्दनमालिकम्।
दर्भमालापरिक्षिप्तं मुक्तादामविराजितम् ॥८३॥
विततक्षौमसंछन्नं गोमयालिप्तभूतलम्।
प्रदीपमालाविततमक्षतैश्चापि सर्वतः ॥८४॥
सुधाचूर्णैश्च धवलैः चित्रिताभ्यन्तरस्थलम्।
मण्टपं कल्पयित्वैवं यद्वा स्नपनमण्टपे ॥८५॥
यागाख्यमण्डपे वापि कुर्यादंकुररोपणम्।
अंकुरानर्पयेद्रात्रौ य इच्छेद्राष्ट्रवर्धनम् ॥८६॥
बीजानामधिपः सोम ओषधीशोऽमृतात्मकः।
न प्रीणाति सदा ब्रह्नन्! अंकुरार्पणमह्नि चेत् ॥८७॥
तस्मात् सर्वप्रयत्नेन रात्र्यामेवांकुरार्पणम्।
कुर्यात् सम्यग्विधानेन भगवद्भक्तिसंयुतः ॥८८॥
तस्मिन् जगत्प्रिये प्रीते शीतांशौ प्राणिजीवने।
तद्देशे सर्वसस्यानां संपत्तिर्महती भवेत् ॥८९॥
गवां च लोकमातॄणां नॄणामपि च सर्वशः।
अज्ञानादह्नि कुर्याच्चेदंकुराणामथार्पणम् ॥९०॥
अशोभनं भवेद्राष्ट्रं असमृद्धजनान्वितम्।
सद्यः कालीनके विप्र! कर्मणि स्याद्दिवापि च ॥९१॥
यद्यदत्रोपयोग्यं स्यात्तत् सर्वं तु समार्जयेत्।
संभृत्य सर्वसंभारानाचार्यो मूर्तिपैः सह ॥९२॥
स्नातः कृताह्निकश्चैव सोत्तरीयः स्वलंकृतः।
नूतनक्षौमवसनः सोष्णीषः सांगुलीयकः ॥९३॥
सुरभीकृतसर्वांगः स्रग्वी संमृष्टकुण्डलः।
श्वेतया मृत्स्नया सम्यक् परिक्लृप्तोर्ध्वपुण्ड्रकः ॥९४॥
पवित्रपाणिर्नियतः प्राणायामपरायणः।
कृताचामः कृतन्यासो जपन् वै द्वादशाक्षरम् ॥९५॥
तदर्थमर्थयित्वा तु यजमानसमन्वितः।
भगवन्तं जगद्योनिं पूजयित्वा विधानतः ॥९६॥
कलशे मण्डले बिंबे वह्नौ सन्तर्प्य वै क्रमात्।
बिंबेऽग्ना, वथ बिंबे वा उत्तमादिव्यपेक्षया ॥९७॥
ततस्त्वभिनवे पात्रे सौवर्णे राजतेऽथवा।
तिलसर्षपनीवारशालिमाषप्रियंगवः ॥९८॥
कुलुत्थमुद्गनिष्पावयवगोधूमवेणवः।
बीजानि द्वादशैतानि ष्टथक् पात्रेषु वा द्विज! ॥९९॥
संभृत्य तु मुनिश्रेष्ठ! स्थापयित्वा तु मूर्धनि।
दीक्षितस्य तु विप्रस्य, पुष्पाक्षतकरांजलिः ॥१००॥
आचार्यः प्रविशेत् सार्धं साधकैर्भगवन्मयैः।
प्रासादाभ्यन्तरं विप्र! तत्राधारोपरि न्यसेत् ॥१०१॥
बीजपात्रं ततोऽर्घ्येण गन्धैः पुष्पैश्च धूपकैः।
संपूज्य मूलबिंबस्थं तथा चोत्सवबिंबगम् ॥१०२॥
बीजपात्रं ततोऽभ्यर्च्य देवाय विनिवेदयेत्।
सह शंखनिनादैश्च मंगलैर्गीतनिस्वनैः ॥१०३॥
तूर्यनादैश्च विविधैः श्रुतिघोषैः समन्ततः।
ततो विज्ञापयेन्मन्त्रमिममुच्चस्थया गिरा ॥१०४॥
"देवदेव! जगन्नाथ! यात्रोत्सवनिमित्ततः।
ध्वजार्थमंकुरारोपं करिष्यामि प्रसीद ओम" ॥१०५॥
इति विज्ञाप्य देवस्य तत्रानुज्ञामवाप्य च।
स्थापयित्वा तु तत् पात्रं दीक्षितस्यैव मूर्धनि ॥१०६॥
साधकैः सहितो विप्र! बहिर्निर्गत्य देशिकः।
विष्वक्सेनं तु वा तार्क्ष्यं हनुमत्प्रमुखं तु वा ॥१०७॥
हेतीशं वापि वस्त्राद्यैरलङ्कृत्य विशेषतः।
यानादिकं समारोप्य प्रक्षाल्याद्भिः खनित्रकम् ॥१०८॥
नवेन वाससाच्छाद्य भूषयित्वा तु माल्यकैः।
देशिको वाहयेद्विप्रैः शूद्रैर्वा दीक्षितैर्द्विज! ॥१०९॥
च्छत्रध्वजपताकाभिः सार्धमंकुरपात्रकैः।
त्रिविधैः पालिकाद्यैश्च शंखतूर्यादिभिः सह ॥११०॥
आम्नायोद्धोषणपरैर्भक्तैर्भागवतैर्विभोः।
गायकैर्गणिकाभिश्च तथान्यैर्मङ्गलैः सह ॥१११॥
क्रमात् प्रदक्षिणीकृत्य सर्वेष्वावरणेषु च।
दिशं प्राचीमुदीचीं वा अथवा प्रागुदग्दिशम् ॥११२॥
अदूरं समनुप्राप्य तत्रोद्याने मनोहरे।
केवले वा शुचौ देशे मृदं शुद्धां समाहरेत् ॥११३॥
अस्त्रमन्त्रेण धरणीं संप्रोक्ष्य प्रथमं गुरुः।
महीसूक्तेन संस्पृश्य ध्यायन्नेकाग्रचेतसा ॥११४॥
मूर्तिं देवस्य वाराहीमभ्यर्च्य कुसुमैर्भुवम्।
अस्त्रांबुना प्रोक्षितेन पुष्पैरभ्यर्चितेन च ॥११५॥
खनित्रेण खनेद्भूमिं प्राङ्मुखः क्रोडमन्त्रतः।
लोहजे भाजने मृत्स्नां वेत्रजे वा यथारुचि ॥११६॥
गृहीत्वा मूलमन्त्रेण वेष्टयित्वा च वाससा।
प्रत्यग्रेण तथा नद्या वालुकां गोमयं तथा ॥११७॥
गोकुलात् पूर्ववत् पात्रे गृहीत्वाऽऽच्छाद्य वाससा।
यानादिके समारोप्य यद्वा दीक्षितमूर्धनि ॥११८॥
गत्वा प्रदक्षिणं ग्रामं प्रविशेन्मण्टपं ततः।
मण्टपं शोधयित्वा तु स्नपनोदितवर्त्मना ॥११९॥
ततो मण्टपमध्ये तु सूत्राण्यास्फालयेत् क्रमात्।
प्रागायतानि प्रथमं क्रमात् सप्तदश क्षिपेत् ॥१२०॥
उदगायतसूत्राणि चतुर्दश निपातयेत्।
सूत्रात् सूत्रादन्तरालं षोडशांगुलसम्मितम् ॥१२१॥
त्रयाधिकदशैव स्युः पूर्वपश्चिमपङ्क्तयः।
एवं षोडशसंख्याता दक्षिणोत्तरपङ्क्तयः ॥१२२॥
बीजपात्रप्रतिष्ठार्थं पूर्वपश्चिमपङ्क्तिषु।
मध्ये पङ्क्तित्रयं स्थाप्य वीध्यर्थं द्वितयं मृजेत् ॥१२३॥
भूयश्च पङ्क्तित्रितयं स्थापयेत् पाश्वयोर्द्वयोः।
दक्षिणोत्तरमध्ये तु स्थाप्यं पङ्क्तिचतुष्टयम् ॥१२४॥
द्वितयं द्वितयं पार्श्वे वीथ्यर्थं विमृजेत् पुनः।
चतुश्चतुश्च पङ्क्तीनां स्थापयेत् क्रमयोगतः ॥१२५॥
अशास्वष्टासु मध्ये च शराबघटपालिकाः।
द्वादश द्वादश स्थाप्या शतमष्टोत्तरं भवेत् ॥१२६॥
आग्नेये दक्षिणे भागे नैर्ऋतेपि च पालिकाः।
घटिका वारुणे ब्राह्ने तथा पौरन्दरेपि च ॥१२७ ।
शरावा मारुते सौम्ये त्वीशाने च यथाविधि।
प्रत्येकं पालिकादीनां षोडशत्वेन कल्पयेत् ॥१२८॥
दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत्।
प्रागायतानि सूत्राणि पूर्ववद्विनिवेशयेत् ॥१२९॥
आचरेत् पूर्ववद्विप्र! प्राक्प्रत्यक्पङ्क्तिकल्पनम्।
तत्र दक्षिणतः पङ्क्तिचतुष्के स्थापयेत् क्रमात् ॥१३०॥
पालिकाः षोडश पुरो मध्ये पङ्क्तिचतुष्टये।
घटिकाः षोडश न्यस्य उत्तरे विनिवेशयेत् ॥१३१॥
शरावानपि तत्संख्यानथ द्वादशकल्पने।
दक्षिणोत्तरसूत्राणि चत्वार्यत्र विनिक्षिपेत् ॥१३२॥
पूर्वापराणि सूत्राणि पूर्ववद्विनिपातयेत्।
अष्टाधिकानि कोष्ठानि चत्वारिंशद्भवन्ति हि ॥१३३॥
याम्ये द्वादश कोष्ठानि स्थापयित्वा ततो मृजेत्।
वीथ्यर्थं भागषट्कं तु मद्यतः स्थापयेत् ततः ॥१३४॥
भागद्वादशकं पश्चात् भागषट्कं विलोपयेत्।
भूयश्चोत्तरदिकस्थाप्यं कोष्ठद्वादशकं क्रमात् ॥१३५॥
न्यसेत्तु पालिकादीनि भागद्वादशकत्रये।
आग्नेयादीशपर्यन्तं दक्षिणाशादितः क्रमात् ॥१३६॥
प्रत्येकं पालिकादीनामष्टसंख्याप्रकल्पने।
दक्षिणोत्तरसूत्राणि त्रितयं तु निपातयेत् ॥१३७॥
अन्यत् सर्वं भवेत् प्राग्वत्, अथ प्रतिचतुष्टये।
दक्षिणोत्तरगं सूत्रं त्रितयं विनिपातयेत् ॥१३८॥
पूर्वपश्चिमसूत्राणि ह्येकादश विनिक्षिपेत्।
सर्वार्थे पालिकानां तु षोडशानां परिग्रहे ॥१३९॥
पञ्च दक्षिणसूत्राणि प्राक्सूत्राणि तथा क्षिपेत्।
प्राक्सूत्रान् पञ्च चाष्टानां दक्षसूत्रत्रयं क्षिपेत् ॥१४०॥
चतुर्विंशतिसंख्यानां पालिकानां परिग्रहे।
पूर्वदक्षिणसूत्राणां सप्तकं पञ्चकं क्षिपेत् ॥१४१॥
चतुः परिग्रहे सूत्रत्रितयं त्रितय क्षिपेत्।
पूर्ववत् सूत्रपातः स्यादाद्यः संख्यासु पञ्चसु ॥१४२॥
एवमास्फाल्य सूत्राणि विभवेच्छानुसारतः।
पदेषु पालिकादीनां शालिभिर्व्रीहिभिस्तथा ॥१४३॥
आढकादिमितैः प्राग्वदुत्तमादिव्यपेक्षया।
वृत्तां वा चतुरश्रां वा कल्पयेत् पीठिकां क्रमात् ॥१४४॥
पालिकादीनि पात्राणि क्षालयेन्मूलमन्त्रतः।
सहदेवीं च दूर्वां च सार्धमश्वत्थपल्लवैः ॥१४५॥
शिरीषपल्लवैश्चापि निशापत्रैस्तथैव च।
कण्ठेषु पालिकादीनां बन्धयेत्तदनन्तरम् ॥१४६॥
कुशकाशतृणैस्तेषां बिलमूलानि पूरयेत्।
बिलानि प्रथमं मृद्भिर्वालुकाभिरनन्तरम् ॥१४७॥
करीषचूर्णैरुपरि समृद्धं पूरयेद्विलम्।
यद्वा मृदादिकं विप्र! सर्वं संमिश्र्य पूरयेत् ॥१४८॥
कोष्ठेषु विन्यसेत्तानि पालिकादीन्यनुक्रमात्।
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं द्विजोत्तम! ॥१४९॥
द्वादशानां तु नवकं अष्टोत्तरशेतं न्यसेत्।
ब्राह्नादीशानपर्यन्तमुदितक्रमयोगतः ॥१५०॥
एवं सर्वं समापाद्य दीक्षितैः परिचारकैः।
तत्तत् सर्वं समापाद्य यद्यत् प्रागनुपार्जितम् ॥१५१॥
समारभेत् ततः कर्म देशिकः प्राङ्मुखः पदे।
पश्चिमे घटिकास्थानादुपाविश्यासने शुभे ॥१५२॥
न्यासमुद्दिश्य विधिना प्रोक्षणार्घ्यं प्रकल्पयेत्।
देहविन्यस्तमन्त्राणां कुर्यादर्घ्यादिनार्चनम् ॥१५३॥
द्वारपालार्चनं कृत्वा विभवेच्छानुरूपतः।
तोरणानि ध्वजांश्चैव द्वारकुंभांश्च पूजयेत् ॥१५४॥
सौवर्णं राजतं वापि ताम्रजं मृण्मयं तु वा।
सुगन्धतोयैः संपूर्णमुपरिष्टाद्विभूषितम् ॥१५५॥
स्रक्चन्दनाक्षतैः कुम्भमाधारस्योपरि न्यसेत्।
आत्मनस्त्वग्रतः पश्चाद् बह्वृचादीन् क्रमेण तु ॥१५६॥
वाचयेत् स्वस्तिपुण्याहं देशिकेन्द्रः स्वयं ततः।
आचार्यैः साधकैश्चापि सार्धमर्घ्यादिपूजितैः ॥१५७॥
पुण्याहं वाचयेद्विप्र! मङ्गलं कलशं वहन्।
यजेदर्घ्यादिभिः पश्चात् पालिकाद्यधिदेवताः ॥१५८॥
अढ्जनाभं परं चैव पझनाभं ध्रुवं तथा।
पात्रस्कन्धत्रिके विप्र! क्रमेण परिपूजयेत् ॥१५९॥
पालिकानां द्वादशके वह्न्यादीशानपश्चिमम्।
अनन्तादि द्वादशकं घटिकाद्वादशे ततः ॥१६०॥
कूर्मादीनां द्वादशकं शरावाणां तु द्वादशे।
द्विषट्कमेकश्रृंगाद्यं क्रमेण परिपूजयेत् ॥१६१॥
प्रत्येकं पालिकादीनां कृते षोडशकल्पने।
अनन्ताद्यं च षट्त्रिंशत् पातालशयनान्तिमम् ॥१६२॥
लक्ष्म्यादिमतिपर्यन्तं शान्तिद्वादशकं यजेत्।
प्रत्येकं पालिकादीनां षट्त्रिंशत् पातालशयनान्तिमम् ॥१६३॥
चतुष्टयं तु मूर्तीनां स्वप्नाख्यपदसंस्थितम्।
प्रभवाप्यययोगेन जाग्रद्रूपं तथाष्टकम् ॥१६४॥
मूर्त्यन्तराणां द्वादशकं तच्छक्तीनां चतुस्त्रयम्।
अनन्ताद्यं च्च षट्त्रिंशत् पातालशयनान्तिमम् ॥१६५॥
स्वधादीनां च शक्तीनां चतुस्त्रिंशच्च तत्परम्।
चक्रशंखौ क्रमाद्भोगैरर्घ्यगन्धादिर्भियजेत् ॥१६६॥
अष्टके केशवाद्याश्च तदीयाः शक्तयो यजेत्।
चतुष्के केशवाद्यांस्तु केवलान् द्वादशे यजेत् ॥१६७॥
सर्वार्थे पालिकानां तु क्रमात् षोडशके यजेत्।
वासुदेवादिचतुरः केशवादींश्च द्वादश ॥१६८॥
अष्टके वासुदेवादीन् प्रभवाप्यययोगतः।
चतुष्के वासुदेवादीन् प्रभवानुक्रमेण तु ॥१६९॥
एममिष्ट्वा क्रमेणैव बीजानि क्षालयेत् ततः।
गव्येन पयसा सम्यङ्भन्त्रेण द्वादशात्मना ॥१७०॥
बीजानां नामधेयैस्तु चतुर्थ्यन्ते पृथक् पृथक्।
अर्घ्याद्यैः पूजयित्वा तु वाससा परिवेष्ट्य च ॥१७१॥
हुतावशिष्टमाज्यं तु तदन्यं वापि संस्कृतम्।
आदाय लोहजे पात्रे मृण्मये वा यथारुचि ॥१७२॥
उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः।
घृते निमज्य चाग्राणि पालिकादिषु सेचयेत् ॥१७३॥
हस्तव्यत्यासमार्गेण वह्व्यादीशानपश्चिमम्।
प्रतिस्कन्धं घृतारोपे दूर्वाभेदः प्रकीर्तितः ॥१७४॥
एवं कृत्वा घृतारोपं भूयऋ स्कन्धादिदेवताः।
प्रपूज्य सर्वबीजानि मन्त्रयेद्द्वादशात्मना ॥१७५॥
आचार्यादीननुज्ञाप्य देशिकेन्द्र उदङ्मुखः।
प्राङ्मुखो वा मुहूर्ते तु शोभने पालिकादिषु ॥१७६॥
द्वादशाक्षरमन्त्रेण सर्वबीजानि वापयेत्।
यद्वाजितन्तामन्त्रेण ह्युभयेनाथवा द्विज! ॥१७७॥
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं क्रमेण तु।
शंखदुंदुभिनिर्घोषजयनादसमन्वितम् ॥१७८॥
बीजानि द्वादशोक्तानि वपेद्द्वादशसु क्रमात्।
यद्वा सर्वाणि संमिश्य वपेदिच्छानुरूपतः ॥१७९॥
बीजानामप्यलाभे तु मुद्गमेकं तु वापयेत्।
आचार्यानुमताश्चान्ये देशिकाः साधका अपि ॥१८०॥
वपेयुर्ध्यानसंयुक्ताः केवलं गुरुरेव वा।
हरिद्राचूर्णसंमिश्रैर्जलैः कुसुमवासितैः ॥१८१॥
बहुभिः सेचयेद्विप्र! देशिकेन्द्रः क्रमेण तु।
प्रतिस्कन्धोपरिष्टात्तु चन्द्रमण्डलमध्यगम् ॥१८२॥
तत्कान्तिसन्निभं देवं स्वदेहोत्थैर्निरन्तरैः।
सिंचन्तममृतौघैश्तु बीजान्युप्तानि सर्वतः ॥१८३॥
ध्यात्वार्चयित्वा पात्राणि नवैस्तु सदृशौः शुभैः।
आच्छादयित्वा वसनैः प्रतिस्कन्धं क्रमेण तु ॥१८४॥
वासुदेवं जगद्योनिं सर्वेषामूर्ध्वतो यजेत्।
भूतक्रूरबलिं दद्यादष्टदिक्षु द्विजोत्तम! ॥१८५॥
भूतानां कुमुदादीनां पूर्वादिक्रमयोगतः।
तदाप्रभृति ते सर्वे (ताः सर्वा) रक्षन्ति कुमुदादयः ॥१८६॥
आचार्यांश्च गुरूपन् सर्वान् साधकान् वैष्णवानपि।
प्रभूतैस्तु ततोद्दिष्टैस्ताम्बूलीसुमनःफलैः ॥१८७॥
गुरुं च तोषयेद्वित्तैर्यजमामानः प्रयत्नवान्।
क्रमादुत्यद्धृत्य तान् सर्वान् सुगुप्ते स्थापयेत् ततः ॥१८८॥
मण्टपेशानकोणे वा देशेऽन्यत्र यथारुचि।
तत्रापि पालिकादीनां परितोष्टासु दिक्षु च ॥१८९॥
भूतानां कुमुदादीनां ऐन्द्रादिक्रमयोगतः।
बलिं तु मण्टपे दद्यात् भूतक्रूरविधानतः ॥१९०॥
दीपान् बहूननिर्वाणान् परितः परिदीपयेत्।
ऊनाधिक्योपशान्त्यर्थं शतमष्टोत्तरं हुनेत् ॥१९१॥
द्वादशाक्षरमन्त्रं तु जपेद्वा बिंबसन्निधौ।
कुम्भादिस्थानगस्याथ विभोः कुर्याद्विसर्जनम् ॥१९२॥
परितः पालिकादीनां प्रतिरात्रं पृथक् पृथक्।
दद्याद्दिवा रजन्यां वा बलिं कालद्वयेपि बा ॥१९३॥
प्रातः कर्मदिने दद्याद्बलिं देशिकसत्तमः।
यदा चोप्तानि बीजानि तदाप्रभृति नित्यशः ॥१९४॥
न कश्चित् प्रविशेत् तत्र न स्पृशेद्वा कथंचन।
आचार्य एव प्रविशेत् तच्छिष्यो वा समाहितः ॥१९५॥
उच्छिष्टादीनि सर्वाणि दूरतः परिवर्जयेत्।
अदत्वा तु बलिं कांचिन्न कुर्यात् पालिकाक्रियाम् ॥१९६॥
हरिद्रावारिभिः सिञ्चेदङ्कुराण्यभिवृद्धये।
अंकुरान् श्यामलान् रक्तान् कृष्णान् तिर्व्यग्गतांस्तथा ॥१९७॥
अप्ररूढान् मुनिश्रेष्ठ! वर्जयेत्तु प्रयत्नतः।
श्यामेषु द्रव्यनाशः स्याद्रक्तेषु कलहो भवेत् ॥१९८॥
कृष्णेषु मानसी पीडा रोगी तिर्यग्गतेषु च।
अप्ररूढेषु मरणं भवेत् तत्र न संशयः ॥१९९॥
शुभं पीतेषु शुक्लेषु ऋजुष्वूर्ध्वगतेष्वपि।
सर्वसंपत्समृद्धिश्च कर्तुः कारयितुर्भवेत् ॥२००॥
कर्मार्थमह्कुराण्यादौ यः समारोपयेदगुरुः।
स एव कर्म कार्त्स्न्येन कुर्यात् प्राज्ञोपि नेतरः ॥२०१॥
अनुज्ञया वा तत्पुत्रः शिष्यो वा तत् समापयेत्।
एवं सर्वेषु यागेषु अङ्कुरारोपणं भवेत् ॥२०२॥
देशं कालं यथा वित्तं ज्ञात्वा स्वाधीनतां तथा।
उक्तं सर्वं समभ्यूह्य कुर्यात् कर्म प्रधानकम् ॥२०३॥
एवं कृत्वांकुरारोपं ध्वजार्थं पटमाहरेत्।
यथावित्तानुसारेण क्रीतं वाऽभिनवं शुभं ॥२०४॥
दुकूलपट्टं देवाङ्गं चित्रक्षौममथापि वा।
अथ कार्पासिकं वापि नीलरोमादिवर्जितम् ॥२०५॥
सुलक्षणं दृढं स्निग्धं, हस्तमानमिहोच्यते।
शिष्यदेशिककर्तृस्थैर्हस्तैर्मानं प्रकल्पयेत् ॥२०६॥
आद्यं द्वादशहस्तं स्यात् दशहस्तं तु मध्यमम्।
अधमं चाष्टहस्तं स्यात् विस्तारं च चतुष्करम् ॥२०७॥
उत्तमं स्यात्, त्रिहस्तं तु मध्यमर्धाधिकं भवेत्।
त्रिहस्तमधमं विद्धि तत्राद्ये द्विजसत्तम! ॥२०८॥
द्विहस्तं शिखरार्थं तु कल्पयेद्देशिकोत्तमः।
तद्वत् पुञ्छं प्रकुर्वींत अधोभागे ध्वजस्य तु ॥२०९॥
मध्यतःसप्तहस्तेन लेखयेद्विनतासुतम्।
शिरोदण्डनिवेशार्थं हस्तार्धं परिकीर्तितम् ॥२१०॥
पाददण्डनिवेशार्थं तद्वन्मानं भवेद्द्विज!।
मध्यमस्याथ वक्ष्यामि समासादवधारय ॥२११॥
हस्तमर्धादिकं विप्र! संयुक्तं त्रिभिरंगुलैः।
कल्पयेच्छिखरार्थं तु तद्वत् पुच्छं प्रकीर्तितम् ॥२१२॥
मध्यतो हस्तषट्केण गरुडं तु समालिखेत्।
दण्डद्वयनिवेशार्थं शेषं तु परिकल्पयेत् ॥२१३॥
अधमस्याथ वक्ष्यामि पटस्य मुनिपुंगव!।
पादाधिकेन हस्तेन शिखरं स्यात् तथा भवेत् ॥२१४॥
अधः पुच्छं तु हस्तार्थे दण्डद्वयनिवेशनम्।
मध्यतः पञ्चहस्तेन वैनतेयं समालिखेत् ॥२१५॥
भूयो विध्यन्तरं वक्ष्ये विभवेच्छानुसारतः।
आद्यं त्रिपञ्चहस्तं स्यान्मध्यमं तु त्रयोदशम् ॥२१६॥
एकादशकरायाममधमं परिकीर्तितम्।
अर्धाधिकं चतुर्हस्तं विस्तारं चोत्तमं भवेत् ॥२१७॥
पादाधिकं मध्यमं स्यादधमं पादहीनकम्।
पादाधिकं द्विहस्तं तु उत्तमे शिखरार्थतः ॥२१८॥
तद्वत् पुच्छं तु हस्तेन दण्डद्वयनिवेशनम्।
मद्यतश्चाष्टभिर्हस्तैर्गरुडं तु समालिखेत् ॥२१९॥
मध्यमे शिखरं हस्तयुग्मं पुच्छमधस्तथा।
दण्डद्वयनिवेशार्थं अष्टांशोनेन हस्ततः ॥२२०॥
त्र्यंगुलोत्तरसप्तार्धैर्हस्तैर्गरुडमालिखेत्।
अधमं त्वथ वक्ष्यामि पादोनात्तु करद्वयात् ॥२२१॥
शिखरं स्यात्तथा पुच्छं पादोनेन करेण तु।
दण्डद्वयनिवेशः स्यात् पादोनकरसप्तके ॥२२२॥
गरुडं तु लिखेद्विद्वान्, भूयो विध्यन्तरं श्रृणु।
उत्तमं नवहस्तं तु सप्तहस्तं तु मध्यमम् ॥२२३॥
अथमं पञ्चहस्तं तु त्रिविधः पठ उच्यते।
तदर्धं चैव विस्तारं तदर्धं शिखरं भवेत् ॥२२४॥
तत्समं पुच्छमप्युक्तं कर्णपुच्छं तथैव च।
मूलबिंबसमायामं द्वारायाममथापि वा ॥२२५॥
आयामार्धेन विस्तीर्णं पादेन कृतशेखरम्।
शिखरेण समं पुच्छं तदर्धं कर्णपुच्छकम् ॥२२६॥
पक्षद्वयेपि पूर्वोक्ते कर्णपुच्छेन कल्पयेत्।
बालाख्यध्वजवस्त्रं तु पटाख्यपरिसम्मितम् ॥२२७॥
विस्तारं पटतुल्यं तु पूर्ववच्छिखरं भवेत्।
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ॥२२८॥
पटं विचित्रयेद्विद्वान् शिल्पिना कुशलेन वै।
च्छत्रं तु शिखरे कुर्यात् पार्श्वयोः श्वेतचामरे ॥२२९॥
अधोऽनेकदलं पझं तदधः पूर्णकुम्भकम्।
कुम्भस्य पार्श्वे विलिखेत् सांकुरं पालिकागणम् ॥२३०॥
दीपौ सुशोभनौ कुर्यात् पालिकानां तु पार्श्वयोः।
ध्वजं तु गरुडाकारं एकमूर्तेस्तु सत्तम! ॥२३१॥
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च चतुरात्मनः।
पञ्चमूर्तेस्तु चत्वारो विहगेश्वरसंयुताः ॥२३२॥
सुपर्णतालमकरऋश्या वा चतुरात्मनः।
तत ऊर्ध्वं तु सर्वेषां व्यूहानां गरुडो ध्वजः ॥२३३॥
पटमध्ये तु गरुडं द्विभुजं विधृताञ्जलिम्।
पुष्पांजलिपुटं वाथ सुवर्णाचलसन्निभम् ॥२३४॥
गगने गमनारंभपक्षविक्षेपणान्वितम्।
कुञ्चितो वामपादस्तु दक्षिणः पृष्ठतः स्थितः ॥२३५॥
किंचिदायतवृत्ताक्षं नीलदीर्घाग्रनासिकम्।
अतीव शान्तवेषं तु तथा प्रहसिताननम् ॥२३६॥
बालचन्द्रसमाकारदंष्ट्राद्वयविराजितम्।
कुटिलभ्रकुटीभंगं भंगुरालकशोभितम् ॥२३७॥
कम्बुग्रीवं बृहद्बाहुं पीनांसं दृढवक्षसम्।
पृथूदरं निम्ननाबिं रोमराजिविराजितम् ॥२३८॥
सुवृत्तकनकस्तम्भपीवरो रुद्वयान्वितम्।
हेमरंभासमाकारजंघाक्रान्तपदद्बयम् ॥२३९॥
करण्डमकुटाक्रान्तपुष्पापीडविराजितम्।
वृत्तवैपुल्यमानेन लोचने पझपत्रवत् ॥२४०॥
भ्रूयुग्मं नारसिंहोक्तं घ्राणाग्रं शुकतुण्डवत्।
सिंहवन्मध्यदेशस्तु तद्वंशं गजपृष्ठवत् ॥२४१॥
तदेवं दैवदैर्घ्येण विस्तृतं हंसपक्षवत्।
स्वपक्षमानाद्द्विगुणं तत्पुच्छं शतशाखिनम् ॥२४२॥
सर्वेषां विद्धि सामान्यं विशेषाख्यमथोच्यते।
मकुटादिसपादान्तं नानारत्नेन शोभितम् ॥२४३॥
हारकेयूरकटकब्रह्नसूत्रविभूषितम्।
प्रलंबकर्णपाशान्तविश्रान्तशुभकुण्डलम् ॥२४४॥
ललाटतिलकोपेतं पुष्पकर्णावतंसकम्।
रत्नांगुलीयकोपेतं शिंजिनीरंञ्जितांघ्रिकम् ॥२४५॥
अन्यैराभरणैर्दिव्यैर्भूषितं सर्पभूषणम्।
नीलांबरधरं नीलवारवाणविराजितम् ॥२४६॥
फुल्लरक्तोत्फलदलस्रग्भिर्मण्डितकन्धरम्।
तथाविचित्रकुसुमस्रग्भिरन्याभिरुज्ज्वलम् ॥२४७॥
अनन्तो वामकटको, यज्ञसूत्रं तु वासुकिः।
तक्षकः कटिसूत्रं तु, हारः कार्कोटकस्तथा ॥२४८॥
पझो, पक्षिणकर्णे तु महापझस्तु वामतः।
शंखः शिरः प्रदेशे तु गुलिकच भूजान्तरे ॥२४९॥
एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमैः।
अनन्तः शुक्लवर्णाभः, रक्तवर्णस्तु वासुकिः ॥२५०॥
तक्षकः पीतवर्णआभो धूम्रः कार्कोटकस्तथा।
शंखस्तुहिनवर्णाभो गुलिकस्त्वलिसन्निभः ॥२५१॥
पझः पझसमानाभो महापझस्तु पिंगलः।
पञ्चवर्णैर्लिखेदेवं देवं पञ्चायुधं तथा ॥२५२॥
चक्रं खङ्गं शरं चैव शंखं शार्ङ्गं गदां क्रमात्।
पटोर्ध्वे हयुभये पार्श्वे विलिखेच्च यथाविधि ॥२५३॥
तदधो दक्षिणे भागे वह्विमण्डलमालिखेत्।
तद्वल्लिखेद्वामभागे स्वस्तिकं लक्षणान्वितम् ॥२५४॥
लेपयेत् पटशेषं तु श्यामलेनासितेन वा।
विचित्रपुष्पसंयुक्तपत्रवल्लीसमन्वितम् ॥२५५॥
एवं शिल्पिवरेणैव कारयेद्देशिकोत्तमः।
शूद्रेण वा द्विजश्रेष्ठ! दीक्षितेन यथाविधि ॥२५६॥
कुलालेनाथवा मन्त्री कारयेत् कुशलेन च।
सामान्यलक्षणं ह्येतत् कीर्तितं द्विजसत्तम! ॥२५७॥
अङ्गुलादिविभागेन विशेषणवधारय।
अष्टाधिकशतैकांशाद्यद्बिंबेंऽगुलमीरितम् ॥२५८॥
तत्रैव मूलबिंबोत्थैरङ्गुलैः परिकल्पयेत्।
तद्वाहनस्य मानं तु विभागमवधारय ॥२५९॥
तस्य बिंबसमुत्थेन तालेन मुखमण्डलम्।
द्व्यंगुलं तु ललाटोर्ध्वं जटाबन्धो द्विलोचनम् ॥२६०॥
द्व्यंगुलेनोन्नतं कण्ठं उरः पञ्चांगुलं स्मृतम्।
अष्टांगुलं तदुदरं कटिः पञ्चांगुलोन्नता ॥२६१॥
नवांगुलोन्नतावूरू जानुनी द्व्यंगुले स्मृते।
अष्टांगुलोच्छ्रिते जंधे द्व्यंगुले पादपिण्डिके ॥२६२॥
शममेकं कलाहीनं तद्ग्रीवायास्च वेष्टनम्।
बिंबतुल्या परिज्ञेया सर्वदास्यांगविस्तृतिः ॥२६३॥
द्विषड्भागादिकं विद्धि वेष्टनं ह्युदरस्य वा।
परिधिः कटिदेशस्य चतुर्णेत्राधिकस्तु वै ॥२६४॥
बिंबोक्तसदृशं बिद्धि तदूर्वोमूलवेष्टनम्।
तदेव जंघामध्यस्य जंघानत्स्य तदेव हि ॥२६५॥
पादः पञ्चकलायामश्चतुरंगुलविस्तृतः।
त्र्यंगुलं पार्ण्णिदेशाच्चाप्यंगुष्ठौ च कलासमौ ॥२६६॥
विज्ञेयास्त्वंघ्रिदैर्घ्या(!)यवोनांगुलयः क्रमात्।
नाभिरन्ध्रं सुविस्तीर्णं द्व्यर्धलोचनविस्तृतम् ॥२६७॥
तद्वाहुमस्तकं विद्धि उच्छ्रायेण द्विलोचनम्।
भुजोपभुजयुग्मं यत् तद्द्वितालसमं स्मृतम् ॥२६८॥
मध्यमांगुलिपर्यन्तं मणिबन्धान्नवांगुलम्।
त्रिकलः पाणिविस्तारस्तन्नखा निशितोन्नताः ॥२६९॥
कलार्धेनाधिकं बाहोस्तदर्धं बाहुवेष्टनम्।
बिंबोक्तांशद्वयेनैव स्तनभूर्लोचनेन तु ॥२७०॥
वृत्तवैपुल्यमानेन लोचने पझपत्रवत्।
भ्रूयुग्मं नारसिंहोक्तं घ्राणाग्रं शुकचञ्चुवत् ॥२७१॥
कलार्धमानदीर्धं च तद्वंशं गजपृष्ठवत्।
स्वायामदीर्धं तत्पक्षयुगलं कुक्षिदेशगम् ॥२७२॥
तदेव दैर्घ्यादर्धेन विस्तृतं हंसपक्षवत्।
स्वपक्षमानाद्द्विगुणं तत्पुच्छं शतशाखिनः (खकम्) ॥२७३॥
सपक्षमेवमायामं सात्यं त्ववयबान्वितम्।
सर्वेषां विद्धि सामान्यं विशेषाख्यमथोच्यते ॥२७४॥
ऊरु, द्वयान्नयेद्ध्रासमङ्गुलानां त्रयं तथा।
जंघाकाण्डोच्छ्रितेः कुर्याज्जङ्घाभ्यां चात्र वेष्टनम् ॥२७५॥
बिंबाख्यमणिबन्धस्य समं मूलान्महामते!।
जंघादेशात्तदर्देन सह चार्धाङ्गुलेन तु ॥२७६॥
पादे जालं परिज्ञेयं विस्तारेण षडंगुलम्।
शेषं सत्योदित्तं सर्वं सर्वेषां विद्धि सर्वदा ॥२७७॥
किन्तु पादोत्थितौ पक्षौ दैर्घ्यात्तद्दलविस्तृतौ।
एषां चोड्डीयमानानां सायामा पक्षविस्तृतिः ॥२७८॥
पञ्चानां च परिज्ञेया स्थितानामर्धलक्षणा।
पटे तु लिख्यमाने तु पक्षदैर्घ्यं तु पार्श्वयोः ॥२७९॥
यावत् पटसमाप्तिः स्यात् पक्षास्त्वग्रसमन्विताः।
संख्याताः संख्यया विप्र! पच्च सप्ताद्ययुग्मया ॥२८०॥
यद्वा बिंबोक्तमार्गेण अष्टोत्तरशतांगुलैः।
सत्यादीनां तु पच्चानां अंगप्रत्यंगकल्पना ॥२८१॥
यद्वा मध्यांगुलैर्मध्यपर्वदैर्ध्यसमुत्थितैः।
देशिकीयैरंगुलैस्तु सनैरष्टाभिरेव च ॥२८२॥
सत्यादीनां तु पञ्चानां मानं कुर्यात्तु देशिकः।
मूलबिंबस्य बाह्वन्तो नाभ्यन्तो वा तदुच्छ्रयः ॥२८३॥
मानमेतत्तु कथितमुन्मानमवधारय।
गरुडस्य पटस्थस्य सत्यादीनां तथा यदा ॥२८४॥
मद्यमांगुलमद्यस्थदीर्घपर्वेण कल्पयेत्।
देशिखीयेन मानं तु अष्टोत्तरशतांगु लैः ॥२८५॥
शिरःप्रभृति पादान्तं तदाचोन्मानमुच्यते।
अंगुलत्रितयं मूर्घ्नि मुखं षड्गोलकं भवेत् ॥२८६॥
कण्ठं त्र्यंगुलमानं स्यात् तदधो द्वादशांगुलम्।
स्तनान्तरं समारभ्य नाभ्यन्तं षट्कलं भवेत् ॥२८७॥
तदधः कटिपर्यन्तं भवेदंगुलपञ्चकम्।
तदधो योनिपर्यन्तं अंगुलानां च सप्तकम् ॥२८८॥
जान्वन्तं द्वादशकलं त्र्यंगुलं जानुमण्डलम्।
तदधो गुल्फकान्तं तु भवेद्द्वादशगोलकम् ॥२८९॥
त्र्यंगुलं गुल्फमानं स्यात् प्रमाणं क्रमतः श्रृणु।
मुखभागे।़क्षिसूत्रान्तं उपरिष्टाद्द्विगोलकम् ॥२९०॥
तथा नासापुटान्तं च चिबुकान्तं तथैव च।
षट्कलः कर्णसूत्रान्तं मध्यतो मुखविस्तरः ॥२९१॥
नवांगुलो ह्यधोभागे ललाटांशे दशांगुलिः।
केशभ्रूरेखयोर्मध्यमेकांगुलमिदं भवेत् ॥२९२॥
अक्षिभ्रुवोरन्तरं स्यात् सपादांगुलिविस्तरम्।
नेत्रायामस्तु पादोनमंगुलत्रितयं भवेत् ॥२९३॥
तद्विस्तारस्तु पादोनमंगुलिद्वितयं भवेत्।
एकांगुलं तारकं स्यान्नासाया मूलविस्तरः ॥२९४॥
द्व्यंगुलं मध्यतः सांशं तत् त्र्यंगुलमधो भवेत्।
तदग्रायाम एकः स्यात् तदर्धं विस्तृतिर्भवेत् ॥२९५॥
आस्यायामो द्विगोलः स्यात् तद्विस्तारोंऽगुलो भवेत्।
साधरोष्ठं तदोष्ठं स्याद्व्यायामो द्व्यंगुलं भवेत् ॥२९६॥
सपादो दंष्ट्रयोर्मघ्ये तयोरायाम ईरितः।
सपादमंगुलं विप्र! विस्तारोथांगुलो भवेत् ॥२९७॥
मूलदेशे तयोरग्रौ शितौ चन्द्रदलाग्रवत्।
पंचांगुलं कण्ठदैर्घ्यं विस्तारो गोलकं भवेत् ॥२९८॥
पडंगुलं पाददैर्त्र्यं कर्णआधारश्चतुष्कलः।
सार्धांगुलः स्यात्तदधोवक्षः पीठोर्ध्वदेशतः ॥२९९॥
अष्टादशकलस्तारो बाहुव्यासावधि द्विज!।
तदधः कक्षपर्यन्तं तारो द्वादशगोलकः ॥३००॥
तदधोभागविस्तारः सांगुलं नवगोलकम्।
उदरस्य तु विस्तार एकविंशांगुलो भवेत् ॥३०१॥
तत्रैकांगुलिसन्नाहं नाभिवृत्तं सुशोभनम्।
श्रोणीभागस्य विस्तारः सांगुलं नवगोलकम् ॥३०२॥
ऊरुमूलस्य विस्तारस्त्रयोदशांगुलो भवेत्।
तन्मध्ये विस्तृतिर्विप्र! द्वादशांगुलसम्मिता ॥३०३॥
सप्तांगुलमुपस्थं स्यात् त्रिकला जानुविस्तृतिः।
अधः पञ्चांगुलं सार्धं पद्दैर्ध्यं सप्तगोलकम् ॥३०४॥
अङ्गुष्ठाग्रावधिर्यावत् पार्प्ण्योः प्रभृति तत्र तत्।
अङ्गुष्ठं त्र्यंगुलं सार्धं अन्या अंगुलयः क्रमात् ॥३०५॥
अङ्गुलाष्टांशहीनाः स्युः, अंगुष्ठस्य तु विस्तृतिः।
सार्धांगुला तदन्यासां क्रमान्न्यूना तु पूर्ववत् ॥३०६॥
अंगुष्ठनखदैर्व्यं तु सांशमेकाङ्गुलं भवेत्।
तद्विस्तारस्त्रिपादः स्यात् तदन्या ह्रासयेत् क्रमात् ॥३०७॥
कनीयो नखदैर्व्यं तु यदा चार्धांगुलं भवेत्।
तद्विस्तारस्तदर्धं स्यादंगुलीमूलदेशतः ॥३०८॥
चरणस्य तु विस्तारः सार्धपञ्चांगुलो भवेत्।
पञ्च मध्ये पार्ष्णिभागे सार्धं तु चतुरंगुलम् ॥३०९॥
शाखापार्श्वे तदुच्छ्रायस्त्र्यंगुलं परिकीर्तितम्।
मध्यतस्तद्भवेत् सार्धं भुजयोरथ तच्छृणु ॥३१०॥
स्कन्धाग्रात् कूपरान्तं च चतुर्विंशाङगुलो भबेत्।
भुजायामोस्य मूलस्य विस्तारः स्यात् षडंगुलम् ॥३११॥
तदधः पञ्चकं सार्धं कूर्परान्नवगोलकम्।
मणिबन्धावसानं स्याद्दैर्घ्यं कूर्परविस्तृतिः ॥३१२॥
सार्धं षडङगुलं विप्र! मणिबन्धादिकं भवेत्।
अंगुलत्रयविस्तारं कराग्रं षट्कलायतम् ॥३१३॥
विस्तारो द्विकलः प्रेक्तो वामे तु द्व्यंगुलं भवेत्।
दृश्यं तिरोहितं चान्यद्द्वयं दक्षकरे तु वै ॥३१४॥
मध्यमाङ्गुलदैर्घ्यं तु पञ्चांगुलविनिमितम्।
अनामितर्जनीन्युनशाखानां तु क्रमेण तु ॥३१५॥
अर्धार्धाङगुलहीनं स्यादंगुलं मध्यमार्धकम्।
मध्यमाङष्ठयोस्तारः सार्धमेकाङ्लं भवेत् ॥३१६॥
तर्जन्यनामयोरेकं कनीयस्यास्त्रिपादकम्।
सार्धांगुलं नखायामं तदर्धं विस्तृतिर्भदेत् ॥३१७॥
मकुटस्योच्छ्रयो विप्र! भवेदष्टादशांगुलः।
तन्मूलविस्तृतिर्विप्र! षोडशांगुलसम्मिता ॥३१८॥
ष्टकला मध्यतो ज्ञेया अग्रतस्त्रिकला भवेत्।
शिखामणेः समुच्छ्रायं कल्पयेत् सार्धमङ्लम् ॥३१९॥
विस्तारः स्यात् सपादस्तत्पक्षयाणं त्रितालकम्।
यद्वा पटावसानं स्याद्यथाशोभानुरूपतः ॥३२०॥
एकैकपक्षतिस्तारं त्र्यंगुलं त्र्यंगुलं भवेत्।
नागानामास्यदैर्घ्यं तु साधमेकाङ्गुलं भवेत् ॥३२१॥
तद्विस्तारोङगुलं विप्र! तत्सरोङगुलविस्तृतिः।
द्व्यंगुलं तदधस्तात् स्यात् वालमर्धांगुलं तथा ॥३२२॥
यथा क्रमेण हीनः स्यान्नागानां भोगविस्तरः।
अनन्तस्य प्रधानस्य दैर्घ्यं द्व्यंगुलसम्मितम् ॥३२३॥
तत्तारः सार्धमेकं स्याद्द्वयं तद्गलविस्तरः।
तदधो द्वितयं सार्धं शीर्षाणीतरनागवत् ॥३२४॥
वालाग्रमेकविस्तारं यथा स्यात् कल्पयेत् तथा।
नागाना भोगदैघ्यस्य मानं कुर्याद्यथारुचि ॥३२५॥
दैर्घ्यं विष्टरपझस्य पञ्चाशच्चतुरंगुलम्।
षड्गोलकस्तद्विस्तारः कर्णिकायाः समायतिः ॥३२६॥
एकविंशत् कलाःप्रोक्तास्तद्विस्तारस्त्रिगोलकः।
अन्यच्च वैनतेयस्य मानं यद्यत् प्रकल्पितम् ॥३२७॥
सुसमं यद्विभक्तव्यमष्टोत्तरशतांगुलम्।
प्राग्वत् तदंगुलं कृत्वा उन्मानाद्यं प्रकल्पयेत् ॥३२८॥
तदंगुलानुसारेण नागाद्यं चापि कल्पयेत्।
आद्यपक्षे तु नागाद्यं कुर्यादाद्यानुसारतः ॥३२९॥
पञ्चांगभूषणायुक्तं वस्त्रस्रग्गन्धवासितम्।
एवं सर्वं समापाद्य देशिकःसुसमाहितः ॥३३०॥
ध्वजारोहणनक्षत्रात् पूर्वेद्युश्च निशामुखे।
प्रयायात् कर्मशालां च सहितो मूर्तिधारकैः ॥३३१॥
लिखितं पटमालोक्य लक्षणं सुपरीक्ष्य च।
शंखदुन्दुभिनिर्घोषैः काहलध्वनिभिस्तथा ॥३३२॥
गीतैश्च विविधै रम्यैः श्रुतिघोषैः पृथग्विधैः।
सहध्वजपटं तस्मादानयेन्मुखमण्टपे ॥३३३॥
प्रविश्याभ्यन्तरं मूलविंबस्थं परमेश्वरम्।
अभिवाद्यार्घ्यगन्धाद्यैः पूजेयत् पुष्पधूपकैः ॥३३४॥
विसृज्य शिल्पिनं पश्चात् संप्रोक्ष्यार्ध्यांभसा पटम्।
सिद्धार्थकान्वितैः पुष्पैः ताडयेदस्त्रमन्त्रितैः ॥३३५॥
दर्शयेद्देवदेवस्य सम्मुखं साधकोत्तमः।
दहनाप्यायनं कुर्यात् विधिदृष्टेन कर्मणा ॥३२६॥
भूयोर्ध्यगन्धपुष्पाद्यैः प्रपूज्य परमेश्वरम्।
गिरोच्चया त्विमं मन्त्रं बद्धांजलिकरः पठेत् ॥३३७॥
"भगवन्! पुण्डरीकाक्ष! सर्वेश्वर! जगन्मय!।
त्वया यथा तु कथितं तथा कर्तुं न शक्यते ॥३३८॥
अस्वातन्त्र्यादसामर्थ्यात् श्रद्धादीनामभावतः।
तस्मान्मानादिसर्वेषां न्यूनाधिक्योपशान्तये ॥३३९॥
समालोकय नेत्राम्यां शीतलाभ्यां पटस्थितम्।
सर्वदोषापहारिभ्यां वैनतेयं प्रसीद ओम्" ॥३४०॥
दीक्षितानां ततो विप्र! हस्ते दत्वा तु तं पटम्।
चतुः प्रदक्षिणीकृत्य तेन सार्धं तु देशिकः ॥३४१॥
प्रथमावरणे वापि द्वितीयावरणेपि वा।
प्रविशेद्यजमानेन प्रासादाग्रस्थमण्डपम् ॥३४२॥
तत्र न्यस्त्वा भद्रफीठं तदूर्ध्वे शालितण्डुलैः।
वेदिं कृत्वा तु तत्पृष्ठे भद्राख्यं मण्डलं लिखेत् ॥३४३॥
विभवे सति वस्त्रं तु समास्तीर्य तदूर्ध्वतः।
तिलराशिं समुत्कीर्य तन्मध्ये स्वस्तिकं लिखेत् ॥३४४॥
तस्योपरिष्टात् संस्थाप्य प्रासादाभिमुखं पटम्।
उपविश्यासने पश्चादाचार्यः सुसमाहितः ॥३४५॥
करशुद्ध्यादि पूर्वोक्तं स्वदेहार्चनपश्चिमम्।
सर्वं खगेशमन्त्रेण सांगेन तु समाचरेत् ॥३४६॥
द्वार्स्थतोरणकुंभादियजनं प्राग्वदाचरेत्।
ततः पुण्याहघोषं तु कारयेत् पूर्ववद्द्विज! ॥३४७॥
गरुडस्याग्रतः प्राग्वत् कुम्भं करकसंयुतम्।
भारमात्रोपक्लृप्ते तु धान्यपीठे तु विन्यसेत् ॥३४८॥
जलद्रोण्यादिकं पात्रं गन्धतोयैः सुपूरितम्।
दक्षिणे करकस्याथ विनिवेश्य च तत्र तु ॥३४९॥
सद्यश्छायाचिवसनमाचरेद्गरुडस्य तु।
स्नपनानां पुरोक्तानां पूर्वस्मिन्नवके द्विज! ॥३५०॥
अधमाधममार्गेण स्नपनं तु समाचरेत्।
अग्रतो वैनतेयस्य वेदिकोपरि संस्थिते ॥३५१॥
दर्पणे तु, ततः पश्चान्मुहूर्ते शोभने गुरुः।
नयनोन्मीलनं कुर्यात् प्रागुक्तेनैव वर्त्मना ॥३५२॥
सर्वेषामपि सर्पाणां नेत्रोन्मीलनमाचरेत्।
प्राग्वत् संशुद्धदेहस्तु शिल्पी प्रकटतां नयेत् ॥३५३॥
सर्वं तु पूर्ववत् कुर्यान्नेत्रयोः पूरणादिकम्।
कुम्भे च करके चैव आसनं परिकल्प्य च ॥३५४॥
कुम्भे गरुडमावाह्य करके मन्त्रमस्त्रपम्।
पूजयित्वार्घ्यगन्धाद्यैस्ततो दिक्कलशाष्टकैः ॥३५५॥
इन्द्रादिलोकपालांस्तु प्रादक्षिण्येन पूज्य च।
भित्तिसंसेचनं कृत्वा भूयः संस्थाप्य तत्र तु ॥३५६॥
ततो ध्वजपटे प्राग्वदासनं परिकल्प्य च।
ततो गरुडमन्त्रं तु सहस्रादित्यभास्वरम् ॥३५७॥
सर्वरोगप्रशमनं सर्वोपद्रवनाशनम्।
सर्वसिद्धिप्रदं नॄणां सर्वदारिद्र्यनाशनम् ॥३५८॥
हृदयाद्रेच्य विप्रेन्द्र! पटस्थगरुडे न्यसेत्।
सकलीकरणं कृत्वा सन्निधिं च समाचरेत् ॥३५९॥
सन्निरोधं च साम्मुख्यं मुद्राबन्धं तथैव च।
लययागं भोगयागं यथावद्द्विजसत्तम! ॥३६०॥
सर्वं गरुडमन्त्रेण सांगेन तु समाचरेत्।
कुम्भे च करके चैव पटे च क्रमयोगतः ॥३६१॥
महता विभवेनैव पूजनं तु समाचरेत्।
अलंकारासनान्तं च यथोक्तेन क्रमेण तु ॥३६२॥
कृत्वा संपूजनं विप्र! गरुडस्य, ततः परम्।
प्रासादाभ्यन्तरे विप्र! देशिकानुमतेन तु ॥३६३॥
अन्येन गुरुणा यद्वा साधकेन विशेषवत्।
पूजनं कारयेत् सम्यङ्मूलमूर्तिगतस्य च ॥३६४॥
यात्रामूर्तिगतस्यापि विभोर्दानान्तमेव च।
स्नपनं गरुडस्थस्य विशेषार्चनपूर्वकम् ॥३६५॥
तत्परं वैनतेयस्य भोज्यासनपुरस्सरैः।
विविधैर्मधुपर्कान्तं हृद्यैः सकलमूलकैः ॥३६६॥
अन्नैरतिप्रभूतैश्च तथान्यैर्विविधैरपि।
भोगैरिष्ट्वा जपान्तं च पूर्ववत् क्रमयोगतः ॥३६७॥
संप्रदानं पृथक् कुर्यात् कारिभ्यस्तु यथाविधि।
मन्त्रास्त्रकुम्भयोर्दत्तमाचार्येभ्यो ददेत् ततः ॥३६८॥
पटस्थस्यापि नैवेद्यं किंचिदादाय पात्रगम्।
देशिकः स्वयमादद्याद् गुर्वादिभ्योपि वै ददेत् ॥३६९॥
मूलबिंबस्थितस्यापि यात्राबिंबस्थितस्य च।
देवस्य मधुपर्काद्यैर्नैवेद्यं विनिवेदितम् ॥३७०॥
दापयेद्देशिकादिब्यस्ततो होमं समाचरेत्।
कुण्डं सलक्षणं कृत्वा प्राग्भागे गरुडस्य तु ॥३७१॥
तत्रानलं च संस्कृत्य आवाह्य विहगेश्वरम्।
समिधां सप्तकं हुत्वा शान्त्यर्थं तु तिलैर्घृतैः ॥३७२॥
आहुत्यष्टोत्तरशतं हुत्वा पूर्णां निवेदयेत्।
यद्वा नैमित्तिके कुण्डे होमं कुर्यात्तु देशिकः ॥३७३॥
ततस्तु यजमानाय स्नानाद्यैः प्रयतात्मने।
गरुहस्य पटस्थस्य नैवेद्यं यन्निवेदितम् ॥३७४॥
तत्र किंचित् समादाय दत्वा वै देशिकः स्वयम्।
तत्तच्छिष्टं तु नैवेद्यं कृत्वा तु कबलं पृथक् ॥३७५॥
नारीणमप्रजानां तु नराणां रोगिणामपि।
दद्याद्गरुडमन्त्रं तु ध्यायमानः समाहितः ॥३७६॥
प्राङ्मुखं प्राशयित्वान्नं तत्तीर्थं त्वथ पाययेत्।
एवं कृत्वाधिवासं तु जागरेण नयेन्निशाम् ॥३७७॥
ततः प्रभाते सुस्नातस्वाचान्तो देशिकोत्तमः।
नित्यार्चनं विभोः कृत्वा विशेषयजनं तथा ॥३७८॥
वैनतेयं ततोऽभ्यर्च्य कुम्भपूर्वं यथाविधि।
महाहविर्निवेद्याथ होमं कृत्वा तु पूर्ववत् ॥३७९॥
ततश्चतुर्थावरणे अन्तरा गोपुरस्य तु।
चतुर्हस्तं द्विहस्तं वा ध्वजपीठं समन्ततः ॥३८०॥
सार्धहस्तोच्छ्रितं विप्र! हस्तोच्छ्रितमथापि वा।
शिलाभिरिष्टकाभिश्च पव्काबिर्वा यथारुचि ॥३८१॥
खातं कुर्यात्तु तन्मध्ये यावद्भूमितलं द्विज!।
तृतीयावरणे वापि बलिपीठाद्बहिर्द्विज! ॥३८२॥
द्वितीयावरणे वा तद्भवेत् कालानुरूपतः।
उत्तरे ध्वजपीठस्य पूर्वस्यां दिशि वा द्विज! ॥३८३॥
शाययेत्तु ध्वजस्तंभं ध्वजयष्टिसमन्वितम्।
पूर्वाग्रमुत्तराग्रं वा लक्षणाढ्यं सुशोभनम् ॥३८४॥
अन्तस्सारो बहिस्सारो निस्सारश्च त्रिधा भवेत्।
चंपको देवदारुश्च चन्दनः खदिरस्तथा ॥३८५॥
सालवृक्षश्च बिम्वश्च ककुभालकौ यथा।
इत्येवमादयो वृक्षा अन्तस्सारा उदाहृताः ॥३८६॥
क्रमुको नालिकेरश्च हिन्तालस्ताल एव च।
वेणुश्चापि बहिस्साराः प्रशस्ता ध्वजकर्मणि ॥३८७॥
किंशुकाद्यास्तु ये विप्र! निस्साराः समुदाहृताः।
निस्सारं वर्जयेत् स्तंभं सर्वदा ध्वजकर्मणि ॥३८८॥
आर्द्रं नवं ऋजुं स्निग्धं वक्रस्फोटनवर्जितम्।
अयुग्मपर्वकं शुद्धं सत्वचं सुस्थिरं द्विज! ॥३८९॥
ग्राहयित्वा ध्वजस्तम्भं शास्त्रदृष्ट्या परीक्षयेत्।
अशीतितालं मुख्यं स्यान्मध्यमं षष्टितालकम् ॥३९०॥
पञ्चाशत्तालमधमं पञ्चतालाधिकं तु वै।
मद्यमोत्तममुद्दिष्टं पञ्चाशत्तालसम्मितम् ॥३९१॥
पञ्चतालविहीनं तद्भवेन्मध्यममध्यमम्।
मध्यमाधममुद्दिष्टं द्विंविंशत्तालसभ्मितम् ॥३९२॥
सप्तत्रिंशच्च तालानां पञ्चत्रिंशत्तथैव च।
द्वात्रिंशच्च त्रयं विप्र! अधमोत्तमपूर्वकम् ॥३९३॥
मात्रांगुलवशेनात्र प्रमाणपरिकल्पनम्।
संभवे सति विप्रेन्द्र! शततालं प्रकल्पयेत् ॥३९४॥
अन्यच्च नवभेदं तु प्रमाणमधुनोच्यते।
कराणां पञ्चविंशच्च त्रयोविंशत्तथैव च ॥३९५॥
एकविंशच्च विंशच्च तदेकोनं च सत्तम!
अष्टादश ततोन्यच्च तथा षोडशकं द्विज ॥३९६॥
त्रिपञ्च च क्रमेणैव नवकं परिकीर्तितम्।
मानांगुलेन मानं स्यात् त्रिविधेन यथावलम् ॥३९७॥
तदभावे तु मानं स्यादत्र मात्रांगुलेन वा।
प्रासादशिखराग्रोच्चं प्रासादोच्चमथापि वा ॥३९८॥
कण्ठोच्चं गोपुरोच्चं वा यथावित्तानुरूपतः।
ध्वजस्तंभस्य मूलान्तु नाहं तु नवधा भवेत् ॥३९९॥
मूले द्वादशतालं तु नवतालं तु सप्तकम्।
तन्मध्ये षष्ठतालं तु पञ्चतालं तथा भवेत् ॥४००॥
तदग्रं पञ्चतालं तु चतुस्तालं द्वितालकम्।
द्वादशांगुलमानेन नाहमष्टांगुलं भवेत् ॥४०१॥
चतुर्विंशद्दशगुणं स्नंभनाहन वै दृढम्।
त्रिधा विभज्य तत् स्तंभं त्रिधा कृत्वा तृतीयकम् ॥४०२॥
अधोभागे ह्यधस्ताच्च मध्यभागे तु मध्यतः।
अग्रतो हयूर्ध्वभागे तु यज्ञकाष्ठविनिर्मितम् ॥४०३॥
मसूग्कत्रयं कृत्वा सुषिरत्रयसंयुतम्।
दण्डयष्टिनिवेशार्थं सुवृत्तं पार्श्वयोर्द्विज! ॥४०४॥
फैणकाहस्तमानाच्च द्विनवांगुलिविस्तृताः।
मूलदेशेग्रदेशे तु चतुरंगुलविस्तृताः ॥४०५॥
द्वितालं सार्धतालं तु एकतालं तु वा द्विज!।
त्यक्त्वा स्तंभाग्रतो विप्र! न्यसेदग्रमसूरकम् ॥४०६॥
अन्यद्द्वयं समुदिते स्थाने सम्यङ्निवेश्य च।
यद्वा स्तंभाग्रतः प्राग्वन्न्यसेदूर्ध्वमसूरकम् ॥४०७॥
अधो हस्तद्वयं सार्धं त्यक्त्वा मध्यमसूरकम्।
तदधस्तु तथा त्यक्त्वा न्यसेदन्यमसूरकम् ॥४०८॥
एवं तालत्रयं त्यक्त्वा ततस्तस्मिन्निवेशयेत्।
ध्वजयष्टिं दृढां ऋज्वीं लोहयन्त्रसमन्विताम् ॥४०९॥
वेष्टयेद्दर्भमालाभिर्ध्वजदण्डं प्रदक्षिणम्।
एवं कृत्वा ध्वजस्तम्भं प्रोक्षयेदस्त्रवारिणा ॥४१०॥
ध्वजपीठस्थिते गर्ते रत्नधान्यानि निक्षिपेत्।
देशिकस्तार्क्ष्यमन्त्रेण ततो ब्राह्नणसत्तमैः ॥४११॥
शूद्रैर्वा दीक्षितैर्विप्र! देवदासैरथापि वा।
शंखभेर्यादिनिर्धोषगीतवादित्रसंयुतम् ॥४१२॥
स्थापयेत्तु ध्वजस्तंभं तस्मिन् गर्ते ऋजुस्थितम्।
प्रासादाभिमुखं स्थाप्य वालुकाभिश्च पूरयेत् ॥४१३॥
हस्तिपादादिभिः कृत्वा सुदृढं च यथा भवेत्।
यद्वा रजन्यां पूर्वस्यां कृत्वा स्तंभाधिवासनम् ॥४१४॥
अद्यत्वे स्थापयेत् पश्चाद गत्वा गरुडसन्निधिम्।
रथे वा कुंजरे याने ध्वजमारोप्य यत्नतः ॥४१५॥
प्रभया चित्रकुसुमैः कृतया भूषयेद् ध्वजम्।
वासोविभूषणैः स्रग्भिर्विचित्राभिश्च पूजयेत् ॥४१६॥
च्छत्रचामरपूर्वैश्च मायूरव्यजनैस्ततः।
विचित्रैस्तालबन्तश्चै आतपत्रैर्मनोहरैः ॥४१७॥
केतुदण्डेर्विचित्रैश्च दुकूलपटशोभितैः।
चतुर्वेदमयोद्धोषैः स्तोत्रघोषसमन्वितैः ॥४१८॥
गीतकैर्विविधैर्वाद्यैः शंखकाहलनिःस्वनैः।
भेरीमृदङ्गपूर्वाणां धोषैरन्यैश्च मंगलैः ॥४१९॥
ब्राह्नणैर्ध्रियमाणैश्च सांकुरैः पालिकागणैः।
सुवेषगणिकासंधैस्तथा भक्तजनैः सह ॥४२०॥
क्ष्वेलितास्फोटितैर्युक्तं जयशब्दसमन्वितम्।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥४२१॥
भ्रामयित्वा क्रमेणैव सर्वाण्यावरणानि च।
ग्रामं प्रदक्षिणं नीत्वा ग्राममध्ये स्थितो ध्वजम् ॥४२२॥
श्रावयेच्चतुरो वेदान् सेतिहासपुराणकान्।
सौपर्यणर्माप वै सूक्तं तत्र संदर्शयेत् पुनः ॥४२३॥
गेयं नृत्तं च वाद्यं च आतोद्यं च चतुर्विधम्।
उपहारांश्च माल्यादीन् ताम्बूलान् विनिवेद्य च ॥४२४॥
ततः प्रवेशयेद्विप्र! प्रासादं गरुडध्वजम्।
अंकुरार्पणपूर्वे तु उत्सवे द्विजसत्तम! ॥४२५॥
गरुडस्य पटस्थस्य पश्चाद्भागे यथाविधि।
तद्रात्रौ बलिसंयुक्तं यात्राबिंबं परिभ्रमेत् ॥४२६॥
साधनादेरसंपत्तेः पृथङनेतुमशक्यतः।
तत्रापि सति योग्यत्वे पृथगेव परिभ्रमेत् ॥४२७॥
अन्यत्र केवलं विप्र! ध्जमेव नयेत् सदा।
पत्तने नगरे वापि बलिभ्रमणसंयुतः ॥४२८॥
उत्सवो विहितो यत्र तत्र वै गरुडध्वजम्।
भ्रामयेद्द्वितये तस्मिन् यात्राबिंबसमन्वितम् ॥४२९॥
तन्मात्राणां योग्यतायै पवित्रीकरणाय च।
ग्रामे तेन च वै सार्धं भ्रामयेद्बिंबमौत्सवम् ॥४३०॥
एवं प्रदक्षिणं नीत्वा धाम ग्रामादिकं तथा।
ध्वजं तु मण्डपे स्थाप्य न कृतं यदि पूर्वतः ॥४३१॥
स्थापनं ध्वजदण्डस्य स्थापयित्वा तु तत्तदा।
प्रासादं संप्रविश्याथ यात्राबिंबं वियेषतः ॥४३२॥
विचित्रैर्वसनै रम्यैः भूषणैर्विविधैरपि।
माल्यैश्च विविधै रम्यैरलंकृत्य ततः परम् ॥४३३॥
शिबिकादौ समारोप्य सर्वसाधनसंयुतम्।
?Bआस्थानमण्डपे नीत्वा ध्वजपीठस्य सम्मुखम् ॥४३४॥
सौवर्णे विष्टरे रम्ये तल्पाद्यंगोपशोभिते।
विचित्रेण वितानेन उपरिष्टाद्विभूषिते ॥४३५॥
सन्निवेश्य ततः पश्चादाचार्यः सुसमाहितः।
साधकाद्यैः परिवृतो ह्यादाय गरुडध्वजम् ॥४३६॥
सह शंखनिनादाद्यैः प्रादक्षिण्येन योगतः।
ध्वजपीठे समानीय स्तंभं प्रक्षाल्य सज्जलैः ॥४३७॥
विभवे सति वस्त्रेण संवेष्ट्य ध्वजदण्डकम्।
गरुडं पूजयित्वा तु पुष्पांजलिपुरस्सरम् ॥४३८॥
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम्।
अपूपान् पृथुकांश्चापि पानकं तर्पणं तथा ॥४३९॥
नालिकेरजलैर्युक्तमाचामं तदनन्तरम्।
कर्पूरादिसमोपेतं दत्वा ताम्बूलमुत्तमम् ॥४४०॥
तन्मुद्रां दर्शयित्वा तु रज्जुमादाय वै दृढाम्।
त्रिबृत्कृतैस्तु कार्पाससूत्रैरतिदृढैः कृताम् ॥४४१॥
यष्ट्यग्रसंस्थिते यन्त्रे योजयित्वा तया ततः।
ध्वजस्य शिखरं विप्र! बन्धयेत् सुदृढं यथा ॥४४२॥
बालध्वजेन सहितं घण्टया च समन्वितम्।
पुण्याहं वाचयित्वा तु संप्रोक्ष्यास्त्रोदकेन तु ॥४४३॥
महाकुम्भस्थतोयेन संप्रोक्ष्य गरुडं ततः।
महाकुम्भस्थगरुडं पटस्थे तु निवेशयेत् ॥४४४॥
स्तम्भमूले समुत्कीर्य सास्त्रकुम्भजलं ततः।
कलशाष्टकतोयं च स्तम्भमूले विनिक्षिपेत् ॥४४५॥
आचर्य मन्त्रन्यासं तु पुष्पांजलिपुरस्सरम्।
सन्निधिं सन्निरोधं च साम्मुख्यं च समाचरेत् ॥४४६॥
"अस्माद्दिनात् समारम्य यावत्तीर्थदिनान्तिमम्।
सन्निधिं कुरु पक्षीन्द्र! राज्ञो जनपदस्य च ॥४४७॥
ग्रामस्य यजमानस्य वैष्णवानां विशेषतः।
तुष्टये पुष्टये चैव सर्वशत्रुजयाय च ॥४४८॥
त्र्प्रपमृत्युजयार्थं च विहगेश! प्रसीद ओम्।"
इति विज्ञाप्य पक्षीन्द्रं विकिरेते कुसुमांजलिम् ॥४४९॥
पूर्वाह्ने वाथ मध्माह्ने मुहूर्ते शोभने गुरुः।
रज्जुनारोहयेद्वीशं ध्वजस्थमनुचिन्तयन् ॥४५०॥
रज्जुं च बन्धयेत् स्तंभे प्रादक्षिण्यक्रमेण तु।
प्रासादाभिमुखं स्तम्भे स्थापयेद्गरुडध्वजम् ॥४५१॥
विहगेश्वरबिंबं च स्तम्भाग्रे योजयेन्न वा।
सन्निधौ देवदेवस्य गत्वा पुष्पांजलिं क्षिपेत् ॥४५२॥
"ज्ञानतोऽज्ञानतो वापि यथोक्तं न कृतं मया।
तत् सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ॥४५३॥
ओमच्युतक्ष! जगन्नाथ! मन्त्रमूर्ते! जनार्दन!।
रक्ष मां पुण्डरीकाक्ष! क्षमस्वाज! प्रसीद ओम्" ॥४५४॥
इति विज्ञाप्य देवेशं यात्रामूर्तिगतं विभुम्।
अन्यत्र मण्डपे नीत्वा विशेषार्चनपूर्वकम् ॥४५५॥
प्रभूतान्नं निवेद्याथ सर्वं हवनपश्चिमम्।
कृत्वा यथाक्रमेणैव प्रासादं तु प्रवेशयेत् ॥४५६॥
ध्वजपीठोपरिष्टात्तु स्तंभमूले प्रकल्पयेत्।
अष्टपत्रं तु कमलं चतुरावरणान्वितम् ॥४५७॥
सकर्णिकं यथा स्तम्भः कर्णिकास्थो विराजते।
चतुरंगुलविस्तारास्तावन्मानेन चोन्नताः ॥४५८॥
कर्तव्या मेखलाः सर्वाश्चतुरश्रा द्विजोत्तम!।
स्तंभमानं विना पझं ष़डंगुलसमन्वितम् ॥४५९॥
तावद्विस्तारसंयुक्तं मेखलोपरि विन्यसेत्।
पीठोर्ध्वे तु प्रपां कुर्यात् चतुस्तंभसमन्विताम् ॥४६०॥
यद्वा स्तंभाष्टकोपेतां षोडशस्तंभसंयुताम्।
चतुस्तोरण संयुक्तां दर्भमालापरिष्कृताम् ॥४६१॥
भूषितां तु पताकाद्यैर्बाह्ये यवनिकान्विताम्।
दीपान् प्रदीपयेत्तत्र अनिर्वाणान् समन्ततः ॥४६२॥
तद्वासरात् समारभ्य पुष्पयागादिनान्तिमम्।
त्रिसन्ध्यमर्चनं कुर्यात् सविशेषं जपान्तिमम् ॥४६३॥
उत्सवारम्भदिवसात् त्रिसप्तदिनमाचरेत्।
पूजालोपो न कर्तव्यो द्विगुणीकृत्य आचरेत् ॥४६४॥
बलिकाले बलिं दद्यादस्यापि प्रतिवासरम्।
प्रदोषे समनुप्राप्ते यात्रबिंबगर्त विभुम् ॥४६५॥
अलंकृत्य यथान्यायं नयेदास्थानमण्टपम्।
भद्रासने समारोप्य विभवेन तु पूर्ववत् ॥४६६॥
कृत्वा होमावसानं तु भेरीताडनमाचरेत्।
अग्रतस्तु विभोः स्थाप्य भेरीं वै धान्यविष्टरे ॥४६७॥
तत्पूर्वे शंखनिकरं वह्नौ काहलसंचयम्।
याम्ये तु मद्दलं तन्त्रीं वंशयुक्तां तु यातुदिक् ॥४६८॥
वारुण्यां तु मृदंगं च डुड्डुकसंयुतम्।
वायव्ये झल्लरीं न्यस्य कांस्यतालसमन्विताम् ॥४६९॥
पटहं ह्रस्वपटहं सोमे डुड्डुकसंयुतम्।
एशान्यां डुड्डुकां झल्लीं हस्तद्यंटासमन्वितात् ॥४७०॥
तेषां बाह्ये तु विप्रेन्द्र! दक्षिणे गणिकाजनम्।
न्यसेन्मंगलगानार्थं तत्पाश्वे मन्त्रगायकान् ॥४७१॥
नर्तकानग्रतः स्थाप्य उत्तरे वन्दिबृन्दकान्।
स्वे स्वे स्थानेषु संस्थाप्य अन्यान् वै वाद्यकोविदान् ॥४७२॥
एवं क्रमेण संस्थाप्य संभवानुगुणं द्विज!।
वाससा वेष्टयेद्वापि भेरीं वित्तानुरूपतः ॥४७३॥
शब्दविग्रहमाकाशं भेर्यां संस्मृत्य पूजयेत्।
कोणं तद्दाक्षिणे स्थाप्य वायुं तत्र सुपूजयेत् ॥४७४॥
ततः पारशवं स्नानं दर्भपाणिमलंकृतम्।
उपवीतादिसंयुक्तं अग्रतःस्थाप्य वीक्षयेत् ॥४७५॥
अस्त्रेण प्रोक्षयेत् पश्चादर्घ्यतोयेन तत्परम्।
तेनैव ताडयेद्बैरीं गीतनृत्तपुरस्सरम् ॥४७६॥
शंखवाद्यादि संयुक्तं मथवा देशिकः स्वयम्।
मुहूर्ते शोभने प्राप्ते ताडयित्वा तु बेरिकाम् ॥४७७॥
कोणेन प्रथमं ध्यायन् हयग्रीवं जनार्दनम्।
त्रिस्थानादिषु देवानां त्रिधा वै तेन ताडयेत् ॥४७८॥
ततः पारशवेनैव ताडयेत्तु यथेच्छया।
देवतावाहनीं गाधां संस्कृतां प्राकृतां तु वा ॥४७९॥
द्रामिडीं वा यथेच्छातस्तदा संश्रावयेद्विभुम्।
तत्काले देवतानृत्तं तत्तद्गीतादिसंयुतम् ॥४८०॥
दर्शयेद्देवदेवस्य देवतानां सुतृप्तये।
ततस्तु देवदेवेशं गर्भगेहे प्रवेशयेत् ॥४८१॥
पायसं द्रोणमानं तु समादायाथ पात्रतः।
तथार्घ्यगन्धमाल्यादि धूपं तांबूलमेव च ॥४८२॥
प्रासादद्वारमारभ्य बहिर्द्वारावसानकम्।
आवृतिष्वपि सर्वासु वीथ्यावरणपश्चिमम् ॥४८३॥
बलिं प्रदाय विधिना गीतनृत्तादिसंयुतम्।
ततः प्रविश्य ग्रामं तु पूर्वस्यां दिशि संस्थितः ॥४८४॥
देवतावाहनं कुर्यात् प्राङ्मुखो देशिकः स्वयम्।
तत्पुत्रस्तस्य शिष्यो वा स्वरेणोच्चतरेण तु ॥४८५॥
"आगच्छतामरगणाः! प्रागाशां येऽधिशेरते।
विरूपाश्च सुरूपाश्च सपर्यामुद्यतामिमाम् ॥४८६॥
गृहीत्वा पान्तु नस्तृप्ताः कुमुदस्यानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥४८७॥"
अनेन मन्त्रेणावाह्य कुमुदं सगणं ततः।
अर्घ्यालेपनमाल्यादि धूपं तोयं यथाक्रमम् ॥४८८॥
पायसान्नं पुनस्तोयं ताम्बूलं च प्रदापयेत्।
पश्चात् संतोषयेद्रम्यैर्महद्भिः शङ्खजै रवैः ॥४८९॥
तदीयतालसङ्गीतनृत्तैश्चापि, ततः परम्।
"आगच्छतामरगणाः! येऽग्न्याशामधिशेरते ॥४९०॥
भीमाभीममुखा रौद्राः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ताः कुमुदाक्षानुयानिनः ॥४९१॥
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।"
अनेन कुमुदाक्षं तु समाबाह्य गणाधिपम् ॥४९२॥
प्राग्वत् सन्तोषयित्वा तु, ततः संप्राप्य याम्यदिक्।
"आगच्छत पितृगणाः! याम्याशानधिशेरते ॥४९३॥
दारुणाऽदारुणाचाराः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ताः पुण्डरीकानुयायिनः ॥४९४॥
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।"
अनेन पुण्डरीकाख्यं समावाह्य गणेश्वरम् ॥४९५॥
क्रमेण पूजयित्वा तु गत्वा वै यातुधानदिक्।
"आगच्छत यातुगणाः! यात्वाशां येधिशेरते ॥४९६॥
क्रव्याशिनः क्रूरधियः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ता वामनस्यानुयायिनः ॥४९७॥
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।"
इत्यावाह्य गणेशं तु वामनं पूजयेत् क्रमात् ॥४९८॥
वारुणाशां ततो गत्वा शंकुकर्णं गणेश्वरम्।
"आगच्छताऽहिप्रथमाः! प्रतीचीं येऽधिशेरते ॥४९९॥
महद्विषा दन्दशूकाः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ताः शंकुकर्णानुयायिनः ॥५००॥
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।"
इत्यावाह्य यजेत् प्राग्वत्, पश्चात् संप्राप्य वायुदिक ॥५०१॥
"आयान्तु गन्धर्वगणाः! वाय्वाशां येऽधिशेरते।
सुदर्शना भीमवेगाः सपर्यामुद्यतामिमाम् ॥५०२॥
गृहीत्वा पान्तु नस्तृप्ताः स(र्प)र्वनेत्रानुयायिनः।
महमिममुपयातु प्रीतास्तेब्यो नमोऽस्तु वः ॥५०३॥
अनेनावाह्य सगणं सर्वनेत्रं तु तोषयेत्।
ततःसोमदिशं गत्वा सुमुखं तु गणाधिपम् ॥५०४॥
"आगच्छत यक्षगणाः! उदीचीं येऽधिशेरते।
विरूपा दण्डहस्ताश्च सपर्यामुद्यतामिमाम् ॥५०५॥
गृहीत्वा पान्तु नस्तृप्ताः सुमुखस्यानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥५०६॥
इति मन्त्रेण चावाह्य तोषयेत् पूर्ववर्त्मना।
ततस्त्वीशदिशं गत्वा गणेशं सुप्रतिष्ठितम् ॥५०७॥
आयान्तु पिशाचगणाः! ईशाशां येऽधिशेरते।
सशूलायुधहस्ताश्च सपर्यामुद्यतामिमाम् ॥५०८॥
गृहीत्वा पान्तु नस्तृप्ताः सुप्रतिष्ठानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥५०९॥
मन्त्रेणावाह्य संपूज्य गत्वा वै ग्राममध्यतः।
तत्र चावाहयेदूर्ध्वं पृश्निगर्भं गणेश्वरम् ॥५१०॥
आगच्छत सिद्धगणाः! गगनं येऽधिशेरते।
शुचिमतयः शुचयः सपर्यामुद्यतामिमाम् ॥५११॥
गृहीत्वा पान्तु नस्तृप्ताः पृश्निगर्भानुयायिनः।
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥५१२॥
आवाह्य तोषयित्वा तु, अथस्तान्मानवं ततः।
आगच्छताधरगणाः! पृथिवीं येऽधिशेरते ॥५१३॥
बहुरूपा बहुज्ञानाः सपर्यामुद्यतामिमाम्।
गृहीत्वा पान्तु नस्तृप्ता मानवस्यानुयायिनः ॥५१४॥
महमिममुपयान्तु प्रीतास्तेभ्यो नमोऽस्तु वः।
आवाह्य तोषयेत् प्राग्वत् क्रमान्नृत्तावसानकम् ॥५१५॥
तृप्तये सर्वभूतानां बलिशेषं ततः क्षिपेत्।
बलिदाने तु पूर्वादिवैबस्वतदिगन्तिमम् ॥५१६॥
आचार्यः प्राङ्मुखः स्थित्वा कुर्यादावाहनादिकम्।
यात्वादिदिक्त्रये कुर्यात् पूर्वोदितमुदङ्मुखः ॥५१७॥
सोमेशदिग्द्वये ग्राममध्येपि प्राङ्मुखो भवेत्।
समतालस्तथाबद्धस्तालो वै भृङ्गिणी तथा ॥५१८॥
मल्लतालो मंगलश्च जयतालस्तु भद्रकः।
ढक्करीसंज्ञितस्तालो ब्रह्नतालस्तथैव च ॥५१९॥
अनन्तताल इत्यते दश तालाः प्रकीर्तिताः।
कुमुदादिगणेशानां दशानां क्रमशो द्विज! ॥५२०॥
षडजर्षभौ च गान्धारौ मध्यमः पञ्चमस्तथा।
धैवतश्चैव निषदो धैवतो मद्यमस्तथा ॥५२१॥
पञ्चमश्च क्रमेणैव कथिताः स्युर्दश स्वराः।
गान्धाररागः कौलयाख्यः कैशिको नट्टभाषिकः ॥५२२॥
श्रीकामदश्च तत्केशी दक्षरागस्तथैव च।
चोलापाण्यभिधो रागौ मेधरागश्च पश्चिमः ॥५२३॥
इत्येते कुमुदादीनां दश रागाः प्रकीर्तिताः।
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ॥५२४॥
कान्तारकुट्टिमं पृष्ठकुट्टिमं कटिबन्धनम्।
वामजानूध्वनत्तं च आदिमं च द्वयं पुनः ॥५२५॥
एते नृत्तविशेषाश्च कुमुदानां क्रमात् स्मृताः।
एते ह्यावृतिदेवानां क्रमात्तालादयः स्मृताः ॥५२६॥
अन्येषां सर्वदेवानां तालो भद्रः प्रशस्यते।
भवेद्गारूडतालस्तु पक्षीशस्य तु, मध्यमः ॥५२७॥
स्वरो, रागस्तु गोडः स्यान्नृत्तं वै विष्णुकान्तकम्।
विघ्नारेर्जयतालं स्यान्नृत्तं स्वस्तिकमुच्यते ॥५२८॥
ऋषभस्तु स्वरः प्रोक्तो वराटीराग एव च।
भेरीताडनपूर्वं तु देवतावाहनं चरेत् ॥५२९॥
घोषयेद्गारुडं तालमन्तराले तु वै दिशाम्।
तत्काले देशिकेन्द्रेण स्वयं संस्कृतगाधया ॥५३०॥
अन्ये चतुर्मुखमुखा आङूतव्या मरुद्गुणाः।
देवस्योत्सवसेवार्थं तथान्ये भगवद्गणाः ॥५३१॥
तथान्ये भगवद्भक्ता जनास्तत्पदवासिनः।
यद्वा गुरोरनुमतैर्भगवद्भक्तिबृहितैः ॥५३२॥
आहूतव्यास्तु तैर्विप्रैर्दिव्यया गाधया द्विज!।
एवं ग्रामं परिभ्राम्य प्रासादं संप्रविश्य तु ॥५३३॥
गरुडस्थानमासाद्य तोषयित्वा खगघ्वजम्।
तालादिकैस्ततस्त्वेनं विष्वक्सेनं तु तोषयेत् ॥५३४॥
देवतावाहनं येऽत्र द्रष्टुकामाः समाहिताः।
भेरीताडनशब्दं च तथा श्रृण्वन्ति ये जनाः ॥५३५॥
तद्देशात्ते न गच्छेयुर्यावत्तीर्थदिनान्तिमम्।
मोहेन यदि गच्छेयुस्ते भविष्यन्ति रोगिणः ॥५३६॥
न कुर्युस्ते नदीतारं न यानं योजनात् परम्।
याताश्चेत् पुनरागसत्य गरुडं संप्रपूज्य तु ॥५३७॥
तीर्थयात्रां तु संसेव्य ते भविष्यन्ति नीरुजः।
एवं तु ध्वजमुत्थाप्य गुरुः पश्चात् समाहितः ॥५३८॥
देवानां केशवादीनां मन्त्रैर्द्वादशभिः क्रमात्।
द्वादशाहं व्रतं कुर्यात् यात्रारंभदिनादितः ॥५३९॥
स्नानार्चनादिकं कृत्वा पीत्वा तच्चरणोदकम्।
कुशोदकसमायुक्तं जपेद्वै द्वादशाक्षरम् ॥५४०॥
नैवेद्यप्राशनं पूर्वं कुर्यान्नक्ताशनं द्विज!।
जपेद्द्वादशनामानि क्रमाद्वाच्यमनुस्मरन् ॥५४१॥
अंकुरारोपणदिनाद्यावत्तु ध्वजवासरम्।
दिनषट्केन विप्रेन्द्र! प्रत्यहं व्रतमाचरेत् ॥५४२॥
द्वादशाक्षरमन्त्रेण कुर्यादंकुरवासरे।
द्वितीये तुर्यमन्त्रेण, परे सुषुप्तिवाचकैः ॥५४३॥
स्वप्नमन्त्रैश्चतुर्थे तु, जाग्रन्मत्रैस्तु पञ्चमे।
केशवादिषु योनीनां मूर्तीनां वाचकैः परैः ॥५४४॥
उत्सवारम्भणदिनाद्यावत्तीर्थदिनान्तिमम्।
वाचकैर्नवमूर्तींनां नवाहं व्रतमाचरेत् ॥५४५॥
यद्वा द्विषट्कमन्त्रेण सर्वत्रापि व्रतं चरेत्।
ध्वजार्थांकुरनक्षत्राद्यावत्तीर्थदिनान्तिमम् ॥५४६॥
एवं व्रतसमायुक्त आचार्यः कृत्यमाचरेत्।
संकल्प्योत्सवमादौ तु व्रतसंकल्पपूर्वकम् ॥५४७॥
ध्वजार्थमंकुरारोपं कुर्याद्यो देशिकोत्तमः।
कुर्याद्ध्वजावरोहान्तं सर्वं सर्म स एव तु ॥५४८॥
प्राज्ञोपि नेतरः कुर्यात्; यदि, कर्ता विनश्यति।
मृते वा व्याधिते तस्मिन् तदनुज्ञामवाप्य च ॥५४९॥
नित्यानुष्टानलोपाच्च वैधुर्यादिविदूपिते।
अभ्यनुझां गुरोस्तस्य संप्राप्य विधिपूर्वकम् ॥५५०॥
शेषं कुर्यात्तु तत्पुत्रस्तच्छिष्यो वा समाहितः।
अन्यो वा यदि वा भ्राता प्रायश्चित्तपुरस्सरम् ॥५५१॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्डे देवतावाहनान्तविधानं नाम षोडशोऽध्यायः॥