अन्तर्नलाख्यायिका

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


गोमुखेनेति कथिते प्रहृष्टे नरवाहने ।
तत्स्पर्धाबन्धसंरब्धो मरुभूतिरभाषत ॥२८१॥
चन्द्रस्वामीति विप्रोऽभून्नगरे कमलाभिधे ।
भार्या देवमती नाम तस्याभूदुचितव्रता ॥२८२॥
महीपालाभिधं तस्यां स प्राप तनयं प्रियम् ।
अलंकारं निजकुले कन्यां चन्द्रवतीं तथा ॥२८३॥
कदाचिदथ दुर्भिक्षे भार्यामामन्त्र्य तां ययौ ।
श्वशुरावसथे न्यस्तं तं पुत्रं कन्यकां च ताम् ॥२८४॥
पथि ग्रीष्मोपसंतप्तं संप्राप्तो जीवनं वनम् ।
शुशोच दृष्ट्वा तृष्णार्तौ बालौ शुश्यन्मुखाम्बुजौ ॥२८५॥
निधाय तौ तथैकान्ते तदर्थं जलकाङ्क्षया ।
स व्रजञ्शबराधीशमपश्यद्दारुणाकृतिम् ॥२८६॥
तेन दुर्गोपहाराय नीते तस्मिन्निजालयम् ।
तौ बालकौ महाशोकवह्निसंतापमापतुः ॥२८७॥
ततो यदृच्छयायातो वणिक्सार्थवराभिधः ।
निजं निनाय कृपया तौ गृहं श्रुत््कथः ॥२८८॥
चन्द्रवत्या समं स्वस्रा महीपालोऽथ तद्गृहे ।
श्रुतिस्मृतिक्रियासक्तश्चिरं तस्थौ द्विजाग्रणीः ॥२८९॥
ततस्तारावलोकस्य नृपतेः सचिवो द्विजः ।
श्रीमान््तस्वामीति तं मित्रं प्राप सार्थपम् ॥२९०॥
स तद्गृहे द्विजसुतं दृष्ट्वा कन्यां च विस्मितः ।
दत्तः सार्थवरेणैव प्रीतः पुत्रपदे व्यधात् ॥२९१॥
अनन्तस्वामिनानीतौ तारापुरनिवासिनौ ।
तद्वधूभ्यां च यत्नेन सुताविति विवर्धितौ ॥२९२॥
अस्मिन्नवसरे चन्द्रस्वामी शबरमन्दिरे ।
तुष्टाव भास्करं गाधनिगडाबन्धपीडितः ॥२९३॥
तत्स्तोत्रतुष्टो भगवान्स्वप्ने शबरमंशुमान् ।
आदिदेश कृपाविष्टो द्विजोऽयं त्यज्यतामिति ॥२९४॥
तदाज्ञया परित्यक्तस्तेन सोऽथ सुताशया ।
चिन्तासंतप्तहृदयो बभ्राम निखिलां महीम् ॥२९५॥
स पृच्चन्पथिकान्सर्वाञ्शुश्राव जलधेस्तटे ।
बालौ केनापि वणीजा प्राप्तावित्यस्फुटं पथि ॥२९६॥
समुदरद्वीपविशयनगरग्रामगह्वरम् ।
स विविच्य शनैः प्राप क्षपायां निर्जनं वनम् ॥२९७॥
ददर्श मातृकास्तत्र देवतायोगिनीगणैः ।
सेविताः कलिसंसक्ता नृत्यगीररसाकुलाः ॥२९८॥
तत्रैका योगिनी प्राह निजां दृष्ट्वानुयायिनीम् ।
निरीक्ष्यमाणां विप्रं सा साभिलाषं सविभ्रमाम् ॥२९९॥
अयि किं त्वमदृष्टेऽसि विप्रेऽस्मिन्नभिलाषिणी ।
पुरा नपुंसकं प्राप सुन्दरी राजकन्यका ॥३००॥
भर्तारं निशि शय्यायां तं दृष्ट्वा दुःखिताभवत् ।
सा पित्रे प्रेशयामास दूतं सोऽप्याययौ रुषा ॥३०१॥
नपुंसकेन मत्कन्या दूषितेति रणोन्मुखः ।
भयात्तस्याथ जामाता मन्त्रेणाराध्य गुह्यकम् ॥३०२॥
अवाप्य पौरुषं लिङ्गं सिषेवे सुन्दरीं पुनः ।
त्वमप्यज्ञातशीलेऽस्मिन्मा कृथाः सादरं मनः ॥३०३॥
तामित्युक्त्वा समभ्येत्य पप्रच्छ ब्राह्मणं ततः ।
अप्यस्यां साभिलाषस्त्वं न वेति द्विज कथ्यताम् ॥३०४॥
सोऽब्रवीद्देवि मनसः स्वभावो ह्यभिलाषिता ।
किं त्वहं त्वविवेकेन रक्षाम्यनुचितादिति ॥३०५॥
तच्छ्रुत्वा वरदा देवी तस्मै नीलोत्पलं ददौ ।
सर्वार्थसिद्धिमेतेन प्राप्स्यसीत्यभिधाय सा ॥३०६॥
तत्प्राप्य स व्रजन्प्रातर्गत्वा तारापुरं शनैः ।
हा कष्टमिति शुश्राव जनकोलाहलं महत् ॥३०७॥
किमेतदिति पृष्ट्वासौ पौरेभ्यः स्वामिनो महत् ।
अनन्तस्वामिनः सूनुर्दत्तको नृपमन्त्रिणः ॥३०८॥
सर्पेण दष्टः श्रुत्वेति तमपश्यव्द्यसुं ततः ।
नीलोत्पलप्रभावेन जीवयित्वा स तं क्षणात् ॥३०९॥
कण्ठे जग्राह सोत्कण्ठं परिज्ञाय निजात्मजम् ।
ततो बन्धुमतीं नाम तनयां गुणशालिनीम् ॥३१०॥
ददौ तारावलोकोऽस्मै राज्यार्धं च नरेश्वरः ।
प्राप्तराज्यं महीपालं चन्द्रस्वामी ततः सुतम् ॥३११॥
तं रहः प्राह जननीं द्रष्टुमेहि निजां पुरीम् ।
सा हि दीर्घवियोगेन किं तु जीवति वा न वा ॥३१२॥
तामादाय पुनः पुत्र समेष्यावः क्षणादिति ।
तव संप्राप्तराज्यस्य गुरुभक्तिर्विभूषणम् ॥३१३॥
लक्ष्मीलताकुठारो हि गुरुशापः सुदुःसहः ।
चक्रस्य वणिजः पूर्वं पितुरादेशखण्डनात् ॥३१४॥
ज्वालाकुलं मूर्ध्नि चक्रं पपातात्यन्तदुःसहम् ।
पितरौ सेवमानस्य धर्मव्याधस्य कोऽ‍प्यभूत् ॥३१५॥
ज्ञानप्रकाशो येनास्य शिष्यतां मुनयो ययुः ।
इति पित्रा समादिष्टः स ययौ मातुरन्तिकम् ॥३१६॥
याते तस्मिन्वियोगार्ता बन्धुमत्यभवत्ततः ।
सा दुःखिता मातृगिरा सत्रागारमकारयत् ॥३१७॥
नानादेशगतामेकद्विजविश्रान्तिपादपम् ।
ततः संगमदत्ताख्यो द्विजन्मा तीर्थशालिनीम् ॥३१८॥
भ्रान्त्वा वसुमतीं लेभे स तत्र स्नानभोजनम् ।
बन्धुमत्या स पृष्टोऽथ वियोगे दुःखभेषजम् ॥३१९॥
उवाच पुण्ययोगेन निजं भर्तारमाप्स्यसि ।
स्वयमेव मयाश्चर्यं दृष्टं श्रृणु पतिव्रते ॥३२०॥
भ्रान्त्वा निखिलतीर्थानि हिमशैलसरोवरे ।
उत्थितं दिव्यपुरुषं दिव्याभरनभूषितम् ॥३२१॥
अपश्यं दिव्यनारीभिः सेव्यमानं सरोवरात् ।
रममाणे ततस्तस्मिंस्तत्र लीलावतीसखे ॥३२२॥
केलिक्रान्ते क्षणं सुप्ते कोऽपि राजा समाययौ ।
स समभ्येत्य निद्रालोः खङ्गं तस्यान्तिके स्थितम् ॥३२३॥
गृहीत्वा तत्प्रभावेण तं जघान पदा ततः ।
तस्मिन्निरस्ते विभ्रष्टविद्ये निपतिते तटात् ॥३२४॥
स राजा तद्वधूयुग्मं प्राप्य मामवदत्ततः ।
एष पाशुपताचार्यो मया सह पुरा व्यधात् ॥३२५॥
पातालसिद्धिखङ्गोऽयं दिव्यः प्राप्तस्ततो मया ।
छद्मना मम सुप्तस्य हृत्वा खङ्गमिमं निशि ॥३२६॥
पापः प्रयातो नभसा दिव्यस्त्रीसङ्गसिद्धिदम् ।
अद्य द्वादशभिर्लब्धः सोऽ‍यं संवत्सरैर्मया ॥३२७॥
निधनार्होऽपि न हतः सिद्धयोऽपि हृतास्तु ताः ।
इत्युक्त्वा सरसो मध्ये दिव्यमाणिक्यमन्दिरम् ॥३२८॥
सहैवामरकान्ताभ्यां स विवेश नरेश्वरः ।
इति बन्धुमती श्रुत्वा चित्रमुक्तं द्विजन्मना ॥३२९॥
बबन्ध धैर्यं धर्मस्था सती दयितसंगमे ।
कदाचिदपरोऽभ्येत्य तां द्विजः सत्रशालिकाम् ॥३३०॥
भुक्त्वा विज्ञातवृत्तान्तः प्राह बन्धुमतीं कृशाम् ।
निषधेशु नलो नाम भूपालो ललिताकृतिः ॥३३१॥
अभूद्गुणगणोद्यानविकाशकुसुमाकरः ।
मृगयारसिकः सोऽथ कदाचित्कनकप्रभाम् ॥३३२॥
बबन्ध हंसांस्ते चाहुर्मुञ्चास्मांस्त्वं महीपते ।
सुता विदर्भराजस्य भीमस्यास्ति सुमध्यमा ॥३३३॥
दमयन्तीति विख्याता वयं तत्केलिसारसाः ।
ते वयं भवता मुक्ताः करिष्यामः प्रियं तव ॥३३४॥
भविष्यसि तृतीयेन तन्मुखाम्भोजषट्पदः ।
इति श्रुत्वैव तत्याज हंसान्व्याप्तो मनोभुवा ॥३३५॥
श्रुतेनापीप्सितं वस्तु कस्य धैर्यं न कर्षति ।
ते गत्वा दमयन्त्यै तं कथयन्तो न्यवेदयन् ॥३३६॥
सौभाग्यमिव साकारं प्रत्यक्षमिव मन्मथम् ।
शनकैर्विरहक्षामौ तौ गुणाकर्णनाम्निथः ॥३३७॥
दिनैर्बभूवतुः प्रौधशरताकाण्डपाण्डुरौ ।
अथ राजसुता ध्यात्वा नलसंगमवाञ्छया ॥३३८॥
नृपेभ्यः प्राहिणोद्दूतान्पितुर्वाक्यात्सयंवरे ।
समागतेषु भूपेषु लोकपालाः समाययुः ॥३३९॥
शक्राद्या नारदगिरा कन्यावरणलोलुपाः ।
साभिलाषां नले ज्ञात्वा दमयन्तीं दृढव्रतामामम ॥३४०॥
तद्रूपा एव विविशुः स्वयंवरसभां सुराः ।
निर्विशेषान्नलान्दृष्ट्वा दमयन्ती भुवि स्थिता ॥३४१॥
छायाद्वितीयमवृणोत्परिज्ञाय नलं धिया ।
ज्ञात्वा देवाः स्वमाकारं विधाय प्रददुर्वरान् ॥३४२॥
नलरूपाय संतुष्टाः स्मरणाच्च स संनिधिम् ।
दमयन्तीं समादाय स्वपुरं नैषधे गते ॥३४३॥
द्वापरेण कलिः सार्धं कन्यालोभात्समाययौ ।
वृतस्तया नलो राजा गच्छ वृत्तः स्वयंवरः ॥३४४॥
श्रुत्वेति देववचनं वृद्धः प्रायात्कलिर्नलम् ।
तदाविष्टः स नृपतिः सगोत्रेणाथ शत्रुणा ॥३४५॥
केनापि पुष्कराख्येन जित्वारण्यं विवासितः ।
दमयन्त्या स सहितः काननं प्राप्य निर्जनम् ॥३४६॥
गृहीतुं वाससा हंसान्क्षुत्क्षामः क्षिप्रमुद्ययौ ।
कलिद्वापरनिर्दिष्टास्ते हंसास्तूर्णमंशुकम् ॥३४७॥
जह्नुस्तस्य ततः सोऽपि दयितार्धाम्बरं श्रितः ।
तावेकवसनाद्दूरं गत्वा प्राप्य वनान्तरम् ॥३४८॥
निषण्णौ स्थण्डिले तृष्णाशुष्यद्वदनपङ्कजौ ।
दमयन्त्यां प्रसुप्तायां नलः कलिविमोहितः ॥३४९॥
कृत्वा शस्त्रेण वस्त्रार्धं प्रययौ दैवविप्लुतः ।
स गत्वा पुनरभ्यायात्पुनः प्रायात्स दुःखितः ॥३५०॥
दोलाविलोलहृदयो रागान्मोहाच्च भूपतिः ।
त्रायस्वेव्ति समाकर्ण्य शब्दं गत्वा वनान्तरम् ॥३५१॥
दावानलादुज्जहार कर्कोटं पन्नगोत्तम म् ।
ततस्तद्विशफूत्कारैर्यातः क्षिप्रं विवर्णताम् ॥३५२॥
हस्वोऽविटङ्कवदनः सोऽभवन्नृपशेखरः ।
ऋतुपर्णस्य नगरीमयोध्यां प्राप्य दुःखितः ॥३५३॥
प्राप्तनागांशुकस्तस्थौ सूदसारथ्यकर्मणि ।
दमयन्ती प्रबुद्धापि प्राणनाथविनाकृता ॥३५४॥
विललापातिकरुणं दृषदामपि दारणम् ।
क्कसि मे हृदयाधीश फुल्लपद्मदलेक्षण ॥३५५॥
तां दुष्टाजगरेणाशु ग्रस्तां वा क्रोशतीं मुहुः ।
तामाकर्ण्यागतो व्याधो हत्वा दुष्टं मुमोच ताम् ॥३५६॥
ततः कामातुरो भूतकोपाद्भस्म चकार तम् ।
इति क्षामाक्षरं बाला शोचन्ती सा ययौ शनैः ॥३५७॥
कालेन वैदर्भपुरीं पितुः प्राप्य सुमध्यमा ।
एकवेणीव्रता तस्थौ नलसंगमवाञ्छया ॥३५८॥
सा ततः प्राहिणोद्विप्रान्विचेतुं निशधाधिपम् ।
पृथिवीं ते च तद्गाथा गायन्तो बभ्रमुश्चिरम् ॥३५९॥
ऋतुपर्णपुरे धीमानेको विप्रश्चरन्मुहुः ।
जगौ विगुणयंस्तत्र नलस्याद्भुतचेष्टितम् ॥३६०॥
मनोरथमपि च्छित्वा वाससोऽर्धं गतो ह्यसि ।
प्राणेश्वर प्रियां भार्यां क्क नु त्यक्त्वा विमोहिताम् ॥३६१॥
द्विजस्येत्यथ सारथ्यच्छन्नस्तुरगमन्दिरम् ।
श्रुत्वैव विकटाकारः सास्रोऽभूद्बाहुकाभिधः ॥३६२॥
सोऽब्रवीद्दैवदग्धानां दुष्कर्महतचेतसाम् ।
निकारं करुणापूर्णः सहन्ते सरलाशयाः ॥३६३॥
बाहुकस्येति वचनं श्रुत्वा साश्रुदृशो वचः ।
अयोध्यां ब्राह्मणो गत्वा दमयन्त्यै न्यवेदयत् ॥३६४॥
सापि स्वयंवरव्याजादृतुपर्ण्म महीभुजम् ।
एकेनैव निनायाह्ना लङ्घितानेकयोजनम् ॥३६५॥
स वाजिहृदयज्ञेन बाहुकेनाश्ववाहिना ।
ध्यात्वायोध्याधिपं प्राप्तं नलं सूतमशङ्कत ॥३६६॥
ऋतुपर्णप्रदिष्टं च प्राप्याक्शहृदयं नलः ।
नागांशुकेन तत्याज बाहुकस्तां विरूपताम् ॥३६७॥
कर्कोटविषदग्धोऽथ तच्छरीराद्विनिर्गतः ।
कलिर्विभीतकतरुं विवेश भयविह्वलः ॥३६८॥
ततः स्वरूपसुभगं नलं पद्मदलेक्षणम् ।
दमयन्ती समासाद्य हृष्टा निर्वॄतिमाययौ ॥३६९॥
नलोऽपि स्वपुरं गत्वा सानुगो वल्लभासखः ।
द्यूतेन पुष्करं जित्वा निजं राज्यमवाप्तवान् ॥३७०॥
इति वैदर्भतनया दयितं प्राप सुन्दरी ।
त्वमप्येवं महीपालं द्विजेन्द्रं पतिमाप्स्यसि ॥३७१॥
इत्यन्तर्नलाख्यायिका ॥१२॥

N/A

References : N/A
Last Updated : October 29, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP