संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|रत्नप्रभा नाम चतुर्दशो लम्बकः| कर्पूरमञ्जरीविवाहः रत्नप्रभा नाम चतुर्दशो लम्बकः सत्त्वशीलाख्यायिका महासत्त्वाख्यायिका रत्नप्रभाख्यायिका शीलवत्याख्यायिका निश्चयदत्ताख्यायिका मदनमालाख्यायिका रूपशिखाख्यायिका अजराख्यायिका नागार्जुनाख्यायिका इन्दीवरसेनाख्यायिका वज्रधराख्यारिका अर्थलोभाख्यायिका कर्पूरमञ्जरीविवाहः रत्नप्रभा नाम कर्पूरमञ्जरीविवाहः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कर्पूरमञ्जरीविवाहः Translation - भाषांतर कर्पूरद्वीपमासाद्य नरवाहः सगोमुखः । वज्रन्विवेश वृद्धायाः क्षमामेकां निवेशनम् ॥४८९॥कर्पूरमञ्जरीवृत्तं तेन पृष्टा च सावदत् ।राजह्म्सी बभूवैषा कन्यका पूर्वजन्मनि ॥४९०॥राजहंसेन सहिता नीडे चन्दनशाखिनः । शावकानब्धिकल्लोलहतान्दृष्ट्वा शुशोच सा ॥४९१॥ततो जले तनुं त्यक्त्वा जाता जातिस्मरा सती । स्मृत्वा ह्म्सं तमस्नेहं विवाहविमुखी स्थिता ॥४९२॥इति वत्सेश्वरसुतः श्रुत्वा गोमुखसंमतः । मिथ्याप्रलापमुखरो राजधानीं समभ्ययात् ॥४९३॥हा हंसीत्यसकृत्तत्र विक्रोशन्तं विलोक्य तम् । पप्रच्छुर्गोमुखं राजकन्यकान्तःपुरस्त्रियः ॥४९४॥सोऽब्रवीद्राजहंसोऽयमभूज्जलनिधेस्तटे । पोतशोकात्प्रिया चास्य तत्याज सलिले तनुम् ॥४९५॥तद्वियोगादयमपि प्राक्षिपद्वपुरम्बुधौ । जातिस्मरोऽद्य तामेव स्मरन्हंसीं प्रसर्पति ॥४९६॥इति तद्वचनं दास्यो राजपुत्र्यै न्यवेदयन् । सा चाभूद्भर्तृविद्वेषं त्यक्तुं परिणयोत्सुका ॥४९७॥ततो ययाचे तां कन्यां नृपमभ्येत्य गोमुखः । नामाभिजनमावेद्य नरवाहस्य विश्रुतम् ॥४९८॥दृष्ट्वा स्मराकृतिजुषां लक्षणैश्चक्रवर्तिनाम् ।ददौ नरपतिः पुत्रीं स तस्मै विपुलोत्सवः ॥४९९॥ततो विवाहवसुधां प्राप्तां कर्पूरमञ्जरीम् । मञ्जरीं यौवनतरोर्ददर्श नरवाहनः ॥५००॥ उत्सवं पुष्पधनुषो विभ्रमस्योद्भवावनिम् । संगीतशालां लीलाया निधानं रूपसंपदः ॥५०१॥परिणीय मनोजन्मत्रैलोक्यजयमालिकाम् । रराज वत्सेशसुतः प्राप्य गौरीमिवेश्वरः ॥५०२॥इति कर्पूरमञ्जरीविवाहः ॥१३॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP