परमेश्वरसंहिता - नवमोऽध्यायः

परमेश्वरसंहिता


शाण्डिल्यः ---
एवं कालत्रये कुर्यात् पूजनं मन्त्रवित्तमः।
न च कालत्रयान्न्यूनं पूजनं विहितं सदा ॥१॥
प्रासादेषु स्वयंव्यक्तपूर्वेषु द्विजसत्तम!।
कालत्रयं प्रधानं स्यात्तदूर्ध्वं कर्तुरिच्छया ॥२॥
विभवापेक्षया चैव वर्धयेत यथाक्रमम्।
याव?Rद्‌द्वादशमः कालस्तावद्वै मुनिपु?Rङ्गव! ॥३॥
श्रेष्ठः प्रबातकालः स्यात् त्रिषु कालेषु वै पुनः।
यथावन्मन्त्रविन्यासमात्मनः करदेहयोः ॥४॥
हृद्यागं स्थानसंशुद्धिं सायामां भौतिकीं ततः।
नित्यं प्राभातिके कुर्यादन्यत्रेच्छानुरूपतः ॥५॥
स्नपनं बलिदानं च कुर्यात् कालत्रये सदा।
मूर्तेरासनपूजा तु कार्या कालचतुष्टये ॥६॥
पञ्चकाले भवेन्न्यासः षट्‌काले हवनक्रिया।
अत ऊर्ध्वेषु कालेषु जपान्तं पूजनं भवेत् ॥७॥
अलङ्कारासनाद्यं च पूर्ववत् क्रमयोगतः।
विनोक्तेन प्रकारेण ह्यन्यथा न समाचरेत् ॥८॥
मुख्यकल्पे तु होमान्ता नित्यनैमित्तिकात्मकाः।
पूजाः क्रमेण वै कुर्यात् तत्तद्धोमावसानिकाः ॥९॥
अनुकल्पे तु जप्यान्तं यागानन्तरितेषु वै।
यागेषु हवनान्तेषु नित्यनैमित्तिकादिषु ॥१०॥
तत्तद्यागं जपान्तं च क्रमात् कृत्वा ततः परम्।
तत्तद्धोमान् मुनिश्रेष्ठ! क्रमात् कुर्याद्यथाविधि ॥११॥
अनुकल्पेषु यागेषु ह्युपकालोदितेषु वै।
आसनार्घ्ये ततऋ पाद्यमाचामं सप्रतिग्रहम् ॥१२॥
गन्धं माल्यं तथा दीपं धूपं मात्रां क्रमेण तु।
दत्वा भोज्यावसानं तु क्रमाद्दद्याद्विधानतः ॥१३॥
अथ द्वादशकालादि यावत् कालत्रयं द्विज!।
नाडिकानां विभागं तु क्रमेणैवावधारय ॥१४॥
ब्राह्नान्मुहूर्तादारभ्य सपादं घटिकाद्वयम्।
निर्वर्त्य नित्यकर्म प्राक्‌ स्नानपूर्वं यथाविधि ॥१५॥
सपादैकोत्तरा नाड्यो दश प्राभातिकेऽर्चने।
ततो नाडीचतुष्कं तु भवेद्यागद्वयस्य तु ॥१६॥
ततस्त्वर्धोत्तरा नाड्यस्तिस्रः स्युस्स्वान्हिकस्य तु।
पश्चादर्धोत्तराः सप्त नाड्यो मध्यन्दिनार्चने ॥१७॥
भूयस्तु घटिकायुग्मं यागस्य द्विजसत्तम!।
ततोऽपराह्णयागस्य भवेत्तु घटिकात्रयम् ॥१८॥
स्वाध्यायस्य भवेत् कालस्ततस्तु घटिकाद्वयम्।
अर्धोत्तरा भवेन्नाडी स्वस्य सायन्तनी क्रिया ॥१९॥
ततः प्रदोषयागस्य सार्धाः सप्त च नाडिकाः।
ततो यागद्वयं कुर्याद्धटिकानां चतुष्टये ॥२०॥
पश्चान्निशीथयागस्य भवेद्वै नाडिकात्रयम्।
भूयस्तु पूजनं विप्र! कुर्याद्वै घटिकाद्वये ॥२१॥
ततस्तु प्रत्युषो यागः सार्धं स्यान्नाडिकाद्वयम्।
योगपूर्वं तु विश्रामश्चतस्रो नाडिकास्ततः ॥२२॥
यत्र द्वादशकालेज्या तत्रायं कालनिर्णयः।
यत्रैकादशकालेज्या तत्रायं क्रम उच्यते ॥२३॥
निशीथयजनादूर्ध्वं प्रत्युषः पूजनं भवेत्।
यद्वा प्रादोषिकादूर्ध्वं कालमेकं विलोपयेत् ॥२४॥
विश्रामस्य भवेत् कालो नाडीनां षट्‌कमेव च।
यदा तु दशकालेषु पूजनं विहितं तदा ॥२५॥
मध्याह्नपूजनादूर्ध्वमपराह्णार्चनं भवेत्।
तथा मध्याह्णपूजायाः सार्धास्तु नव नाडिकाः ॥२६॥
यत्र कालेषु नवसु पूजनं विहितं तदा।
निशीथपूजनात् पूर्वमेकं यागं तु लोपयेत् ॥२७॥
दश नाड्योऽर्धहीनाः स्युस्तदा प्रादोषिकेऽर्चने।
यत्र कालाष्टके यागा विहिता द्विजसत्तम! ॥२८॥
तदा प्राभादिकादूर्ध्वमेकं यागं विलोपयेत्।
तदा प्राभातिके यागे सांशा नाड्यस्त्रयोदश ॥२९॥
यजनं सप्तकालेषु यदा स्याद्‌द्विजसत्तम!।
प्रदोषश्च निशीथस्च प्रत्यूषश्च तथा निशि ॥३०॥
निशीथस्य भवेत् कालश्चतस्रो नाडिकास्तदा।
अर्धहीनाश्चतस्रस्तु घटिकाश्चरमस्य तु ॥३१॥
यत्र वै कालषट्‌के तु पूजनं विहितं तदा।
पूर्वमध्यापराह्णास्तु दिवाकालास्त्रयः स्मृताः ॥३२॥
स्वस्य प्राभातकृत्यस्य सांशं नाडीत्रयं तदा।
सार्धाश्चतस्रो नाड्यस्तु स्वस्य मध्यन्दिनस्य तु ॥३३॥
प्रातराद्या निशीथान्ताः पञ्चकाला उदाहृताः।
तदा शिष्टास्तु घटिका योगविश्रामयोः स्मृताः ॥३४॥
एतेऽपराह्णरहिताश्चतुष्कालाः प्रकीर्तिंताः।
पञ्चकं घटिकानां तु स्वाध्यायस्य भवेत्तदा ॥३५॥
प्रातर्मध्यन्दिनं सायं त्रयः काला यथाक्रमम्।
तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः ॥३६॥
अनुकल्पे तु कालः स्यादेको माध्यन्दिनोऽथवा।
माध्यन्दिनश्च नैशश्च द्वौ कालौ शक्तितो द्विज! ॥३७॥
यत्रावरणबाहुल्यं तथा च बलिविस्तरः।
भगवद्यागविस्तारो महता विभवेन तु ॥३८॥
अनेका मूर्तयो यत्र पूज्यन्ते विस्तरेण तु।
तत्र तत्र समभ्यूह्य स्वबुद्‌ध्या तु समाचरेत् ॥३९॥
वृद्धिं प्रधानकाले तु नाडिकानां महामते!।
संक्षेपमुपसन्ध्यासु तत्तत्कर्मानुगुण्यतः ॥४०॥
एवमुक्तेषु कालेषु यः पूजयति सर्वदा।
स पूजाफलमाप्नोति साकल्येन महामते! ॥४१॥
यथा कालात्ययो न स्यात्तथा कुर्यात् प्रयत्नतः।
उक्तेऽस्मिन् समतिक्रान्ते काले दोषो भवेन्महान् ॥४२॥
मनुजैः कल्पिते स्थाने इत्युक्ता नाडिकास्थितिः।
स्वयं व्यक्तादिकेऽप्येवं स्थानानामार्षपश्चिमे ॥४३॥
चतुष्टये भवेद्विप्र! कालानां तु विनिर्णयः।
विशेषः श्रूयतामत्र नियतेष्वपि कर्मसु ॥४४॥
वत्सरोत्सवपूर्वेषु नानानैमित्तिकेषु च।
पवित्रारोहणान्तेषु काम्येषु विविधेषु च ॥४५॥
तथा च प्रायश्चित्तेषु राष्ट्रभङ्गादिदोषतः।
यद्वा यजनविस्तारादसामर्थ्यादिकेन वा ॥४६॥
तत्तत्कर्मोदिते काले समतीते क्षणादिके।
न दोषो विद्यते विप्र! तत्तत्स्थानप्रभावतः ॥४७॥
सदागमपरैर्विप्रैः पश्चकालपरायणैः।
चातुरात्म्यैकनिष्ठैस्तु अनन्यैरधिकारिभिः ॥४८॥
प्रागुक्तैर्व्यापकैर्मन्द्नैर्द्वादशाक्षरपूर्वकैः।
अङ्गोपाङ्गादिसंयुक्तैर्दिव्यशास्त्रोक्तमार्गतः ॥४९॥
यजनं क्रियते यत्र तत्रापि च विशेषतः।
कालातिक्रमदोषस्तु विद्यते न कदाचन ॥५०॥
तथापि कालातिक्रान्तौ विशेषमवधारय।
व्यामिश्रयाजिभिर्वर्णैर्निर्मितायतनास्तु ये ॥५१॥
तेषु कर्मणि नित्येऽपि काम्ये नैमित्तिकेऽपि वा।
विविधेऽपि तथा विप्र! प्रायश्चित्ताख्यकर्मणि ॥५२॥
तत्तदुक्तस्य कालस्य मुहूर्तस्याप्यतिक्रमे।
कर्तुर्गुरोश्च स्थानस्य तस्य दोषो महान् भवेत् ॥५३॥
अनन्यशरणैर्वर्णैः स्थाने तु परिकल्पिते।
आरम्भः प्रातरिज्याया अपि यामाष्टमांशकम् ॥५४॥
नातिक्रामेन्न मध्याह्नः साष्टांशं प्रहरद्वयम्।
न च सायन्तनारम्भो रात्रौ यामाष्टमांशकम् ॥५५॥
निशीथपूजानारम्भो न च नाडीस्त्रयोदश।
प्रत्युषः पूजनारम्भः न च ह्येकोनविंशतिम् ॥५६॥
अतिक्रमेच्चेद्दोषः स्यात् कर्त्रादित्रितयस्य च।
नैमित्तिकादिके प्राग्वद्भवेद्दोषस्य निर्णयः ॥५७॥
सच्छूद्रैः कल्पिते विप्र! स्थाने तु विनिबोध मे।
अहनि प्रातरारम्भो यामांशं न व्यतिक्रमेत् ॥५८॥
न च माध्यन्दिनारम्भः सपादं प्रहरद्वयम्।
रात्रौ सायन्तनारम्भो यामांशं न व्यतिक्रमेत् ॥५९॥
निशीथयजनारम्भो न च नाडीद्विसप्तकम्।
नातिक्रामेत् प्रत्युषस्तु विंशतिं यद्यतिक्रमेत् ॥६०॥
सबन्धुकस्य वै कर्तुः स्थानस्य च गुरोर्भवेत्।
भयं नैमित्तिकादीनां प्राग्वत्तत्तदतिक्रमे ॥६१॥
सद्वैश्यैः कल्पिते स्थाने विभागमवधारय।
प्रागिज्योपक्रमे नाडीद्वितयं ह्युदयात् परम् ॥६२॥
नातिक्रमेन्न माध्याह्नो ह्यष्टाविंशतिनाडिकाः।
रात्रौ सायन्तनारम्भक्त्रितयं न व्यतिक्रमेत् ॥६३॥
निशीथयजनारम्भो यामौ द्वौ न ह्यतिक्रमेत्।
प्रत्युषः पूजनारम्भो न च नाड्येकविंशतिम् ॥६४॥
नैमित्तिकाद्यं त्रितयं न च कालमतिक्रमेत्।
प्रागुक्तं यद्यतिक्रामेत् कर्तुर्वै देशिकस्य च ॥६५॥
सबन्धुकस्य जायेत महाव्याध्यादिपीडनम्।
स्थानस्य धान्यनाशः स्यान्महाभूतैरुपप्लवः ॥६६॥
सदागमज्ञैः क्षत्रैस्तु क्लृप्ते वक्ष्याम्यतः परम्।
प्रातरिज्यासमारम्भो यामार्धं न ह्यतिक्रमेत् ॥६७॥
न च माध्यन्दिनारम्भः सार्धं यामद्वयं द्विज!।
न च सायन्तनारम्भो यामार्धं न ह्यतिकमेत् ॥६८॥
निशीथयजनारम्भो नाडीषोडशकं न च।
यामत्रयं तदन्यस्तु न च नैमित्तिकादिकम् ॥६९॥
उक्तं कालमतिक्रामेत् प्रमादाद्यद्यतिक्रमेत्।
देशक्षोभादिदोषः स्यात् पूर्वोक्तत्रितयस्य च ॥७०॥
 पञ्चकालपरैर्विप्रैः कल्पितेऽपि निबोध मे।
प्रागिज्योपक्रमो नाडीपञ्चकं न व्यतिक्रमेत् ॥७१॥
न च माध्यन्दिनारभ्भो नाडिकानां तु विंशतिम्।
न च सायन्तनारम्भो नाडीष्ट्‌कमतिक्रमेत् ॥७२॥
नातिक्रमेन्निशीथेज्या नाड्यः सप्तोत्तरा दश।
चतुर्विंशतिमन्तेज्या नाडीनां न ह्यतिक्रमेत् ॥७३॥
न च नैमित्तिकाद्यस्य प्राप्तकालव्यतिक्रमः।
एवमुक्तं तु नियमं येन केनाप्यतिक्रमेत् ॥७४॥
स्थानभ्रंशादिदोषः स्याद्देशिकादित्रयस्य च।
ऋषिभिः कल्पिते स्थाने विशेषमवधारय ॥७५॥
नातिक्रमेत् प्रागिज्याया नाडीषट्‌कमुपक्रमः।
माध्यन्दिनसमारम्भो न च नाड्येकविंशतिम् ॥७६॥
सायमिज्यासमारम्भो नाडीनां न च सप्तकम्।
नातिक्रामेन्निशीथेज्या नाड्यष्टादशकं द्विज! ॥७७॥
नातिक्रामेत् पश्विमेज्या नाडिकापञ्चपञ्चकम्।
अतिक्रमेच्चेत् कर्तुः स्यात् क्षयव्याधिप्रपीडनम् ॥७८॥
तद्देशे स्यादनावृष्टिः स्थानस्य च महद्भयम्।
कल्पिते मन्त्रसिद्धैस्तु स्थाने समवधारय ॥७९॥
आरम्भः प्रातरिज्यायाः प्रहरं न ह्यतिक्रमेत्।
एकविंशतिकं सार्धं मद्याह्नो न व्यतिक्रमेत् ॥८०॥
नातिक्रमेत्तु प्रहरं सायं याग उपक्रमः।
निशीथयागो नाडीनां न च त्वेकोनविंशतिम् ॥८१॥
षड्विंशतिमतिक्रामेन्न च पश्चिमपूजनम्।
अतिक्रमेच्चेद्वे कर्तुः पुत्रहानिर्भविष्यति ॥८२॥
स्थाने द्रव्यविनाशः स्याद्राष्ट्रस्य व्याधिपीडनम्।
दिव्यस्थानेऽथ वक्ष्यामि प्रागिज्याया उपक्रमः ॥८३॥
अष्टकं न त्वतिक्रामेन्नाडीनां द्विजसत्तम!।
द्वाविंशतिं न मध्याह्नो न च सायन्तनोऽष्टकम् ॥८४॥
विंशतिं न निशीथेज्या सप्तविंशतिमन्तिमः।
नातिक्रामेन्मुनिश्रेष्ठ! प्रमादाद्यद्यतिक्रमेत् ॥८५॥
देशाधिपस्य पीडा स्याज्ज्वरादिव्याधिभिः सदा।
स्थाने धान्यादिनाशः स्यात्तत्तद्देशनिवासिनाम् ॥८६॥
अथ स्थाने स्वयं व्यक्ते श्रृणु कालविधिं द्विज!।
प्रथमेज्यासमारम्भो घटिकादशकं न च ॥८७॥
अतिक्रामेन्न मध्याह्नो नाडीनां पञ्चविंशतिम्।
सायमिज्यासमारम्भो दशकं न ह्यतिक्रमेत् ॥८८॥
द्वाविंशतिं निशीथेज्या नातिक्रामेत पश्चिमः।
आदित्योदयवेलां तु नातिक्रामेत् कदाचन ॥८९॥
प्रमादाद्‌बुद्धिपूर्वाद्वा अतिक्रामेद्यदि द्विज!।
अरातिभिः परिभवो महाव्याध्यादिपीडनम् ॥९०॥
सदा देशाधिपस्य स्यात् प्रजानां व्याधिपीडनम्।
तत्स्थानस्य न सम्पत्तिस्तद्देशे वृष्टिवर्जनम् ॥९१॥
नित्यनैमित्तिकं कर्म नक्षत्रादिनिमित्तकम्।
तत्तत्कर्मोदितं कालं नातिक्रामेत्तु मानुषे ॥९२॥
आर्षादिंके तु त्रितये पूर्वभागोदितं तु यत्।
तत् कुर्यात्तदतिक्रान्तौ भागे तु तदनन्तरे ॥९३॥
तत्कालातिक्रमे दोषो नित्यातिक्रान्तिवद्भवेत्।
अपरांशोदितं कर्म तत्रैव तु समाचरेत् ॥९४॥
पूर्वाह्णे विहितं कर्म मध्याह्ने तु समाचरेत्।
मद्याह्ने विहितं यत्तदपराह्ने समाचरेत् ॥९५॥
पूर्वरात्रोदितं कर्म मध्यरात्रे समाचरेत्।
मध्यरात्रोदितं यत्तत् कुर्यादपररात्रिके ॥९६॥
स्वयं व्यक्ते तु पूर्वांशविहितं स्यात्तु मध्यमे।
पश्चिमे वापि तत्रोक्तं पूर्वे वा मध्यमेऽपि वा ॥९७॥
आचरेदनुकल्पे तु पूर्वाह्नविहितं तु यत्।
तत् कुर्यादथ मध्याह्ने अपराह्णेऽथवा द्विज! ॥९८॥
पूर्वरात्रोदितं कुर्यान्मध्ये वा पश्चिमेऽपि वा।
ऋक्षाणां पूर्वभागे तु ऋक्षकर्म समाचरेत् ॥९९॥
तिथीनां पश्चिमे भागे तिथिकर्म समाचरेत्।
नक्षत्रभेदे चाधिक्ये तिथिभेदे तदन्तिमे ॥१००॥
तत्रापि चेदमावास्या सङ्गवात् परतो भवेत्।
तस्मिन् कुर्यात्तु तत् कर्म तत् स्यात् पूर्वेद्युरन्यथा ॥१०१॥
अतीते भगवद्यागमाचरेदुत्तरायणे।
पश्चात् षोडशनाडीनामन्तरे होमपश्चिमम् ॥१०२॥
स्नपनाद्यं मुनिश्रेष्ठ! चैत्रे च विषुवे तथा।
प्रागेव भगवद्यागमाचरेद्दक्षिणायने ॥१०३॥
स्नपनाद्यं तु होमान्तं नाडीषोडशकान्तरे।
अनुकल्पे तु तत् कुर्यात् पश्चात् षोडशकान्तरे ॥१०४॥
एवमाश्वयुजे मासि विषुवेऽपि समाचरेत्।
उत्तरायणवत् कुर्यात् तत्सङ्‌क्रान्तिचतुष्टये ॥१०५॥
यल्लग्नहेतुकं कर्म यन्मुहूर्तनिमित्तकम्।
तत् सशेषं समापाद्य प्रायेण विभवेन तु ॥१०६॥
तस्मिन् प्राप्ते शुभे काले शश्वच्छेषं समापयेत्।
अर्घ्याद्यैर्देवमिष्ट्वा तु अग्नौ पूर्णाहुनिं ददेत् ॥१०७॥
नैमित्तिकं दिवोक्तं तु दिवैव तु समापयेत्।
नैमित्तिकं निशोक्तं तु निश्येव तु समापयेत् ॥१०८॥
यस्मिन् यस्मिन्नहोरात्रे विहितं कर्म यद्‌द्विज!।
समापयेत् तत्तस्मिन् यत्नतोऽवश्यमेव हि ॥१०९॥
महोत्सवः सदाकालं विहितं न त्वतिक्रमेत्।
नि शोत्सवस्य कालः स्यात्तपनस्योदयावधि ॥११०॥
कालः स्यात्तीर्थयात्रायां विंशन्नाड्चन्तरे दिवा।
मनुष्यनिर्मिते स्थाने मुख्यकल्पे द्विजोत्तम! ॥१११॥
अनुकल्पे तु तत्कालो यावदस्तमयावधि।
स्वयं व्याक्तादिके स्थाने दिवा स्यान्मुख्यकल्पके ॥११२॥
अनुकल्पे निशायां तु पूर्वार्धावधिको भवेत्।
मुख्यकल्पेऽपि रात्रौ वा ह्ययनादेस्तु संभवे ॥११३॥
मर्त्यप्रतिष्ठिते स्थाने पवित्रारोहणस्य तु।
कालः स्यादह्नि विप्रेन्द्र! नाडीविंशतिकान्तरे ॥११४॥
स्वयं व्यक्तादिके स्थाने यावदस्तमयावधि।
रात्रौ तु भूषणारोपं न कदाचित् समाचरेत् ॥११५॥
चन्द्रसूर्योपरागे च तत्कालात् पूर्वमेव तु।
चतुस्स्थानस्थितस्यापि स्थानद्वयगतस्य वा ॥११६॥
देवस्य यजनं कृत्वा होमान्तं स्नपनादिकम्।
औपचारिकसांस्पर्शैः प्रभूतैर्हृदयङ्गमैः ॥११७॥
पयोघृतादिभिः सम्यक् सविशेषैर्महामते!।
ततोऽक्षसूत्रमादाय तावत् कुर्याज्जपं सुधीः ॥११८॥
यावद्राहुविमुक्तस्य चन्द्रादेर्दर्शनं भवेत्।
पूजाहोमजपादीनां फलानन्त्यमवाप्नुयात् ॥११९॥
अन्यथा विफलं कर्म कर्तुर्व्याध्यादिपीडनम्।
अतोऽप्यन्यदनित्यं यन्नैमित्तिकमुदाहृतम् ॥१२०॥
पुण्यकालवशेनैव तत्राप्येवं समाचरेत्।
काम्यानि सर्वकर्माणि तत्तत्काले समाचरेत् ॥१२१॥
अन्यथा तानि कर्माणि न सिध्यन्त्यचिरेण तु।
स्वयंव्यक्तादिके तानि सर्वदैव समाचरेत् ॥१२२॥
प्रायश्चित्तं तु वै कुर्यात् सञ्जाते तन्निमित्तके।
तदैव वाथ कर्मान्ते त्रिदिनाभ्यन्तरे तु वा ॥१२३॥
तद्‌गुरुत्वानुगुण्येन पञ्चसप्तदिनान्तरे।
तदारम्भः समाप्तिर्वा ह्यन्यथा द्विगुणं चरेत् ॥१२४॥
प्रायश्चित्तं तु वै कुर्यात् स्वयंव्यक्तादिके स्थले।
स्वयंव्यक्तादिके स्थानचतुष्केऽपि महामते! ॥१२५॥
प्राकारगोपुरादीनामारम्भं स्थापनं तथा।
तथा च कर्मबिम्बानां स्थापनं च विशेषतः ॥१२६॥
जीर्णोद्धारविधानं च पुनः संस्थापनं तथा।
अङ्‌कुरारोपणं चैव ध्वजारोहावरोहणे ॥१२७॥
सुमुदूर्ते सुनक्षत्रे सुलग्नेऽपि समाचरेत्।
दोषः स्यात्तदतिक्रान्तौ तच्छान्तिं च समाचरेत् ॥१२८॥
द्वादशी तु कलामात्रा त्रयोदश्यां समाचरेत्।
कर्मावसाने शयनं प्रबोधं पुनरेव हि ॥१२९॥
पवित्रारोहणाद्येषु विविधेषु तु कर्मसु।
मुहूर्तातिक्रमे दोषो न भवेत्तु कदाचन ॥१३०॥
यत्र तु व्यापकैर्मन्त्रैरनन्यैरधिकारिभिः।
दिव्यशास्त्रोक्तमार्गेण पूजनं क्रियते विभोः ॥१३१॥
तत्र स्यात् कालनियमो दिव्यस्थानोक्तमार्गतः।
एतेषां द्वितयं यत्र तत्र कालस्तु सैद्धवत् ॥१३२॥
यत्र त्रयाणामेकं स्यात् तत्रार्षस्थानवद्भवेत्।
पुरोदितेषु स्थानेषु सर्वेष्वपि यथाक्रमम् ॥१३३॥
य उक्तः कालनियमो नियताद्येषु कर्मसु।
मुख्यानुकल्पभेदेन द्विविधस्तदतिक्रमे ॥१३४॥
तद्दोषशान्तिं वै कृत्वा तानि कुर्यादनन्तरे।
काले यथा क्रर्महानिर्न कदाचित्तु जायते ॥१३५॥
तथा क्रमेण वै कुर्यात्तानि कर्माणि सर्वदा।
नित्यनैमित्तिके प्राप्ते ह्येकस्मिन् समये तदा ॥१३६॥
पूर्वं नैमित्तिकं कृत्वा पश्चान्नित्यं समाचरेत्।
नैमित्तिके ह्यनित्ये च नित्ये च युगपद्गते ॥१३७॥
प्रागनित्यं ततः पश्चान्नित्यनैमित्तिकं चरेत्।
नैमित्तिके च काम्ये च प्राप्ते काम्यं तु पूर्वतः ॥१३८॥
एतेष्वपि च सर्वेषु प्रायश्चित्ताख्यकर्मणि।
एककाले तु संप्राप्ते प्रायश्चित्तं तु पूर्वतः ॥१३९॥
समाप्य पश्चाद्वै कुर्यात् तानि कर्माणि सर्वदा।
यदा नैमित्तिकाद्यं तु विभवाद्यैस्तु विस्तृतम् ॥१४०॥
तदा तात्कालिकं नित्यं तत्कालात् प्राक् समाचरेत्।
कालातिक्रमदोषस्तु तत्र न स्यात् कदाचन ॥१४१॥
देशिका बहवो यत्र बहवः परिचारकाः।
तत्तत्कर्मोर्थबिम्बानि संभवन्ति बहूनि च ॥१४२॥
तत्र सर्वाणि कर्माणि ह्येकदैव समाचरेत्।
कालातिक्रमदोषस्तु विद्यते तत्र पूर्ववत् ॥१४३॥
वक्ष्यन्ते देशिका ऊर्धं स्वयंव्यक्तादिषु द्विज!।
इदानीं मूर्तिभेदेषु लक्ष्यन्ते देशिकाः श्रृणु ॥१४४॥
परात्परस्वरूपस्य परस्य च विभोः सदा।
आचार्यान् शास्त्रविहितांश्चतुरः परिकल्पयेत् ॥१४५॥
अष्टौ द्वादश वा कल्प्या व्यूहे मूर्त्यन्तरेऽपि च।
वैभवेष्वपि मूर्तेषु देशिकेन्द्रास्तथैव हि ॥१४६॥
साधकाश्चैवमेव स्युः सदा षोडश वा द्विज!।
विभवेषु स्वतन्त्रेषु साधका द्वादशैव वा ॥१४७॥
अवतारेषु दशसु स्वतन्त्रेषु महामते!।
प्रासादे स्थापितेष्वेषु कल्प्या वाराधका दश ॥१४८॥
यथोक्ताचारसंयुक्तास्तथाप्यधिकसंख्यकाः।
तत्रैतत् कल्पनं श्रेष्ठमन्यत्र तदन्रथकम् ॥१४९॥
न तु केवल एवैते दशकल्प्यः कदाचन।
परात्परादिषु सदा दश संख्यां न कल्पयेत् ॥१५०॥
अस्वतन्त्रेऽवतारेऽपि दशसंख्यां न कल्पयेत्।
परिचारकसंख्यां तु वक्ष्याम्युपरि विस्तरात् ॥१५१॥
इति स्वार्थाविरोधेन परार्थाधिकृतस्य तु।
एकायनस्य विदुषः प्रोक्ताः कालाः क्रमेण तु ॥१५२॥
तथा वै दीक्षितस्यापि सिद्धान्तरतचेतसः।
इदानीं कर्मणि स्वार्थे तयोर्निरतयोः सदा ॥१५३॥
नित्यानां कालभेदं तु समाकर्णय साम्प्रतम्।
अथाभिगमनाद्यास्तु पञ्चकालाः प्रकीर्तिताः ॥१५४॥
पूर्वोऽभिगमनाख्यः स्यादुपादानाभिसंज्ञितः।
कालानां प्रविभागं तु पृष्टः पुष्करजन्मना ॥१५५॥
स्वाध्ययाख्यश्चतुर्थः स्यात् पञ्चमो योगसंज्ञितः।
कालानां प्रविभागं तु पृष्टः पुष्करजन्मना ॥१५६॥
नारदेनापि भेदेन प्रोवाच भगवान् स्वयम्।
स एव क्रमशो विप्र! प्रोच्यतेऽत्र पृथग्द्विज! ॥१५७॥
पौष्कर :---
ज्ञातुमिच्छामि भगवन्! कालभेदेन वै सह।
स्वरूपं मन्त्रसिद्धान्ताद्यागमानां यथास्थितम् ॥१५८॥
श्रीभगवानुवाच ---
कालमेकं द्विजश्रेष्ठ! तद्व्यापारवशात् पुनः।
भिन्नमाभाति कर्तॄणां भगवद्भाविनां तु वै ॥१५९॥
नाडिकाकलितं यद्वै अहोरात्रं तु संस्मृतम्।
पञ्चधा विषमांशैस्तदाप्रभाताद्विभज्य च ॥१६०॥
ब्राह्नं मुहूर्तमासाद्य मन्त्रज्ञः प्रयतः शुचिः।
शोधयित्वा स्वकं देहमायामाद्यैर्यथोदितैः ॥१६१॥
मन्त्रविन्यस्तदेहोऽथ कुर्यान्मन्त्रार्चनं ततः।
जपस्तोत्रावसानं च यावदादित्यदर्शनम् ॥१६२॥
कुर्याद्भोगार्चनं पश्चात् पुष्पमूलफलादिकम्।
गते दिनाष्टमे भागे स्नानपूर्वं समाचरेत् ॥१६३॥
प्राग्वदाराधनं मान्त्रं तृतीयप्रहरावधि।
ततश्चतुर्थे प्रहरे शास्त्राध्ययनमाचरेत् ॥१६४॥
चिन्तनं श्रवणोपेतं व्याख्यानं स्वधियेच्छया।
अस्तं गते दिनकरे आसाद्याराधनालयम् ॥१६५॥
कुर्यान्मन्त्रार्चनं सम्यग्जपध्यानसमन्वितम्।
आसाद्य शयनं पश्चात् स्मरेन्मन्त्रेश्वरं हृदि ॥१६६॥
क्षपयित्वा निशांशं तु उत्थाय शयनात्ततः।
योगं युञ्जीत वै मान्तनं प्राग्वद्धृत्कमलोदरे ॥१६७॥
तल्पमासाद्य वै भूयः प्रबुद्धः कमलोद्भव!।
उत्थायं शयनं त्यकत्वा ततः पूर्वोक्तमाचरेत् ॥१६८॥
कालभेदमिमं विद्धि सप्रपञ्चं पुरोदितम्।
नारदः ---
एको हि श्रूयते देव! कालो लोके न चापरः ॥१६९॥
पञ्चकालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः।
श्रीभगवानुवाच ---
एकस्यैव हि कालस्य भेदशून्यस्य नारद! ॥१७०॥
आप्रभातान्निशान्तं वै पञ्चधा परिकल्पना।
पृथक्कर्मवशात् कार्या न काला बहवः स्मृताः ॥१७१॥
नारदः ---
एककालाश्रितानां च कर्मणां लक्षणं वद।
परिज्ञातैस्तु यैः सम्यक् कृतकृत्यो भवाम्यहम् ॥१७२॥
श्रीभगवानुवाच ---
ब्राह्नान्मुर्तादारभ्य प्रागंशं विप्र! वासरे।
जपध्यानार्चनस्तोत्रैः कर्मवाक्‌चित्तसंयुतैः ॥१७३॥
अभिगच्छेज्जगद्योनिं तच्चाभिगमनं स्मृतम्।
ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ॥१७४॥
भगवद्यागनिष्पत्तिकारणं प्रहरं परम्।
तदुपादानसंज्ञं वै कर्मकालपदाश्रितम् ॥१७५॥
ततोऽष्टाङ्गेन योगेन पूजयेत् परमेश्वरम्।
साधकः प्रहरं विप्र! इज्याकालस्तु स स्मृतः ॥१७६॥
श्रवणं चिन्तनं व्याख्या ततः पाठसमन्वितः।
स्वाध्यायसंज्ञं तं विद्धि कालांशं मुनिसत्तम! ॥१७७॥
दिनावसाने संप्राप्ते पूजां कृत्वा समब्यसेत्।
योगं निशावसाने च विश्रमैरन्तरीकृतम् ॥१७८॥
पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्नसिद्धिदः।
नारदः ---
श्रुतो मयाखिलः पूर्वं भगवद्याग उत्तमः ॥१७९॥
तस्याङ्गानि विभागेन ज्ञातुमिच्छाम्यहं पुनः।
श्रीभगवानुवाच ---
अन्तःकरणयागादि यावदात्मनिवेदनम् ॥१८० ।
तदाद्यमङ्गं यागस्य नाम्नाभिगमनं महत्।
पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने! ॥१८१॥
बाह्योपचारैस्तद्विद्धि भोगसंज्ञं तु नारद!।
मध्वाज्याक्तेन दध्ना च पूजा च पशुना च या ॥१८२॥
तत्‌ तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम्।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने! ॥१८३॥
सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम्।
वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमः ॥१८४॥
प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम्।
इत्येतत् कथितं सर्वं यत् त्वया परिचोदितम् ॥१८५॥
प्रदद्यादचिराद्यद्वै तन्निष्ठानां स्वकं पदम्।
इति प्रोक्तं क्रमेणैव कर्मभेदेन वै सह ॥१८६॥
पञ्चकालविभागं तु द्वयोरप्यधिकारिणोः।
तत्रायं हि विशेषः स्यात् सत्यसंकल्पयाजिनः ॥१८७॥
चातुरात्म्यैकनिष्ठस्य मूलधर्मैकचेतसः।
आयामन्यासपूर्वं तु विघ्नजिद्यजनान्तिमम् ॥१८८॥
इहोदितं यत् तत् सर्वं वर्जनीयं प्रयत्नतः।
आत्मनोऽभीष्टसिध्द्यर्थं सात्त्वताद्युक्तमार्गतः ॥१८९॥
पूजने दीक्षितस्यापि शिष्यस्याधिकृतेऽपि च।
तस्यापि विहितं सर्वमायामाद्यं पुरोदितम् ॥१९०॥
इति सम्यक् समाख्यातः कालभेदो मया तव।
यज्ज्ञानात् सकलं कर्म कर्तुं युज्येत सत्तमः ॥१९१॥
इति श्रीपाञ्चरात्रे पारमेश्वरसंहितायां क्रियाकाण्‍डे द्वादशकालार्चनकालविभागनिर्णयो नाम नवमोऽध्यायः॥

N/A

References : N/A
Last Updated : January 12, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP