अर्थलोभाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
पूजितो ज्ञातवृत्तेन स्वादु भुक्तामृतोपम म् ।
सुष्वाप रत्नपर्यङ्के नरवाहः सगोमुखः ॥४७२॥
वीतनिद्रो निशि स्वैरं स्मरन्कर्पूरमञ्जरीम् ।
विनोदिनीं वज्रधरकथां सोऽपृच्छदुत्सुकः ॥४७३॥
सोऽब्रवीदर्थलोभाख्यो मन्त्री भूमिपतेरभूत् ।
धनी बाहुबलाख्यस्य यो लोभ इव जङ्गमः ॥४७४॥
तस्य मातापरा नाम भार्याभूद्वरवर्णिनी ।
लावण्यदर्पणे यस्याः संक्रान्त इव मन्मथः ॥४७५॥
देशान्तरगतं ज्ञात्वा वणिजं स तुरङ्गमान् ।
धनेन तस्मादाहर्तुं निजजायां विसृष्टवान् ॥४७६॥
कथ कुलाङ्गनावृत्ते परैः संभाषणं क्षम म् ।
इत्यनिच्छामपि सतीं प्रेषयामास मन्दधीः ॥४७७॥
गत्वा सुखधनं प्राह तरुणं सा भिषग्वरम् ।
धनेनाश्वान्प्रयच्छेति श्रुत्वा सोऽफ्याह विस्मितम् ॥४७८॥
किं धनेन विशालाक्षि निधानं त्वं मनोभुवः ।
गॄहाणाश्वसहस्रं ( मे रात्रिमेकां भजस्व माम् ॥४७९॥
श्रुत्वेति लज्जिता तन्वी लतेव भ्रमराकुला ।
क्षणं नम्रानना साभू ) न्नेत्रांशुशबलस्तनी ॥४८०॥
सा मत्वा वणीजो वाक्यं सती ( भर्ते न्यवेदयत् ।
अर्थलोभोऽपि तां प्राह को दोषस्त्वं भज क्षणम् ॥४८१॥
अथ सा वाजिलोभेन ) भर्त्रा संप्रेषिता बलात् ।
आदायाश्वान्निशामेकां कान्तां भेजे वणिक्सुतः ॥४८२॥
सोऽभवद्वल्लभस्तस्या रतावमृतनिर्झरः ।
सद्यः प्ररूढविश्रम्भविलासरसनिर्भरः ॥४८३॥
हीनसत्त्वं ततो बाला सा तत्याज निजं पतिम् ।
ऐक्षवं स्यन्दमासाद्य को हि निम्बरसं पिबेत् ॥४८४॥
दिनमेकं वितीर्णां तां ज्ञात्वा तत्रैव सुन्दरीम् ।
स्थितां क्रोधादर्थलोभो वणिजं योद्धुमाययौ ॥४८५॥
प्रवराश्ववरानीकैर्निर्लज्जः सज्जितो जवात् ।
वणिजा तेन राजानं जगाम शरणं निजम् ॥४८६॥
राजापि स्वयमालोक्य तया न्यायं विचारधीह ।
अर्थलोभस्य सर्वस्व हृत्वा परमपूजयत् ॥४८७॥
इति वज्रधरेणोक्तां कथां श्रुत्वा नृपात्मजः ।
प्रातर्यन्त्रविमानेन तद्दत्तेनाम्बुधिं ययौ ॥४८८॥
इत्यर्थलोभाख्यायिका ॥१२॥
N/A
References : N/A
Last Updated : October 27, 2017
TOP