संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|अलंकारवती नाम पञ्चदशो लम्बकः| वीरवराख्यायिका अलंकारवती नाम पञ्चदशो लम्बकः रामाख्यायिका रूपलताख्यायिका अनङ्गप्रभाख्यायिका कार्पटिकाख्यायिका वीरवराख्यायिका नारायणदर्शनम् समुद्रशूराख्यायिका अन्तराख्यायिका चामराख्यायिका लुब्धाख्यायिका हिरण्यवर्णाख्यायिका अन्तर्नलाख्यायिका बन्धुमत्याख्यायिका अलंकारवती नाम वीरवराख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत वीरवराख्यायिका Translation - भाषांतर निशम्य गोमुखेनेति कथितं नरवाहनः । निजं कार्पटिकं चक्रे क्षणेन क्षितिपोपम म् ॥१८५॥ ततः कदाचिदभ्यायात्सेवितुं नरवाहनम् ।लम्बबाहुरिति ख्यातो विप्रः शस्त्रभृतां वरः ॥१८६॥वितीर्णे राजपुत्रेण तस्मै प्रत्यहवेतने । जाम्बूनदशते प्राह गोमुखो हृष्टमानसः ॥१८७॥एतद्विधाः प्रभुहितव्रतधीराः सुदुर्लभां । येषां पुरुषरत्नानां पृथ्वीमूल्यं विडम्बना ॥१८८॥पुरा विक्रमतुङ्गाख्यो राजा विरजसा वरः । द्विजं वीरवरं नाम सेवकं विदधे धनैः ॥१८९॥श्रुत्वा निशि प्रलापिन्याः पृथ्व्याः स पृथिवीपतेः । पर्यन्तमानुषप्राप्तं वज्राहत इवाभवत् ॥१९०॥ स तद्गिरा शिरः सूनोश्छित्त्वा सुश्रेयसे प्रभोः । देवीमतोषयद्येन शतायुरभवन्नृपः ॥१९१॥ततो ररक्ष तं देवी स्वसिरश्च्छेत्तुमुद्यतम् । जीवयित्वास्य ( सुचिरं प्रसादामृतनिर्झरैः ॥१९२॥इत्येवं स्वामिनां भृत्या भवन्त्यभ्युदयश्रिये । अयं द्विजवरो देव वीरो भृत्यस्तवोचितः ॥१९३॥इति वीरवराख्यायिका ॥५॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP