कैलाससंहिता - अध्यायः ११

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः ॥
सूत सूत महाभागस्त्वमस्मद्गुरुरुत्तमः ॥
अतस्त्वां परिपृच्छामो भवतोऽनुग्रहो यदि ॥१॥
श्रद्धालुषु च शिष्येषु त्वादृशा गुरवस्सदा ॥
स्निग्धभावा इतीदं नो दर्शितम्भवताधुना ॥२॥
विरजाहोमसमये वामदेवमतम्पुरा ॥
सूचितम्भवतास्माभिर्न श्रुतं विस्तरान्मुने ॥३॥
तदिदानीं श्रोतुकामाः श्रद्धया परमादरात् ॥
वयं सर्व्वे कृपासिंधो प्रीत्या तद्वक्तुमर्हसि ॥४॥
इति तेषां वचः श्रुत्वा सूतो हृष्टतनूरुहः ॥
नमस्कृत्य महादेवं गुरोः परतरं गुरुम् ॥५॥
महादेवीं त्रिजननीं गुरुं व्यासश्च भक्तितः ॥
प्राह गम्भीरया वाचा मुनीनाह्लादयन्निदम् ॥६॥
सूत उवाच ॥
स्वस्त्यस्तु मुनयस्सर्वे सुखिन स्सन्तु सर्व्वदा ॥
शिवभक्ता स्थिरात्मानश्शिवे भक्तिप्रवर्तकाः ॥७॥
तदतीव विचित्रं हि श्रुतं गुरुमुखाम्बुजात् ॥
इतः पूर्वम्मया नोक्तं गुह्यप्राकट्यशंकया ॥८॥
यूयं खलु महाभागाश्शिवभक्ता दृढव्रताः ॥
इति निश्चित्य युष्माकं वक्ष्यामि श्रूयताम्मुदा ॥९॥
पुरा रथन्तरे कल्पे वामदेवो महामुनिः ॥
गर्भमुक्तश्शिवज्ञानविदां गुरुतमस्स्वयम् ॥१०॥
वेदागमपुराणादिसर्व्वशास्त्रार्थवत्त्ववित् ॥
देवासुरमनुष्यादिजीवानां जन्मकर्म्मवित् ॥११॥
भस्मावदातसर्व्वांगो जटामण्डललमंडितः ॥
निराश्रयो निःस्पृहश्च निर्द्वन्द्वो निरहंकृतिः ॥१२॥
दिगंबरो महाज्ञानी महेश्वर इवापरः ॥
शिष्यभूतैर्मुनीन्द्रैश्च तादृशैः परिवारितः ॥१३॥
पर्य्यटन्पृथिवीमेतां स्वपाद स्पर्शपुण्यतः ॥
पवित्रयन्परे धाम्नि निमग्नहृदयोन्वहम् ॥१४॥
कुमारशिखरम्मेरोर्द्दक्षिणं प्राविशन्मुदा ॥
यत्रास्ते भगवानीशतन यश्शिखिवाहनः ॥१५॥
ज्ञानशक्तिधरो वीरस्सर्वासुरविमर्दनः ॥
गजावल्लीसमायुक्तस्सर्व्वैर्देवैर्नमस्कृतः ॥१६॥
तत्र स्कन्दसरो नाम सरस्सागरसन्निभम् ॥
शिशिरस्वादुपानीयं स्वच्छागाधबहूदकम् ॥१७॥
सर्व्वाश्चर्य्यगुणोपेतं विद्यते स्वामिसन्निधौ ॥
तत्र स्नात्वा वामदेवस्सहशिष्यैर्महामुनिः ॥१८॥
कुमारं शिखरासीनं मुनिवृन्दनिषेवितम् ॥
उद्यदादित्यसंकाशं मयूरवरवाहनम् ॥१९॥
चतुर्भुजमुदारांगं मुकुटादिविभूषितम् ॥
शक्तिरत्नद्वयोपास्यं शक्तिकुक्कुटधारिणम् ॥२०॥
वरदाभयहस्तञ्च दृष्ट्वा स्कन्दं मुनीश्वरः ॥
सम्पूज्य परया भक्त्या स्तोतुं समुपचक्रमे ॥२१॥
 ॥वामदेव उवाच ॥
ॐ नमः प्रणवार्थाय प्रणवार्थविधायिने ॥
प्रणवाक्षरबीजाय प्रण वाय नमोनमः ॥२२॥
वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ॥
वेदान्तार्थविदे नित्यं विदिताय नमोनमः ॥२३॥
नमो गुहाय भूतानां गुहासु निहिताय च ॥
गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ॥२४॥
अणोरणीयसे तुभ्यं महतोपि महीयसे ॥
नमः परावरज्ञाय परमात्मस्वरूपिणे ॥२५॥
स्कन्दाय स्कन्दरूपाय मिहिरारुणेतेजसे ॥
नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ॥२६॥
शिवशिष्याय पुत्राय शिवस्य शिवदायिने ॥
शिवप्रियाय शिवयोरानन्दनिधये नम ॥२७॥
गांगेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ॥
उमापुत्राय महते शरकाननशायिने ॥२८॥
षडक्षरशरीराय षड्विधार्थविधायिने ॥
षडध्वातीतरूपाय षण्मुखाय नमोनमः ॥२९॥
द्वादशायतनेत्राय द्वादशोद्यतबाहवे ॥
द्वादशायुधधाराय द्वादशात्मन्नमोस्तु ते ॥३०॥
चतुर्भुजाय शान्ताय शक्तिकुक्कुट धारिणे ॥
वरदाय विहस्ताय नमोऽसुरविदारिणे ॥३१॥
गजावल्लीकुचालिप्तकुंकुमांकितवक्षसे ॥
नमो गजाननानन्दमहि मानंदितात्मने ॥३२॥
ब्रह्मादिदेवमुनिकिन्नरगीयमानगाथाविशेषशुचिचिंतितकीर्त्तिधाम्ने ॥
वृन्दारकामलकिरीटविभूषणस्रक्पूज्याभिरामपदपंकज ते नमोस्तु ॥३३॥
इति स्कन्दस्तवन्दिव्यं वामदेवेन भाषितम् ॥
यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥३४॥
महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्द्धनम् ॥
आयुरारोग्यधनकृत्सर्व्वकामप्रदं सदा ॥३५॥
इति स्तुत्वा वामदेवो देवं सेनापतिं प्रभुम् ॥
प्रदक्षिणात्रयं कृत्वा प्रणम्य भुवि दण्डवत् ॥३६॥
साष्टांगं च पुनः कृत्वा प्रदक्षिणनमस्कृतम् ॥
अभवत्पार्श्वतस्तस्य विनयावनतो द्विजाः ॥३७॥
वामदेवकृतं स्तोत्रम्परमार्थविजृम्भितम् ॥
श्रुत्वाभवत्प्रसन्नो हि महे श्वरसुतः प्रभुः ॥३८॥
तमुवाच महासेनः प्रीतोस्मि तव पूजया ॥
भक्त्या स्तुत्या च भद्रन्ते किमद्यकरवाण्यहम् ॥३९॥
मुने त्वं योगिनान्मुख्यः परिपूर्णश्च निस्पृहः ॥
भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते ॥४०॥
तथापि धर्म्मरक्षायै लोकानुग्रहकांक्षया ॥
त्वादृशा साधवस्सन्तो विचरन्ति महीतले ॥४१॥
श्रोतव्यमस्ति चेद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम् ॥
तदिदानीमहं वक्ष्ये लोकानुग्रहहे तवे ॥४२॥
इति स्कन्दवचः श्रुत्वा वामदेवो महामुनिः ॥
प्रश्रयावनतः प्राह मेघगम्भीरया गिरा ॥४३॥
वामदेव उवाच ॥
भगवन्परमेशस्त्वं परापरविभूतिदः ॥
सर्व्वज्ञसर्वकर्त्ता च सर्व्वशक्तिधरः प्रभुः ॥४४॥
जीवा वयं तु ते वक्तुं सन्निधौ परमेशितुः ॥
तथाप्यनुग्रहो यन्ते यत्त्वं वदसि मां प्रति ॥४५॥
कृतार्थोहं महाप्राज्ञ विज्ञानकणमात्रतः ॥
प्रेरितः परिपृच्छामि क्षन्तव्योतिक्रमो मम ॥४६॥
प्रणवो हि परः साक्षात्परमेश्वरवाचकः ॥
वाच्यः पशुपतिर्देवः पशूनां पाशमोचकः ॥४७॥
वाचकेन समाहूतः पशून्मोचयते क्षणात् ॥
तस्माद्वाचकतासिद्धिः प्रणवेन शिवम्प्रति ॥४८॥
ॐ मितीदं सर्वमिति श्रुतिराह सनातनी ॥
ओमिति ब्रह्म सर्व्वं हि ब्रह्मेति च समब्रवीत् ॥४९॥
देवसेनापते तुभ्यन्देवानाम्पतये नमः ॥
नमो यतीनाम्पतये परिपूर्णाय ते नमः ॥५०॥
एवं स्थिते जगत्यस्मिञ्छिवादन्यन्न विद्यते ॥
सर्व्वरूपधरः स्वामी शिवो व्यापी महेश्वरः ॥५१॥
समष्टिव्यष्टिभावेन प्रणवार्थः श्रुतो मया ॥
न जातुचिन्महासेन संप्राप्तस्त्वादृशो गुरुः ॥५२॥
अतः कृत्वानुकंपां वै तमर्थं वक्तुमर्हसि ॥
उपदेशविधानेन सदाचारक्रमेण च ॥५३॥
स्वाम्येकः सर्ब्वजन्तूनां पाशच्छेदकरो गुरुः ॥
अतस्त्वत्कृपया सोऽर्थः श्रोतव्यो हि मया गुरो ॥५४॥
इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम् ॥
सहितमुमया शश्वत्पार्श्वे मुनिप्रवरान्वितं गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम् ॥५५॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां वामदेवब्रह्मवर्णनन्नामैकादशोऽयाय ॥११॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP