संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|अलंकारवती नाम पञ्चदशो लम्बकः| हिरण्यवर्णाख्यायिका अलंकारवती नाम पञ्चदशो लम्बकः रामाख्यायिका रूपलताख्यायिका अनङ्गप्रभाख्यायिका कार्पटिकाख्यायिका वीरवराख्यायिका नारायणदर्शनम् समुद्रशूराख्यायिका अन्तराख्यायिका चामराख्यायिका लुब्धाख्यायिका हिरण्यवर्णाख्यायिका अन्तर्नलाख्यायिका बन्धुमत्याख्यायिका अलंकारवती नाम हिरण्यवर्णाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत हिरण्यवर्णाख्यायिका Translation - भाषांतर पृष्टोऽलंकारवत्याख्या कथां चित्तविनोदिनीम् । गोमुखः सादरं प्राह तस्यां सचिवसंसदि ॥२५९॥हिरण्यवर्ण इत्यासीद्वसुधाधिपशेखरः । यशस्वी काञ्चनपुरे पञ्चबाण इवापरः ॥२६०॥स तु चित्रपटाकारदर्शनाज्जातमन्मथाम् । विदर्भराजतनयां लेभे मदनमञ्जरीम् ॥२६१॥रममाणस्तया तत्र हरिणीहारिनेत्रया । मेने वराकं त्रैलोक्यजयिनं रतिवल्लभम् ॥२६२॥ कदाचिदथ दुःस्वप्नं विलोक्याकुलितो नृपः । कार्तिकेयवने देवं कुमारं समतोषयत् ॥२६३॥विघ्नादसम्यग्विहितां मतिं तस्य षडाननः । ज्ञात्वा प्रियवियोगस्ते भूयादिति शशाप तम् ॥२६४॥नृपोऽपि शापदुःखं तद्विस्मृत्य शनकैः प्रियाम् ।कण्ठावलम्बिनीं कृत्वा धन्योऽस्मीति मुदं ययौ ॥२६५॥ततः कालेन सा गर्भदोहदा पाण्डुरच्छविः ।बभूवासन्नचन्द्रेव लहरी दुग्धवारिधेः ॥२६६॥अथासूत सुतं कान्तं बालकं समवर्चसम् । चक्रवर्तिपदोदारलाञ्छनाकलिताकृतिम् ॥२६७॥दिनेषु षट्सु यातेषु ततो धर्षितदिक्तटाः ।उद्यत्तरुजटालग्ना विकटा मरुतो ववुः ॥२६८॥पांशुरूपान्धकारेण नद्धे भुवनमण्डले । प्रविश्य सूतिकावेश्म काली पिङ्गललोचना ॥२६९॥दंष्ट्राविकटवदना तडित्तरलकुण्डला । भयंकरी कापि योषित्तं जहार शिशूं बलात् ॥२७०॥ पुत्रस्नेहादनुययौ यातां तां च नृपप्रिया । सलिलान्तरनिर्मग्नां तामेवानुममज्ज ह ॥२७१॥राजापि तिमिरे शान्ते यातां क्कापि सपुत्रकाम् । ज्ञात्वा प्रियतमां शोकाद्भेजे शतगुणं तमः ॥२७२॥राजधानीं परित्यज्य हा प्रिये चित्तचन्द्रिके । क्क यातासीति विलपन्बभ्राम विपुलां महीम् ॥२७३॥स काननं समासाद्य कान्तं विद्याधरं पदम् । ददर्श तं च पप्रच्छ संतप्तः शोकभेषजम् ॥२७४॥स च विद्याधरः प्राह द्विजोऽहं तत्प्रतिग्रही । बन्धुदत्ताभिधो राजंस्त्वद्गृहे कृतभोजनः ॥२७५॥त्वयैव कृतसाहाय्यः पुरा वेतालसाधकः । वैद्याधरीमहं प्राप्तः श्रियमेतां महीपते ॥२७६॥इतो गत्वा भगवतीमाराध्य हरवल्लभाम् ।अचिरात्प्राप्स्यसि सतीं तामेव सुचिरात्प्रियाम् ॥२७७॥इत्युक्तस्तेन स शनैर्गत्वा विन्ध्यमहीधरम् । अतोषयद्भगवतीं तपसा शंकरप्रियाम् ॥२७८॥मयैव रक्षिता पत्नी तव सा ससुता प्रिया । इत्युक्त्वा पार्वती तस्मै ददौ तां तनयं तदा ॥२७९॥प्रहृष्टो दयितां प्राप्य प्राप पुत्रं च भूपतिः । हिरण्यवर्णः स्वपुरं गत्वा चक्रे महोत्सवम् ॥२८०॥ इति हिरण्यवर्णाख्यायिका ॥११॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP