कैलाससंहिता - अध्यायः १

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


श्रीगणेशाय नमः

ॐ नमः शिवाय ॥

अथ षष्ठी कैलाससंहिता प्रारभ्यते ॥

नमः शिवाय साम्बाय सगणाय ससूनवे ॥
प्रधानपुरुषेशाय सर्गस्थितत्यन्तहेतवे ॥१॥
ऋषय ऊचुः ॥
श्रुतोमासंहिता रम्या नानाख्यानसमन्विता ॥
कैलाससंहिताम्ब्रूहि शिवतत्त्वविवर्द्धिनीम् ॥२॥
व्यास उवाच ॥
शृणुत प्रीतितो वत्साः कैलासाख्यां हि संहिताम् ॥
शिवतत्त्वपरान्दिव्यां वक्ष्ये वः स्नेहतः पराम् ॥३॥
हिमवच्छिखरे पूर्व्वं तपस्यन्तो महौजसः ॥
वाराणसीङ्गन्तुकामा मुनयः कृतसम्विदः ॥४॥
निर्गत्य तस्मात्सम्प्राप्य गिरेः काशीं समाहिताः ॥
स्नातव्यमेवेति तदा ददृशुर्मणिकर्णिकाम् ॥५॥
तत्र स्नात्वा सुसन्तप्य देवादीनथ जाह्नवीम् ॥
दृष्ट्वा स्नात्वा मुनीशास्ते विश्वेशं त्रिदशेश्वरम् ॥६॥
नमस्कृत्याथ सम्पूज्य भक्त्या परमयान्विताः ॥
शतरुद्रादिभिः स्तुत्वा स्तुतिभिर्व्वेदपारगाः ॥७॥
आत्मानं मेनिरे सर्वे कृतार्था वयमित्युत ॥
शिवप्रीत्या सुपूर्णार्थाश्शिवभक्तिरतास्सदा ॥८॥
तस्मिन्नवसरे सूतं पञ्चक्रोशदिदृक्षया ॥
गत्वा समागतं वीक्ष्य मुदा ते तं ववन्दिरे ॥
सोपि विश्वेश्वरं साक्षाद्देवदेवमुमापतिम् ॥
नमस्कृत्याथ तैस्साकम्मुक्तिमण्डपमाविशत् ॥१०॥
तत्रासीनम्महात्मानं सूतम्पौराणिकोत्तमम् ॥
अर्घ्यादिभिस्तदा सर्व्वे मुनयस्समुपाचरन् ॥११॥
ततः सूतः प्रसन्नात्मा मुनीनालोक्य सुव्रतान् ॥
पप्रच्छ कुशलान्तेपि प्रोचुः कुशलमात्मनः ॥१२॥
ते तु संहृष्टहृदयं ज्ञात्वा तं वै मुनीश्वराः ॥
प्रणवार्थावगत्यर्थमूचुः प्रास्ताविकं वचः ॥१३॥
मुनय ऊचुः ॥
व्यासशिष्य महाभाग सूत पौराणिकोत्तम ॥
धन्यस्त्वं शिवभक्तो हि सर्वविज्ञान सागरः ॥१४॥
भवन्तमेव भगवान्व्यासस्सर्वजगद्गुरुः ॥
अभिषिच्य पुराणानां गुरुत्वे समयोजयत् ॥१५॥
तस्मात्पौराणिकी विद्या भवतो हृदि संस्थिता ॥
पुराणानि च सर्वाणि वेदार्थम्प्रवदन्ति हि ॥१६॥
वेदाः प्रणवसम्भूताः प्रणवार्थो महेश्वरः ॥
अतो महेश्वरस्थानं त्वयि धिष्ण्यम्प्रतिष्ठितम् ॥१७॥
त्वन्मुखाब्जपरिस्यन्दन्मकरंदे मनोहरम् ॥
प्रणवार्थामृतं पीत्वा भविष्यामो गतज्वराः ॥१८॥
विशेषतो गुरुस्त्वं हि नान्योऽस्माकं महामते ॥
परं भावं महेशस्य परया कृपया वद ॥१९॥
इति तेषां वचः श्रुत्वा सूतो व्यासप्रियस्सुधीः ॥
गणेशं षण्मुखं साक्षान्महेशानं महेश्वरीम् ॥२०॥
शिलादतनयं देवं नन्दीशं सुयशापतिम् ॥
सनत्कुमारं व्यासं च प्रणिपत्येदमब्रवीत् ॥२१॥
सूत उवाच ॥
साधुसाधु महाभागा मुनयः क्षीणकल्मषाः ॥
मतिर्दृढतरा जाता दुर्लभा सापि दुष्कृताम् ॥२२॥
पाराशर्येण गुरुणा नैमिषारण्यवासिनाम् ॥
मुनीनामुपदिष्टं यद्वक्ष्ये तन्मुनिपुंगवाः ॥२३॥
यस्य श्रवणमात्रेण शिवभक्तिर्भवेन्नृणाम् ॥
सावधाना भवन्तोद्य शृण्वन्तु परया मुदा ॥२४॥
स्वारोचिषेन्तरे पूर्वं तपस्यंतो दृढव्रताः ॥
ऋषयो नैमिषारण्ये सर्वसिद्धनिषेविते ॥२५॥
दीर्घसत्रं वितन्वन्तो रुद्रमध्वरनायकम् ॥
प्रीणयन्तः परं भावमैश्वर्य्यं ज्ञातुमिच्छवः ॥२६॥
निवसन्ति स्म ते सर्वे व्यासदर्शनकांक्षिणः ॥
शिवभक्तिरता नित्यं भस्मरुद्राक्षधारिणः ॥२७॥
तेषां भावं समालोक्य भगवान्बादरायणः ॥
प्रादुर्बभूव सर्वात्मा पराशरतपःफलम् ॥२८॥
तं दृष्ट्वा मुनयस्सर्वे प्रहृष्टवदनेक्षणाः ॥
अभ्युत्थानादिभिस्सर्वैरुपचारैरुपाचरन् ॥२९॥
सत्कृत्य प्रददुस्तस्मै सौवर्णं विष्टरं शुभम् ॥
सुखोपविष्टः स तदा तस्मिन्सौवर्णविष्टरे ॥
प्राह गंभीरया वाचा पाराशर्य्यो महामुनिः ॥३०॥
व्यास उवाच ॥
कुशलं किं नु युष्माकम्प्रब्रूतास्मिन्महामखे ॥
अर्चितं किं नु युष्माभिस्सम्यगध्वरनायकः ॥३१॥
किमर्थमत्र युष्माभिरध्वरे परमेश्वरः ॥
स्वर्चितो भक्तिभावेन साम्बस्संसारमोचकः ॥३२॥
युष्मत्प्रवृत्तिर्मे भाति शुश्रूषा पूर्वमेव हि ॥
परभावे महेशस्य मुक्तिहेतोश्शिवस्य च ॥३३॥
एवमुक्ता मुनीन्द्रेण व्यासेनामिततेजसा ॥
मुनयो नैमिषारण्यवासिनः परमौजसः ॥३४॥
प्रणिपत्य महात्मानं पाराशशर्य्यं महामुनिम् ॥
शिवानुरागसंहृष्टमानसं च तमब्रुवन् ॥३५॥
मुनय ऊचुः ॥
भगवन्मुनिशार्दूल साक्षान्नारायणांशज ॥
कृपानिधे महाप्राज्ञ सर्वविद्याधिप प्रभो ॥३६॥
त्वं हि सर्वजगद्भर्तुर्महा देवस्य वेधसः ॥
साम्बस्य सगणस्यास्य प्रसादानां निधिस्स्वयम् ॥३७॥
त्वत्पादाब्जरसास्वादमधुपायितमानसाः ॥
कृतार्था वयमद्यैव भवत्पादाब्जदर्शनात् ॥३८॥
त्वदीयचरणाम्भोजदर्शनं खलु पापिनाम् ॥
दुर्लभं लब्धमस्माभिस्त्वस्मात्सुकृतिनो वयम् ॥३९॥
अस्मिन्देशे महाभाग नैमिषारण्यसंज्ञके ॥
दीर्घसत्रान्वितास्सर्वे प्रणवार्थप्रकाशकाः ॥४०॥
श्रोतव्यः परमेशान इति कृत्वा विनिश्चिताः ॥
परस्परं चिन्तयन्तः परं भावं महेशितु ॥४१॥
अज्ञातवन्त एवैते वयं तस्माद्भवान्प्रभो ॥
छेत्तुमर्हति तान्सर्वान्संशयानल्पचेतसाम् ॥४२॥
त्वदन्यः संशयस्यास्यच्छेत्ता न हि जगत्त्रये ॥
तस्मादपारगंभीरव्यामोहाब्धौ निमज्जतः ॥४३॥
तारयस्व शिवज्ञानपोतेनास्मान्दयानिधे ॥
शिवसद्भक्तितत्त्वार्थं ज्ञातुं श्रद्धालवो वयम् ॥४४॥
एवमभ्यर्थितस्त मुनिभिर्वेदपारगैः ॥
सर्ववेदार्थविन्मुख्यः शुकतातो महामुनिः ॥
वेदान्तसारसर्वस्वं प्रणवं परमेश्वरम् ॥४५॥
ध्यात्वा हृत्कर्णिकामध्ये साम्बं संसारमोचकम् ॥
प्रहृष्टमानसो भूत्वा व्याजहार महामुनि ॥४६॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां व्यासशौनकादिसंवादो नाम प्रथमोऽध्यायः  १॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP