मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे| देवो नश्शुभमातनोतुदशधा नि... विष्णु स्तोत्रे मार्कण्डेय उवाच अवतारानहं... नमोऽस्तु नारायणमन्दिराय न... प्रलयोदन्वदुदीर्णजलविहारा... श्रीगणेशाय नमः । ॐ देवाना... मार्कण्डेय उवाच वामनेन स ... उदयरवि सहस्रद्योतितं रूक्... देवो नश्शुभमातनोतुदशधा नि... हेमाद्रिशिखराकारं शुद्धस्... प्रलयपयोधिजलेधृतवानसि वेद... नमामि ते देव पदारविन्दं प... मत्स्यं कूर्मं वराहं च वा... नारायण नारायण जय गोविन्द ... अग्रे कुरूणामथ पाण्डवानां... श्रीशुक उवाच- इथं शरत्स्... ॐ अथ पुरुषो ह वै नारायणॊऽ... लक्ष्मीभर्तुर्भुजाग्रे कृ... नारद उवाच- पुनर्दैत्यान्... प्रातः स्मरामि फणिराजतनौ ... महिम्नस्ते पारं विधिहरफणी... विष्णुस्तवराजः (कल्किपुरा... नमो मत्स्यकूर्मादिनानास्व... चिदंशं विभुं निर्मलं निर्... गौरगणोद्देशदीपिका गौरगोविन्दर्चनस्मरणपद्धति प्रस्तावना श्रीगणेशाय नमः ॥ नूनं त... श्रीगणेशाय नमः ॥ देवा ऊचु... ऋष्य ऊचुः ॥ जितं जितं त... ब्रह्मोवाच ॥ नतोऽस्म्यन... श्रीगणेशाय नमः । श्रीमत... अदितिरुवाच । यज्ञेशयपक्... अदितिरुवाच । नमस्ते देव... दशावतारस्तोत्रम् - देवो नश्शुभमातनोतुदशधा नि... देवी देवतांची स्तुती करताना म्हणावयाच्या रचना म्हणजेच स्तोत्रे. स्तोत्रे स्तुतीपर असल्याने, त्यांना कोणतेही वैदिक नियम नाहीत. स्तोत्रांचे पठण केल्याने इच्छित फल प्राप्त होते.In Hinduism, a Stotra is a hymn of praise, that praise aspects of Devi and Devtas. Stotras are invariably uttered aloud and consist of chanting verses conveying the glory and attributes of God. Tags : godgoddessstotraदेवतादेवीस्तोत्र श्रीमद्वेदान्तदेशिकरचितम् Translation - भाषांतर देवो नश्शुभमातनोतुदशधा निर्वर्तयन्भूमिकांरङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकैः ।यद्भावेषु पृथग्विधेष्वनुगुणान्भावान् स्वयं बिभ्रतीयद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥१॥निर्मग्नश्रुतिजालमार्गणदशादत्तक्षणैरीक्षणै-रन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् ।निष्प्रत्यूहतरङ्गरिङ्गणमिथःप्रत्यूढपाथच्छटा-डोलारोहसदोहलं भगवतो मात्स्यं वपुः पातु नः ॥२॥अव्यासुर्भुवनत्रयीमनिभृतं कण्डूय़नैरद्रिणानिद्राणस्य परस्य कूर्मवपुषो निःश्वासवातोर्मयःयद्विक्षेपणसंस्कृतोदधिपयःप्रेङ्खोलपर्यङ्किका-नित्यारोहणनिर्वृतो विहरते देवः सहैव श्रिया ॥३॥गोपायेदनिशं जगन्ति कुहनापोत्री पवित्रीकृत-ब्रह्माण्डः प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरैः ।यद्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कंपनित्यस्थितिःब्रह्मस्तंबमसौदसौ भगवती मुस्तेव विश्वंभरा ॥४॥प्रत्यादिष्टपुरातनप्रहरणग्रामः क्षणं पाणिजैःपायात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरवः ।यद्प्रादुर्भवनादवन्ध्यजठरा यादृच्छिकाद्वेधसांया काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥५॥व्रीडाविद्धवदान्यदानवयशोनासीरधाटीभटःत्रय्यक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रमः ।यत्प्रस्तावसमुच्छ्रितध्वजपटीवृत्तान्तसिद्धान्तिभि-स्स्रोतोभिस्सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥६॥क्रोधाग्निं जमदग्निपीडनभवं सन्तर्पयिष्यन्क्रमा-दक्षत्रामपि सन्ततक्ष य इमां त्रिस्सप्तकृत्वः क्षितिम् ।दत्वा कर्मणि दक्षिणां क्वचन तामास्कन्द्य सिन्धुं वस-न्नब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनिः ॥७॥पारावारपयोविशोषणकलापारीणकालानल-ज्वालाजालविहारहारिविशिखव्यापारघोरक्रमः ।सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रतीधर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत नः ॥८॥फक्कत्कौरवपट्टणप्रभृतयः प्रास्तप्रलंबादयःतालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि नःक्षीरं शर्करयैव याभिरपृथग्भूता प्रभूतैर्गुणैःआकौमारकमस्वदन्त जगते कृष्णस्य ता खेलय: ॥९॥नाथायैव नमःपदं भवतु नश्चित्रैश्चरित्रक्रमै-र्भूयोभिर्भुवानान्यमूनि कुहनागोपाय गोपायते ।कालिन्दीरसिकाय कालियफणिस्फारस्फटावाटिकारङ्गोत्सङ्गविशङ्कचंक्रमधुरापर्यायचर्याय ते ॥१०॥भाविन्या दशया भवन्निह भवध्वंसाय नः कल्पतांकल्की विष्णुयशस्सुतः कलिकथाकालुष्यकूलङ्कषः ।निश्शेषक्षतकण्टके क्षितितले धाराजलौघैर्ध्रुवंधर्म्यं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधर: ॥११॥इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरेरक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन्क्रीडावल्लव कल्कवाहनदशा कल्किन्निति प्रत्यहंजल्पन्तः पुरुषाः पुनन्ति भुवनं पुण्यौघपण्यापणाः ॥१२॥ N/A References : N/A Last Updated : February 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP