मराठी मुख्य सूची|स्तोत्रे|विष्णु स्तोत्रे|
मार्कण्डेय उवाच अवतारानहं...

दशावतरवर्णनं - मार्कण्डेय उवाच अवतारानहं...

विष्णू हि सर्वोच्च शक्ती असून, त्रिमूर्ती ब्रह्मा, विष्णू आणि महेश यांपैकी, भगवान विष्णूचे कार्य विश्वाचा सांभाळ आणि प्रतिपाळ करणे आहे
Vishnu,also known as Narayana is the Supreme Being or Ultimate Reality
In the Trimurti, Vishnu is responsible for the maintenance or 'preservation' of the universe.


मार्कण्डेय उवाच
अवतारानहं वक्ष्ये देवदेवस्य चक्रिणः ।
ताञ्शृणुष्व महीपाल पवित्रान् पापनाशनान् ॥१॥
यथा मत्स्येन रूपेण दत्ता वेदाः स्वयम्भुवे ।
मधुकैटभौ च निधनं प्रापितौ च महात्मना ॥२॥
यथा कौर्मेण रूपेण विष्णुना मन्दरो धृतः ।
तथा पृथ्वी धृता राजन् वाराहेण महात्मना ॥३॥
तेनैव निधनं प्राप्तो यथा राजन् महाबलः ।
हिरण्याक्षो महावीर्यो दितिपुत्रो महातनुः ॥४॥
यथा हिरण्यकशिपुस्त्रिदशानामरिः पुरा ।
नरसिंहेन देवेन प्रापितो निधनं नृप ॥५॥
यथा बद्धो बलिः पूर्वं वामनेन महात्मना ।
इन्द्रस्त्रिभुवनाध्यक्षः कृतस्तेन नृपात्मज ॥६॥
रामेण भूत्वा च यथा विष्णुना रावणो हतः ।
सगणाश्चदभुता राजन् राक्षसा देवकण्टकाः ॥७॥
यथा परशुरामेण क्षत्रमुत्सादितं पुरा ।
बलभद्रेण रामेण यथा दैत्यः पुरा हतः ॥८॥
यथा कृष्णेन कंसाद्या हता दैत्याः सुरद्विषः ।
कलौ प्राप्ते यथा बुद्धो भवेन्नारायणः प्रभुः ॥९॥
कल्किरूपं समास्थाय यथा म्लेच्छा निपातिताः ।
समाप्ते तु कलौ भूयस्तथा ते कथयाम्यहम् ॥१०॥
हरेरनन्तस्य पराक्रमं यः शृणोति भूपाल समाहितात्मा ।
मयोच्यमानं स विमुच्य पापं प्रयाति विष्णोः पदमत्युदारम् ॥११॥
इति ।

नरसिंहपुराण अध्याय ३६ श्लोकसंख्या ११
श्रीनरसिंहपुराणे हरेः प्रादुर्भावानुक्रमणे षटत्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP