कैलाससंहिता - अध्यायः १६
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
सूत उवाच ॥
श्रुत्वोपदिष्टं गुरुणा वेदार्थं मुनिपुंगवः ॥
परमात्मनि संदिग्धं परिपप्रच्छ सादरम् ॥१॥
वामदेव उवाच ॥
ज्ञानशक्तिधर स्वामिन्परमानन्दविग्रह ॥
प्रणवार्थामृतं पीतं श्रीमुखख्जात्परिस्रुतम् ॥२॥
दृढप्रज्ञश्च जातोऽस्मि संदेहो विगतो मम ॥
किंचिदन्यन्महासेन पृच्छामि त्वां शृणु प्रभो ॥३॥
सदाशिवादिकीटांतरूपस्य जगतः स्थितिः ॥
स्त्रीपुंरूपेण सर्वत्र दृश्यते न हि संशयः ॥४॥
एवं रूपस्य जगतः कारणं यत्सनातनम् ॥
स्त्रीरूपं तत्किमाहोस्वित्पुरुषो वा नपुंसकम् ॥५॥
उत मिश्रं किमन्यद्वा न जातस्तत्र निर्णयः ॥
बहुधा विवदन्तीह विद्वांसश्शास्त्रमोहिताः ॥६॥
जगत्सृष्टिविधायिन्यः श्रुतयो जगता सह ॥
विष्णुब्रह्मादयो देवाः सिद्धाश्च न विदन्ति हि ॥७॥
यथैक्यभावं गच्छेयुरेतदन्यच्च वेदय ॥
जानामीति करोमीति व्यवहारः प्रदृश्यते ॥८॥
स हि सर्वात्मसंसिद्धो विवादो नात्र कस्यचित् ॥
सर्वदेहेन्द्रियमनोबुध्यहंकारसंभवः ॥९॥
आहोस्वि दात्मनोरूपं महानत्रापि संशयः ॥
द्वयमेतद्धि सर्व्वेषां विवादास्पदमद्भुतम् ॥१०॥
उत्पाट्याज्ञानसंभूतं संशयाख्यं विषद्रुमम् ॥
शिवाद्वैतमहाकल्पवृक्षभूमिर्यथाभवेत् ॥११॥
चित्तं मम यथा देव बोध्योऽस्मि कृपया तव ॥
कृपातस्तव देवेश दृढज्ञानी भवा म्यहम् ॥१२॥
सूत उवाच ॥
श्रुत्वैवं मुनिना पृष्टं वचो वेदान्तनिर्वृतम् ॥
रहस्यं प्रभुराहेदं किंचित्प्रहसिताननः ॥९३॥
सुब्रह्मण्य उवाच ॥
एतदेव मुने गुह्यं शिवेन परिभाषितम् ॥
अम्बायाः शृण्वतो देव्या वामदेव ममापि हि ॥१४॥
तस्याः स्तन्यं तदा पीत्वा संतृप्तोऽस्मि मुहुर्मुहुः ॥
श्रुतवान्निश्चलं तद्वै निश्चितं मे विचारितम् ॥१५॥
तत्ते वदामि दयया वामदेव महामुने ॥
महद्गुह्यं च परमं सुत त्वं शृणु सांप्रतम् ॥१६॥
कर्मास्ति तत्त्वादारभ्य शास्त्रवादस्सुविस्तरः ॥
यथाविवेकं श्रोतव्यो ज्ञानिना ज्ञानदो मुने ॥१७॥
त्वयोपदिष्टा ये शिष्यास्तत्र को वा भवत्समः ॥
कपिलादिषु शास्त्रेषु भ्रमंत्यद्यापि तेऽधमाः ॥१८॥
ते शप्ता मुनिभिः षड्भिश्शिवनिन्दा पराः पुरा ॥
न श्रोतव्या हि तद्वार्त्ता तेऽन्यथावादिनो यतः ॥१९॥
अनुमानप्रयोगस्याप्यवकाशो न विद्यते ॥
पंचावयवयुक्तस्य स तु धूमस्य दर्शनात् ॥२०॥
पर्व्वतस्याग्निमद्भावं वदंत्यत्रापि सुव्रत
प्रत्यक्षस्य प्रपंचस्य दर्शनालंबनं त्वतः ॥२१॥
ज्ञातव्यः परमेशानः परमात्मा न संशयः ॥
स्त्रीपुंरूपमयं विश्वं प्रत्यक्षेणैव दृश्यते ॥२२॥
षट्कोशरूपः पिण्डो हि तत्र चाद्यत्रयम्भवेत् ॥
मात्रंशजं पुनश्चान्यत्पित्रंशजमिति श्रुतिः ॥२३॥
एवं सर्वशरीरेषु स्त्रीपुंभावविदो जनाः ॥
परमात्मन्यपि मुने स्त्रीपुंभावं विदुर्बुधा ॥२४॥
सच्चिदानदरूपत्वं वदति ब्रह्मणः श्रुतिः ॥
असन्निवर्त्तकः शब्दः सदात्मेति निगद्यते ॥२५॥
निवर्त्तनं जगत्त्वस्य चिच्छब्देन विधीयते ॥
त्रिलिंगवर्त्ती सच्छब्दः पुरुषोत्र विधीयताम् ॥२५॥
प्रकाशवाची स भवेत्सत्प्रकाश इति स्फुटम् ॥
ज्ञानशब्दस्य पर्य्यायश्चिच्छब्दः स्त्रीत्वमागतः ॥२७॥
प्रकाशश्चिच्च मिथुनं जगत्कारणतां गतम् ॥
सच्चिदात्मन्यपि तथा जगत्कारणतां गतम् ॥२८॥
एकत्रैव शिवश्शक्तिरिति भावो विधीयते ॥
तैलवर्त्त्यादिमालिन्यात्प्रकाशस्यापि वर्त्तते ॥२९॥
मालिन्यमशिवत्वं च चिताग्न्यादिषु दृश्यते ॥
एवं विवर्त्तकत्वेन शिवत्वं श्रुतिचोदितम् ॥३०॥
जीवाश्रितायाश्चिच्छक्तेर्दौर्बल्यं विद्यते सदा ॥
तन्निवृत्यर्थमेवात्र शक्तित्वं सार्वकालिकम् ॥३१॥
बलवाञ्छक्तिमांश्चेति व्यवहारः प्रदृश्यते ॥
लोके वेदे च ससतं वामदेव महामुने ॥३२॥
एवं शिवत्वं शक्तित्वं परमात्मनि दर्शितम् ॥
शिवशक्त्योस्तु संयोगादानंदस्सततोदितः ॥३३॥
अतो मुने तमुद्दिश्य मुनयः क्षीणकल्मषाः ॥
शिवे मनस्समाधाय प्राप्ताश्शिवमनामयम् ॥३४॥
सर्वात्मत्वं तयोरेवं ब्रह्मेत्युपनिषत्सु च ॥
गीयते ब्रह्मशब्देन बृंहिधात्वर्थगोचरम् ॥३५॥
बृंहणत्वं बृहत्त्वं च शंभ्वाख्यविग्रहे ॥
पंचब्रह्ममये विश्वप्रतीतिर्ब्रह्म शब्दिता ॥३६॥
प्रतिलोमात्मके हंसे वक्ष्यामि प्रणवोद्भवम् ॥
तव स्नेहाद्वामदेव सावधानतया शृणु ॥३७॥
व्यंजनस्य सकारस्य हकारस्य च वर्जनात् ॥
ओमित्येव भवेत्स्थूलो वाचकः परमात्मनः ॥३८॥
महामन्त्रस्स विज्ञेयो मुनिभिस्तत्त्वदर्शिभिः ॥
तत्र सूक्ष्मो महामन्त्रस्तदुद्धारं वदामि ते ॥३९॥
आद्ये त्रिपंचरूपे च स्वरे षोडशके त्रिषु ॥
महामन्त्रो भवेदादौ स सकारो भवेद्यदा ॥४०॥
हंसस्य प्रतिलोमः स्यात्सकारार्थश्शिवः स्मृतः ॥
शक्त्यात्मको महामन्त्रवाच्यः स्यादिति निर्णयः ॥४१॥
गुरूपदेश काले तु सोहंशक्त्यात्मकश्शिवः ॥
इति जीवपरो भूयान्महामन्त्रस्तदा पशुः ॥४२॥
शक्त्यात्मकश्शिवांशश्च शिवैक्याच्छिवसाम्यभाक् ॥
प्रज्ञानं ब्रह्मवाक्ये तु प्रज्ञानार्थः प्रदृश्यते ॥४३॥
प्रज्ञानशब्दश्चैतन्यपर्य्यायस्स्यान्न संशयः ॥
चैतन्यमात्मेति मुने शिवसूत्रं प्रवर्त्तितम् ॥४४॥
चैतन्यमिति विश्वस्य सर्वज्ञानक्रियात्मकम् ॥
स्वातन्त्र्यं तत्स्वभावो यः स आत्मा परिकीर्त्तितः ॥४५॥
इत्यादिशिवसूत्राणां वार्तिकं कथितं मया ॥
ज्ञानं बंध इतीदं तु द्वितीयं सूत्रमीशितुः ॥४६॥
ज्ञानमित्यात्मनस्तस्य किंचिज्ज्ञानक्रियात्मकम् ॥
इत्याहाद्यपदेनेशः पशुवर्गस्य लक्षणम् ॥४७॥
एतद्द्वयं पराशक्तेः प्रथमं स्पंदतां गतम् ॥
एतामेव परां शक्तिं श्वेताश्वतरशाखिनः ॥४८॥
स्वाभाविकी ज्ञानबलक्रिया चेत्यस्तुवन्मुदा ॥
ज्ञानक्रियेच्छारूपं हि शंभोर्दृष्टित्रयं विदुः ॥४९॥
एतन्मनोमध्यगं सदिन्द्रियज्ञानगोचरम् ॥
अनुप्रविश्य जानाति करोति च पशुः सदा ॥५०॥
तस्मादात्मन एवेदं रूपमित्येव निश्चितम् ॥
प्रपंचार्थं प्रवक्ष्यामि प्रणवै क्यप्रदर्शनम् ॥५१॥
ॐमितीदं सर्वमिति श्रुतिराह सनातनी ॥
तस्माद्वेतीत्युपक्रम्य जगत्सृष्टिः प्रक्रीर्तिता ॥५२॥
तस्याः श्रुतेस्तु तात्पर्यं वक्ष्यामि श्रूयतामिदम् ॥
तव स्नेहाद्वामदेव विवेकार्थविजृंभितम् ॥५३॥
शिवशक्तिसमायोगः परमात्मेति निश्चितम् ॥
पराशक्तेस्तु संजाता चिच्छक्तिस्तु तदुद्भवा ॥५४॥
आनन्दशक्तिस्तज्जास्यादिच्छाशक्तिस्तदुद्भवा ॥
ज्ञानशक्तिस्ततो जाता क्रियाश क्तिस्तु पंचमी ॥
एताभ्य एव संजाता निवृत्त्याद्याः कला मुने ॥५५॥
चिदानन्दसमुत्पन्नौ नादबिन्दू प्रकीर्त्तितौ ॥
इच्छाशक्तेर्मकारस्तु ज्ञानशक्तेस्तु पंचमः ॥५६॥
स्वरः क्रियाशक्तिजातो ह्यकारस्तु मुनीश्वर ॥
इत्युक्ता प्रणवोत्पत्तिः पंचब्रह्मोद्भवं शृणु ॥५७
शिवादीशान उत्पन्नस्ततस्तत्पुरुषोद्भवः ॥
ततोऽघोरस्ततो वामस्सद्योजातोद्भवस्ततः ॥५८॥
एतस्मान्मातृकादष्टत्रिंशन्मातृसमुद्भ वः ॥
ईशानाच्छान्त्यतीताख्या कला जाताथ पूरुषात् ॥
उत्पद्यते शान्तिकला विद्याऽघोरसमुद्भवा ॥५९॥
प्रतिष्ठा च निवृत्तिश्च वाम सद्योद्भवे मते ॥
ईशाच्चिच्छक्तिमुखतो विभोर्मिथुनपञ्चकम् ॥६०॥
अनुग्रहादिकृत्यानां हेतुः पञ्चकमिष्यते ॥
तद्विद्भिर्मुनिभिः प्राज्ञैर्वरतत्त्वप्रदर्शिभिः ॥६१॥
वाच्यवाचकसम्बन्धान्मिथुनत्वमुपेयुषि ॥
कलावर्णस्वरूपेऽस्मिन्पञ्चके भूतपञ्चकम् ॥६२॥
वियदादि क्रमादासीदुत्पन्नम्मुनिपुङ्गव ॥
आद्यं मिथुनमारभ्य पञ्चमं यन्मयं विदुः ॥६३॥
शब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत् ॥
शब्दस्पर्शरूपगुणप्रधानो वह्निरुच्यते ॥६४॥
शब्दस्पर्शरूपरसगुणकं सलिलं स्मृतम् ॥
शब्द्स्पर्शरूपरसगन्धाढ्या पृथिवी स्मृता ॥६५॥
व्यापकत्वञ्च भूतानामिदमेव प्रकीर्तितम् ॥
व्याप्यत्वं वैपरीत्येन गन्धादिक्रमतो भवेत् ॥६६॥
भूतपञ्चकरूपोऽयम्प्रपञ्चः परिकीर्त्यते ॥
विराट् सर्वसमष्ट्यात्मा ब्रह्माण्डमिति च स्फुटम् ॥६७॥
पृथिवीतत्त्वमारभ्य शिवतत्त्वावधि क्रमात् ॥
निलीय तत्त्वसंदोहे जीव एव विलीयते ॥६८॥
संशक्तिकः पुनस्सृष्टौ शक्तिद्वारा विनिर्गतः ॥
स्थूलप्रपञ्चरूपेण तिष्ठत्याप्रलयं सुखम् ॥६९॥
निजेच्छया जगत्सृष्टमुद्युक्तस्य महेशितुः ॥
प्रथमो यः परिस्पन्दश्शिव तत्त्वन्तदुच्यते ॥७०॥
एषैवेच्छाशक्तितत्वं सर्वकृत्यानुवर्तनात् ॥
ज्ञानक्रियाशक्तियुग्मे ज्ञानाधिक्ये सदाशिवः ॥७१॥
महेश्वरं क्रियोद्रेके तत्त्वं विद्धि मुनीश्वर ॥
ज्ञानक्रियाशक्तिसाम्यं शुद्धविद्यात्मकं मतम् ॥७२॥
स्वाङ्गरूपेषु भावेषु मायातत्त्वविभेदधीः ॥
शिवो यदा निजं रूपं परमैश्वर्य्यपूर्वकम् ॥७३॥
निगृह्य माययाशेषपदार्थग्राहको भवेत् ॥
तदा पुरुष इत्याख्या तत्सृष्ट्वेत्यभवच्छ्रुतिः ॥७४॥
अयमेव हि संसारी मायया मोहितः पशुः ॥
शिवज्ञानविहीनो हि नानाकर्मविमूढधीः ॥७५॥
शिवादभिन्नं न जगदात्मानं भिन्नमित्यपि ॥
जानतोऽस्य पशोरेव मोहो भवति न प्रभो ॥७६॥
यथैन्द्रजालिकस्यापि योगिनो न भवेद्भ्रमः ॥
गुरुणा ज्ञापितैश्वर्यश्शिवो भवति चिद्धनः ॥७७॥
सर्वकर्तृत्वरूपा च सर्वजत्वस्वरूपिणी ॥
पूर्णत्वरूपान्नित्यत्वव्यापकत्व स्वरूपिणी ॥७८॥
शिवस्य शक्तयः पञ्च संकुचदूपभास्कराः ॥७९॥
अपि संकोचरूपेण विभांत्य इति नित्यशः ॥
पशोः कलाख्य विद्येति रागकालौ नियत्यपि ॥
तत्त्वपञ्चकरूपेण भवत्यत्र कलेति सा ॥८०॥
किंचित्कर्तृत्त्त्वहेतुस्स्यात्किंचित्तत्त्वैकसाधनम् ॥
सा तु विद्या भवेद्रागो विषयेष्वनुरंजकः ॥८१॥
कालो हि भावभावानां भासानां भासनात्मकः ॥
क्रमावच्छेदको भूत्वा भूतादिरिति कथ्यते ॥८२॥
इदन्तु मम कर्तव्यमिदन्नेति नियामिका ॥
नियतिस्स्याद्विभोश्शक्तिस्तदाक्षेपात्पतेत्पशुः ॥८३॥
एतत्पंचकमेवास्य स्वरूपा वारकत्वतः ॥
पञ्चकञ्चुकमाख्यातमन्तरंगं च साधनम् ॥८४॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवतत्त्ववर्णनन्नाम षोडशोऽध्यायः ॥१६॥
N/A
References : N/A
Last Updated : October 13, 2020
TOP