समुद्रशूराख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
ततः कदाचिदाकर्ण्य तूर्यशब्दं पुरान्तिके ।
किमेतदिति पप्रच्छ सचिवान्नरवाहनः ॥२०२॥
ततो हरिशिखः प्राह भद्रस्य वणिजो गृहे ।
कौशाम्बीवासिनो देव वर्तते विपुलोत्सवः ॥२०३॥
लब्धो निजगृहोपान्तान्निधिस्तेन महाधनः ।
कृपया वत्सराजेन न चात्तस्तन्निवेदितः ॥२०४॥
तत्प्रसादाद्गृहं तस्य वणिजः प्रस्तुतोत्सवे ।
सुतारस्तूर्यशब्दोऽयं रुणद्धि निखिलां पुरीम् ॥२०५॥
उक्ते हरिशिखेनेति गोमुखः प्राह सस्मितः ।
अस्त्येवमेव धन्यानां विधाता वाञ्छितप्रदः ॥२०६॥
पुरा समुद्रशूरेण वणिजा द्वीपगामिना ।
भग्ने प्रवहणे प्राप्तो जलोच्छूनः शवोऽ)म्बुधौ ॥२०७॥
तेनैवोत्तीर्य जलधेर्हमद्वीपमवाप्य सः ।
शववस्त्राञ्चलासक्तां मणिमालामवाप्तवान् ॥२०८॥
तां कण्ठसूत्रिकां पूर्वं स चौरो राजमन्दिरात् ।
हृत्वा जलौघान्निःसॄत्य ममज्ज जलधौ भयात् ॥२०९॥
तां व्यसोस्तस्य चोरस्य स गृहीत्वा पुरान्तरम् ।
प्रविश्य पादपतले श्रान्तो निद्रां समाययौ ॥२१०॥
मणिमालां परिज्ञाय स राजपुरुषैर्बलात् ।
नृपतेरन्तरं नीतस्तत्कोपाकुलिताकृतेः ॥२११॥
अत्रान्तरे रत्नमालां गृध्रस्तामहरच्छलात् ।
( हृतेयमिति भूपालपुरः प्रतिसृता जनैः ॥२१२॥
आदिष्टे वणिजे राज्ञा वधे शब्दोऽभवद्दिवि ।
वणिक्समुद्रशूरोऽयं निर्दोष इति कर्मतः ) ॥२१३॥
ततः संपूजितो राज्ञा शतैस्तद्वाक्यगौरवात् ।
तीर्त्वा प्रवहणेनाब्धिं वेलातटमवाप्तवान् ॥२१४॥
तत्रास्य शबराः सर्वं जगॄहुर्धनसंचयम् ।
स हृतद्रविणो गत्वा निषसाद तरोरधः ॥२१५॥
नीडे महाद्रुमस्याधस्तामेव मणिसूत्रिकाम् ।
लम्बमानां विलोक्याराद्गृध्रन्यस्तामवाप्तवान् ॥२१६॥
पृथ्वीमूल्यानि रत्नानि तस्मादिव खगालयात् ।
स प्राप्य स्वग्रुहं प्रायाद्वणिग्वैश्रवणोपमः ॥२१७॥
इति लाभक्षयाभ्यासाद्धन्यानामेव पुण्यतः ।
उदयान्ता भवन्त्येवमुक्त्वैव विरराम सः ॥२१८॥
इति समुद्रशूराख्यायिका ॥७॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP