कैलाससंहिता - अध्यायः ३
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
॥ईश्वर उवाच ॥
शृणु देवि प्रवक्ष्यामि यन्मां त्वम्परि पृच्छसि ॥
तस्य श्रवणमात्रेण जीवस्साक्षाच्छिवो भवेत् ॥१॥
प्रणवार्थपरिज्ञानमेव ज्ञानं मदात्मकम् ॥
बीजन्तत्सर्वविद्यानां मंत्र म्प्रणवनामकम् ॥२॥
अतिसूक्ष्मं महार्थं च ज्ञेयं तद्वटबीजवत् ॥
वेदादि वेदसारं च मद्रूपं च विशेषतः ॥३॥
देवो गुणत्रयातीतः सर्वज्ञः सर्वकृत्प्रभुः ॥
ओमित्येकाक्षरे मंत्रे स्थितोहं सर्वगश्शिवः ॥४॥
यदस्ति वस्तु तत्सर्वं गुणप्राधान्ययोगतः ॥
समस्तं व्यस्त मपि च प्रणवार्थं प्रचक्षते ॥५॥
सर्वार्थसाधकं तस्मादेकं ब्रह्मैतदक्षरम् ॥
तेनोमिति जगत्कृस्नं कुरुते प्रथमं शिवः ॥६॥
शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ॥
वाच्यवाचकयोर्भेदो नात्यंतं विद्यते यतः ॥७॥
तस्मादेकाक्षरं देवं मां च ब्रह्मर्षयो विदुः ॥
वाच्यवाचकयोरैक्यं मन्यमाना विपश्चितः ॥८॥
अतस्तदेव जानीयात्प्रणवं सर्वकारणम् ॥
निर्विकारी मुमुक्षुर्मां निर्गुणं परमेश्वरम् ॥९॥
एनमेव हि देवेशि सर्वमंत्रशिरोमणिम् ॥
काश्यामहं प्रदास्यामि जीवानां मुक्तिहेतवे ॥१०॥
तत्रादौ सम्प्रवक्ष्यामि प्रणवोद्धारम म्बिके ॥
यस्य विज्ञानमात्रेण सिद्धिश्च परमा भवेत् ॥११॥
निवृत्तिमुद्धरेत्पूर्वमिन्धनं च ततः परम् ॥
कालं समुद्धरेत्पश्चाद्दंडमी श्वरमेव च ॥१२॥
वर्णपंचकरूपोयमेवं प्रणव उद्धृतः ॥
त्रिमात्रबिन्दुनादात्मा मुक्तिदो जपतां सदा ॥१३॥
ब्रह्मादिस्थावरान्तानां सर्वेषां प्राणिनां खलु ॥
प्राणः प्रणव एवायं तस्मात्प्रणव ईरितः ॥१४॥
आद्यम्वर्णमकारं च उकारमुत्तरे ततः ॥
मकारं मध्यतश्चैव नादांतं तस्य चोमिति ॥१५॥
जलवद्वर्णमाद्यन्तु दक्षिणे चोत्तरे तथा ॥
मध्ये मकारं शुचिवदोंकारे मुनिसत्तम ॥१६॥
अकारश्चाप्युकारोयं मकाराश्च त्रयं क्रमात् ॥
तिस्रो मात्रास्समाख्याता अर्द्धमात्रा ततः परम् ॥१७॥
अर्द्धमात्रा महेशानि बिन्दुनादस्वरूपिणी ॥
वर्णनीया न वै चाद्धा ज्ञेया ज्ञानिभिरेव सा ॥१८॥
ईशानस्सर्वविद्यानामित्यद्याश्श्रुतयः प्रिये ॥
मत्त एव भवन्तीति वेदास्सत्यम्वदन्ति हि ॥१९॥
तस्माद्वेदादिरेवाहं प्रणवो मम वाचकः ॥
वाचकत्वान्ममैषोऽपि वेदादिरिति कथ्यते ॥२०॥
अकारस्तु महद्बीजं रजस्स्रष्टा चतुर्मुखः ॥
उकारः प्रकृतिर्योनिस्सत्त्वं पालयिता हरिः ॥२१॥
मकारः पुरुषो बीजी तमस्संहारको हरः ॥
बिन्दुर्महेश्वरो देवस्तिरो भाव उदाहृतः ॥२२॥
नादस्सदाशिवः प्रोक्तस्सर्वानुग्रहकारकः ॥
नादमूर्द्धनि संचिन्त्य परात्परतरः शिवः ॥२३॥
स सर्वज्ञः सर्वकर्त्ता सर्वेशो निर्मलोऽव्ययः ॥
अनिर्देश्यः परब्रह्म साक्षात्सदसतः परः ॥२४॥
अकारादिषु वर्णेषु व्यापकं चोत्तरोत्तरम् ॥
व्याप्यन्त्वधस्तनं वर्णमेवं सर्वत्र भावयेत् ॥२९॥
सद्यादीशानपर्य्यंतान्यकारादिषु पंचसु ॥
स्थितानि पंच ब्रह्माणि तानि मन्मूर्त्तयः क्रमात् ॥२६॥
अष्टौ कलास्समाख्याता अकारे सद्यजाश्शिवे ॥
उकारे वामरूपिण्यस्त्रयोदश समीरिताः ॥२७॥
अष्टावघोररूपिण्यो मकारे संस्थिताः कलाः ॥
बिन्दौ चतस्रस्संभूताः कलाः पुरुषगोचराः ॥२८॥
नादे पंच समाख्याताः कला ईशानसंभवाः ॥
षड्विधैक्यानुसंधानात्प्रपंचात्मकतोच्यते ॥२९॥
मन्त्रो यन्त्रं देवता च प्रपंचो गुरुरेव च ॥
शिष्यश्च षट्पदार्था नामेषामर्थं शृणु प्रिये ॥३०॥
पंचवर्णसमष्टिः स्यान्मन्त्रः पूर्वमुदाहतः ॥
स एव यंत्रतां प्राप्तो वक्ष्ये तन्मण्डलक्रमम् ॥३१॥
यन्त्रं तु देवतारूपं देवता विश्वरूपिणी ॥
विश्वरूपो गुरुः प्रोक्तश्शिष्यो गुरुवपुस्त्वतः ॥३२॥
ओमितीदं सर्वमिति सर्वं ब्रह्मेति च श्रुतेः ॥
वाच्यवाचकसम्बन्धोप्ययमेवार्थ ईरितः ॥३३॥
आधारो मणिपूरश्च हृदयं तु ततः परम् ॥
विशुद्धिराज्ञा च ततः शक्तिः शान्तिरिति क्रमात् ॥३४॥
स्थानान्येतानि देवेशि शान्त्यतीतं परात्परम् ॥
अधिकारी भवेद्यस्य वैराग्यं जायते दृढम् ॥३५॥
विषयः स्यामहं देवि जीवब्रह्मैक्यभावनात् ॥
सम्बन्धं शृणु देवेशि विषयः सम्यगीरितः ॥३६॥
जीवात्मनोर्मया सार्द्धमैक्यस्य प्रणवस्य च ॥
वाच्यवाचकभावोत्र सम्वन्धस्समुदीरितः ॥३७॥
व्रतादिनिरतः शान्तस्तपस्वी विजितेन्द्रियः ॥
शौचाचारसमायुक्तो भूदेवो वेदनिष्ठितः ॥३८॥
विषयेषु विरक्तः सन्नैहिकामुष्मिकेषु च ॥
देवानां ब्राह्मणोऽपीह लोकजेषु शिवव्रती ॥३९॥
सर्वशास्त्रार्थ तत्त्वज्ञं वेदान्तज्ञानपारगम् ॥
आचार्य्यमुपसंगम्य यतिं मतिमतां वरम् ॥४०॥
दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतस्सुधीः ॥
शान्त्यादिगुणसंयुक्तः शिष्यस्सौशील्यवान्वरः ॥४१॥
यो गुरुः स शिवः प्रोक्तो यश्शिवस्स गुरुः स्मृतः ॥
इति निश्चित्य मनसा स्वविचारं निवेदयेत् ॥४२॥
लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोवती ॥
समुद्रतीरे नद्यां च पर्वते वा शिवालये ॥४३॥
शुक्लपक्षे तु पंचम्यामेकादश्यां तथापि वा ॥
प्रातः स्नात्वा तु शुद्धात्मा कृतनित्य क्रियस्सुधीः ॥४४॥
गुरुमाहूय विधिना नान्दीश्राद्धं विधाय च ॥
क्षौरं च कारयित्वाथ कक्षोपस्थविवर्जितम् ॥४५॥
केशश्मश्रुनखानां वै स्नात्वा नियतमानसः ॥
सक्तुं प्राश्याथ सायाह्ने स्नात्वा सन्ध्यामुपास्य च ॥४६॥
सायमौपासनं कृत्वा गुरुणा सहितो द्विजः ॥
शास्त्रोक्तदक्षिणान्दत्त्वा शिवाय गुरुरूपिणे ॥४७॥
होमद्रव्याणि संपाद्य स्वसूत्रोक्तविधानतः ॥
अग्निमाधाय विधिवल्लौकिकादिविभेदतः ॥४८॥
आहिताग्निस्तु यः कुर्यात्प्राजापत्ये ष्टिनाहिते ॥
श्रौते वैश्वानरे सम्यक् सर्ववेदसदक्षिणम् ॥४९॥
अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात् ॥
श्रपयित्वा चरुं तस्मिन्समिदन्नाज्यभेदतः ॥५०॥
पौरुषेणैव सूक्तेन हुत्वा प्रत्यृचमात्मवान् ॥
हुत्वा च सौविष्टकृतीं स्वसूत्रोक्तविधानतः ॥५१॥
हुत्वोपरिष्टात्तन्त्रं च तेनाग्नेरुत्तरे बुधः ॥
स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ॥
यावद्ब्राह्ममुहूर्त्तं तु गायत्रीं दृढमानसः ॥५२॥
ततः स्नात्वा यथा पूर्वं श्रपयित्वा चरुं ततः ॥
पौरुषं सूक्तमारभ्य विरजान्तं हुनेद्बुधः ॥५३॥
वामदेवमतेनापि शौनकादिमतेन वा ॥
तत्र मुख्यं वामदेव्यं गर्भयुक्तो यतो मुनिः ॥५४॥
होमशेषं समाप्याथ हुनेत् ॥
ततोग्निमात्मन्यारोप्य प्रातस्सन्ध्यमुपास्य च ॥५५॥
सवितर्युदिते पश्चात्सावित्रीं प्राविशेत्क्रमात् ॥
एषणानां त्रयं त्यक्त्वा प्रेषमुच्चार्य च क्रमात् ॥५६॥
शिखोपवीते संत्यज्य कटिसूत्रादिकं ततः ॥
विसृज्य प्राङ्मुखो गच्छेदुत्तराशामुखोपि वा ॥५७॥
गृह्णीयाद्दण्डकौपीनाद्युचितं लोकवर्तने ॥
विरक्तश्चेन गृह्णीयाल्लोकवृत्तिविचारणे ॥५८॥
गुरोः समीपं गत्वाथ दण्डवत्प्रणमेत्त्रयम् ॥
समुत्थाय ततस्तिष्ठेद्गुरुपादसमीपतः ॥५९॥
ततो गुरुः समादाय विरजानलजं शितम् ॥
भस्म तेनैव तं शिष्यं समुद्धृत्य यथाविधि ॥६०॥
अग्निरित्यादिभिर्मन्त्रैस्त्रिपुण्ड्रं धारयेत्ततः ॥
हृत्पंकजे समासीनं मां त्वया सह चिन्तयेत् ॥६१॥
हस्तं निधाय शिरसि शिष्यस्य प्रीतमानसः ॥
ऋष्यादिसहितं तस्य दक्षकर्णे समुच्चरेत् ॥६२॥
प्रणवं त्रिःप्रकारं तु ततस्तस्यार्थमादिशेत् ॥
षड्विधार्थं परिज्ञानसहितं गुरुसत्तमः ॥६३॥
द्विषट्प्रकारं स गुरुं प्रणम्य भुवि दण्डवत् ॥
तदधीनो भवेन्नित्यं वेदान्तं सम्यगभ्यसेत् ॥६४॥
मामेव चिंतयेन्नित्यं परमात्मानमात्मनि ॥
विशुद्धे निर्विकारे वै ब्रह्मसाक्षिणमव्ययम् ॥६५॥
शमादिधर्मनिरतो वेदान्तज्ञानपारगः ॥
अत्राधिकारी स प्रोक्तो यतिर्विगतमत्सरः ॥६६॥
हृत्पुण्डरीकं विरजं विशोकं विशदम्परम् ॥
अष्टपत्रं केशराढ्यं कर्णिकोपरि शो भितम् ॥६७॥
आधारशक्तिमारभ्य त्रितत्वांतमयं पदम् ॥
विचिन्त्य मध्यतस्तस्य दहरं व्योम भावयेत् ॥६८॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्मां त्वया सह ॥
चिंतयेन्मध्यतस्तस्य नित्यमुद्युक्तमानसः ॥६९॥
एवंविधोपासकस्य मल्लोकगतिमेव च ॥
मत्तो विज्ञानमासाद्य मत्सायुज्यफलं प्रिये ॥७०॥
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतिवर्णनं नाम तृतीयोऽध्यायः ॥
N/A
References : N/A
Last Updated : October 13, 2020
TOP