संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|कैलास संहिता| अध्यायः ६ कैलास संहिता विषयानुक्रमणिका अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ कैलाससंहिता - अध्यायः ६ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ६ Translation - भाषांतर ॥ईश्वर उवाच ॥दक्षिणे मंडलस्याथ वैयाघ्रं चर्मशोभनम् ॥आस्तीर्य्य शुद्धतोयेन प्रोक्षयेदस्त्रमंत्रतः ॥१॥प्रणवं पूर्वमुद्धृत्य पश्चादाधार मुद्धरेत् ॥तत्पश्चाच्छक्तिकमलं चतुर्थ्यंतं नमोन्तकम् ॥२॥मनुमेवं समुच्चार्य स्थित्वा तस्मिन्नुदङ्मुखः ॥प्राणानायम्य विधिवत्प्र णवोच्चारपूर्वकम् ॥३॥अग्निरित्यादिभिर्मंत्रैर्भस्म संधारयेत्ततः ॥शिरसि श्रीगुरुं नत्वा मण्डलं रचयेत्पुनः ॥४॥त्रिकोणवृत्तं बाह्ये तु चतुरस्रात्मकं क्रमात् ॥अभ्यर्च्योमिति साधारं स्थाप्य शंखं समर्चयेत् ॥५॥आपूर्य शुद्धतोयेन प्रणवेन सुगंधिना ॥अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेन च सप्तधा ॥६॥अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत ॥शंखमुद्रां च तेनैव प्रोक्षयेदस्त्रमंत्रतः ॥७॥आत्मानं गंधपुष्पादिपूजोपकरणानि च ॥प्राणायामत्रयं कृत्वा ऋष्यादिकमथाचरेत् ॥८॥अस्य श्रीसौरमंत्रस्य देवभाग ऋषिस्ततः ॥छन्दो गायत्रमित्युक्तं देवस्सूर्यो महेश्वरः ॥९॥देवता स्यात्षडंगानि ह्रामित्यादीनि विन्यसेत् ॥ततस्संप्रोक्षयेत्पद्ममस्त्रेणाग्नेरगोचरम् ॥१०॥तस्मिन्समर्चयेद्विद्वान् प्रभूतां विमलामपि ॥सारां चाथ समाराध्य पूर्वादिपरतः क्रमात् ॥११॥अथ कालाग्निरुद्रं च शक्तिमाधारसंज्ञिताम् ॥अनन्तं पृथिवीं चैव रत्नद्वीपं तथैव च ॥१२॥संकल्पवृक्षोद्यानं च गृहं मणिमयं ततः ॥रक्तपीठं च संपूज्य पादेषु प्रागुपक्रमात् ॥१३॥धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम् ॥अधर्माद्यग्निकोणादिकोणेषु च समर्चयेत् ॥१४॥मायाधश्छदनं पश्चाद्विद्योर्ध्वच्छदनं ततः ॥सत्त्वं रजस्तमश्चैव समभ्यर्च्य यथाक्रमम् ॥१५॥पूर्वादिदिक्षु मध्ये च दीप्तां सूक्ष्मां जयामपि ॥भद्रां विभूति विमलाममोघां वैद्युतामपि ॥१६॥सर्वतोमुखसंज्ञां च कन्दनालं तथैव च ॥सुषिरं च ततस्तं तु कंटकांस्तदनंतरम् ॥१७॥मूलच्छदनकिंजल्कप्रकाशसकलात्मनः ॥पंचग्रंथिकर्णिकां च दलानि तदनंतरम् ॥१८॥केशरान्ब्रह्मविष्णू च रुद्रमात्मानमेव च ॥अन्तरात्मानमपि च ज्ञानात्मपरमात्मनि ॥१९॥सम्पूज्य पश्चात्सौराख्यं योगपीठं समर्चयेत् ॥पीठोपरि समाकल्प्य मूर्त्तिं मूलेन मूलवित् ॥२०॥निरुद्धप्राण आसीनो मूलेनैव स्वमूलतः ॥शक्तिमुत्थाप्य तत्तेजः प्रभावात्पिंगलाध्वना ॥२१॥पुष्पांजलौ निर्गमय्य मण्डलस्थस्य भास्वतः ॥सिन्दूरारुणदेहस्य वामार्द्धदयितस्य च ॥२२॥अक्षस्रक्पाशखट्वांगकपालांकुशपंकजम् ॥शंखं चक्रं दधानस्य चतुर्वक्त्रस्य लोचनैः ॥२३॥राजितस्य द्वादशभिस्तस्य हृत्पंकजोदरे ॥प्रणवं पूर्वमुद्धृत्य ह्रांह्रींसस्तदनन्तरम् ॥२४॥प्रकाशशक्तिसहितं मार्तण्डं च ततः परम् ॥आवाहयामि नम इत्यावाह्या वाहनाख्यया ॥२५॥मुद्रया स्थापनाद्याश्च मुद्रास्संदर्शयेत्ततः ॥विन्यस्यांगानि ह्रां ह्रीं ह्रूमंतेन मनुना ततः ॥२६॥पंचोपचारान्संकल्प्य मूलेनाभ्यर्चयेत्त्रिधा ॥केशरेषु च पद्मस्य षडंगानि महेश्वरि ॥२७॥वह्नीशरक्षोवायूनां परितः क्रमतः सुधीः ॥द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥२८॥पूर्वाद्युत्तरपर्यंतं दलमूलेषु पार्वति ॥आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥२९॥अर्को ब्रह्मा तथा रुद्रो विष्णुश्चेति पुनः प्रिये ॥ईशानादिषु संपूज्यास्तृतीयावरणे पुनः ॥३०॥सोमं कुजं बुधं जीवं कविं मंदं तम स्तमः ॥समंततो यजेदेतान्पूर्वादिदलमध्यतः ॥३१॥अथवा द्वादशादित्यान्द्वितीयावरणे यजेत ॥तृतीयावरणे चैव राशीर्द्वादश पूजयेत् ॥३२॥सप्तसागरगंगाश्च बहिरस्य समंततः ॥ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥३३॥ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥सप्तच्छन्दोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥३४॥एवं त्र्यावरणं देवं समभ्यर्च्य दिवाकरम् ॥विरच्य मंडलं पश्चाच्चतुरस्रं समाहितः ॥३५॥स्थाप्य साधारकं ताम्रपात्रं प्रस्थोदविस्तृतम् ॥पूरयित्वा जलैः शुद्धैर्वासितैः कुसुमादिभिः ॥३६॥अभ्यर्च्य गंधपुष्पाद्यैर्जानुभ्यामवनीं गतः ॥अर्घ्यपात्रं समादाय भूमध्यान्तं समुद्धरेत् ॥३७॥ततो ब्रूयादिमं मंत्रं सावित्रं सर्वसिद्धिदम् ॥शृणु तच्च महादेवि भक्तिमुक्तिप्रदं सदा ॥३८॥सिन्दूरवर्णाय सुमण्डलाय नमोऽस्तु वज्राभरणाय तुभ्यम् ॥पद्माभनेत्राय सुपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥३९॥सरक्तचूर्णं ससुवर्णतोयं स्रक्कुंकुमाढ्यं सकुशं सपुष्पम् ॥प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥४०॥एवमुक्त्वा ततो दत्त्वा तदर्थं सूर्यमूर्त्तये ॥नमस्कुर्यादिमं मंत्रं पठित्वा सुसमाहितः ॥४१॥नमश्शिवाय साम्बाय सगणायादिहेतवे ॥रुद्राय विष्णवे तुभ्यं ब्रह्मणे च त्रिमूर्तये ॥४२॥एवमुक्त्वा नमस्कृत्य स्वासने समवस्थितः ॥ऋष्यादिकं पुनः कृत्वा करं संशोध्य वारिणा ॥४३॥पुनश्च भस्म संधार्य पूर्वोक्तेनैव वर्त्मना ॥न्यासजातम्प्रकुर्वीत शिवभावविवृद्ध्धये ॥४४॥पंचोपचारैस्संपूज्य शिरसा श्रीगुरुम्बुधः ॥प्रणवं श्रीचतुर्थ्यंतं नमोंतं प्रणमेत्ततः ॥४५॥पंचात्मकं बिन्दुयुतं पंचमस्वरसंयुतम् ॥तदेव बिन्दुसहितं पंचमस्वरवर्जितम् ॥४६॥पंचमस्वरसंयुक्तं मंत्रीशं च सबिन्दुकम् ॥उद्धृत्य बिन्दुसहितं संवर्तकमथोद्धरेत् ॥४७॥एतैरेव क्रमाद्बीजैरुद्धृतैः प्रणमेद्बुधः ॥भुजयोरूरुयुग्मे च गुरुं गणपतिन्तथा ॥४८॥दुर्गां च क्षेत्रपालं च बद्धांजलिपुटः स्थितः ॥ओमस्त्राय फडित्युक्त्वा करौ संशोध्य षट् क्रमात् ॥४९॥अपसर्प्पन्त्विति प्रोच्य प्रणवं तदनंतरम् ॥अस्त्राय फडिति प्रोच्य पार्ष्णिघातत्रयेण तु ॥५०॥उद्धृत्य विघ्नान्भूयिष्ठान्कर तालत्रयेण तु ॥अन्तरिक्षगता न्दृष्ट्वा विलोक्य दिवि संस्थितान् ॥५१॥निरुद्धप्राण आसीनो हंसमंत्रमनुस्मरन् ॥हृदिस्थं जीवचैतन्यं ब्रह्मनाड्या समान येत् ॥५२॥द्वादशांतस्स्थविशदे सहस्रारमहाम्बुजे ॥चिच्चन्द्रमण्डलान्तस्थं चिद्रूपं परमेश्वरम् ॥५३॥शोषदाहप्लवान्कुर्याद्रेचकादि क्रमेण तु ॥सषोडशचतुष्षष्टिद्वात्रिंशद्गणनायुतैः ॥५४॥वाय्वग्निसलिलाद्यैस्तैस्स्तवेदाद्यैरनुक्रमात् ॥प्राणानायम्य मूलस्थां कुण्डलीं ब्रह्मरंध्रगाम् ॥५५॥आनीय द्वादशांतस्थसहस्राराम्बुजोदरे ॥चिच्चन्द्रमण्डलोद्भूतपरमामृतधारया ॥५६॥संसिक्तायां तनौ भूयश्शुद्धदेहस्सुभावनः ॥सोहमित्यवतीर्याथ स्वात्मानं हृदयाम्बुजे ॥५७॥आत्मन्यावेश्य चात्मानममृतं सृतिधारया ॥प्राणप्रतिष्ठां विधिवत्कुर्यादत्र समाहितः ॥५८॥एकाग्रमानसो योगी विमृश्यात्तां च मातृकाम् ॥पुटितां प्रणवेनाथ न्यसेद्बाह्ये च मातृकाम् ॥५९॥पुनश्च संयतप्राणः कुर्याद्दृष्ट्यादिकं बुधः ॥शंकरं संस्मरंश्चित्ते संन्यसेच्च विमत्सरः ॥६०॥प्रणवस्य ऋषिर्ब्रह्मा देवि गायत्रमीरितम् ॥छन्दोत्र देवताहं वै परमात्मा सदाशिवः ॥६१॥अकारो बीजमाख्यातमुकारः शक्तिरुच्यते ॥मकारः कीलकं प्रोक्तं मोक्षार्थे विनियुज्यते ॥६२॥अंगुष्ठद्वयमारभ्य तलांतं परिमार्जयेत् ॥ओमित्युक्त्वाथ देवेशि करन्यासं समारभेत् ॥६३॥दक्षहस्तस्थितांगुष्ठं समारभ्य यथाक्रमम् ॥वामहस्तकनिष्ठांतं विन्यसेत्पूर्ववत्क्रमात् ॥६४॥अकारमप्युकारं च मकारं बिन्दुसंयुतम् ॥नमोन्तं प्रोच्य सर्वत्र हृदयादौ न्यसेदथ ॥६५॥अकारं पूर्वमुद्धृत्य ब्रह्मात्मानमथाचरेत् ॥ङेंतं नमोंतं हृदये विनियुज्यात्तथा पुनः ॥६६॥उकारं विष्णुसहितं शिरोदेशे प्रविन्यसेत् ॥मकारं रुद्रसहितं शिखायान्तु प्रविन्यसेत् ॥६७॥एवमुक्त्वा मुनिर्मंत्री कवचं नेत्रमस्तके ॥विन्यसेद्देवदेवेशि सावधानेन चेतसा ॥६८॥अंगवक्त्रकलाभेदात्पंच ब्रह्माणि विन्यसेत् ॥शिरोवदनहृदगुह्यपादेष्वेतानि विन्यसेत् ॥६९॥ईशान्यस्य कलाः पंच पंचस्वेतेषु च क्रमात् ॥ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥७०॥चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥७१॥अघोरस्य कलाश्चाष्टौ पूजनीया यथाक्रमम् ॥पश्चात्त्रयोदशकलाः पायुमेढ्रोरुजानुषु ॥७२॥जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत् ॥सद्यस्यापि कला चाष्टौ नेत्रेषु च यथाक्रमम् ॥७३॥कीर्तितास्ताः कलाश्चैव पादयोरपि हस्तयोः ॥प्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥७४॥अष्टत्रिंशत्कलान्यासमेवं कृत्वा तु सर्वशः ॥पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत् ॥बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः ॥पार्श्वतोदरजंघेषु पादयोः पृष्ठतस्तथा ॥७६॥इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः ॥हंसन्यासं प्रकुर्वीत परमात्मविबोधिनि ॥७७॥इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ न्यासवर्णनं नाम षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : October 13, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP