संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|रत्नप्रभा नाम चतुर्दशो लम्बकः| निश्चयदत्ताख्यायिका रत्नप्रभा नाम चतुर्दशो लम्बकः सत्त्वशीलाख्यायिका महासत्त्वाख्यायिका रत्नप्रभाख्यायिका शीलवत्याख्यायिका निश्चयदत्ताख्यायिका मदनमालाख्यायिका रूपशिखाख्यायिका अजराख्यायिका नागार्जुनाख्यायिका इन्दीवरसेनाख्यायिका वज्रधराख्यारिका अर्थलोभाख्यायिका कर्पूरमञ्जरीविवाहः रत्नप्रभा नाम निश्चयदत्ताख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत निश्चयदत्ताख्यायिका Translation - भाषांतर इत्येवं निजशीलेन राजन्ते योषितः प्रभो । ईर्ष्यावतां केवलं तु स्त्रीरक्षा मनसो वगः ॥१४७॥ इति रत्नप्रभावाक्यं श्रुत्वा वत्सेश्वरात्मजः । साधूक्तमिति संहृष्टो विस्मयादभ्यभाषत ॥१४८॥ अथाह गोमुखस्तत्र कथाप्रस्तावकोविदः । अस्मिन्नेवान्तरे देव श्रूयतामिति कौतुकम् ॥१४९॥अस्ति श्रीकण्ठदयिता सतीवोज्जयिनी पुरी । मालतीस्फीतशान्तांशुमालाकलितकौमुदी ॥१५०॥अस्यां विभान्ति क्षीरोदधवलाः स्फटिकालयाः । महाकालाट्टहासानां निहिता इव राशयः ॥१५१॥कुशस्थली कृतयुगे त्रेतायां पद्मवत्यपि । अम्बिका द्वापरे ख्याता कलावुज्जयिनी च या ॥१५२॥इन्द्रवर्मा नृपस्तस्यामभूदिन्द्र इवापरः । असंख्ह्यमखसंहर्षादथ वाभ्यधिकस्ततः ॥१५३॥वणिङ्निश्चयदत्ताख्यो द्यूतकारो महाव्ययः । बभूव तत्पुरे सक्तो माल्यताम्बूलसौरभे ॥१५४॥महाश्मशानं गत्वासौ शिलास्तम्बे विलेपनम् ।धृत्वा करतलागम्यमेकः पृष्ठं विलिम्पति । नित्यसंघर्षणात्स्तम्बः श्लक्ष्णतां स समाययौ ॥१५५॥कदाचिच्चित्रकारेण विहिता तत्र पार्वती । रूपकारेण चोत्कीर्णा बभौ साक्षादिवागता ॥१५६॥चतुःसमे तु लिम्पन्तं तत्र पृष्ठं समाकृति । भक्त्या गौरीप्रणामाप्ता कापि विद्याधराङ्गना ॥१५७॥कान्तिनिश्चयदत्तं तं ददर्श स्मरशालिनी । पार्वतीभक्तिसंतोषान्मूर्तं फलमिवागतम् ॥१५८॥अभिलाषवती साथ सुन्दरी तस्य विग्रहम् । करेण कङ्कणवता पस्पर्शालक्षिताकृतिः ॥१५९॥स तत्स्पर्शामृतासिक्तः परेऽह्नि प्राप्य तत्करम् । जग्राह दर्शनाकाङ्क्षी ततः सा प्रकटाभवत् ॥१६०॥ पृष्ट्वा निश्चयदत्तेन साब्रवीत्क)मलानना । सौरभाकृष्टमधुपैः पुनरुक्तालकवली ॥१६१॥अहं चिन्तापराख्यस्य हिमवद्वासिनः सुता । अनुरागपरा नाम कन्या विद्याधरी प्रभो ॥१६२॥इति निश्चयदत्तस्तां ब्रुवाणां चारुहासिनीम् । विदग्धोपक्रमैस्तैस्तैः संगमाभिमुखीं व्यधात् ॥१६३॥सावदन्नाथ गच्छामि त्वं चेन्मे गृहमेष्यसि । तज्जाया ते भविष्यामि सत्यवाचो हि खेचराः ॥१६४॥इत्युक्त्वा सा ययौ दिक्षु किरन्ती कान्तिकौमुदीम् । तत्संगमाशया सोऽपि ययौ हेमवतीं दिशम् ॥१६५॥उत्तरापथमासाद्य संगतोऽन्यैर्वणिक्सुतैः । पदं कुरुष्वचीनानां मन्डलैर्विमलैर्ययौ ॥१६६॥विक्रीतस्ताडितः सोऽथ विषमं प्राप्य बन्धनम् ।ययौ गौरीवरान्मुक्तः सह तैः सचिवैस्त्रिभिः ॥१६७॥एकस्ततः प्रस्थितोऽसौ काश्मीरं प्राप्य मोक्षदम् । तैरन्वितस्तां व्रतिभिश्चतुर्भिः पथि संगतः ॥१६८॥तैः खट्वाङ्गकपालाङ्कैः स गच्छन्नुत्तरां दिशम् । वनं विवेश विषमं घोरव्यालमृगाकुलम् ॥१६९॥तमूचुर्भारिका यक्षी घोररूपेह दृश्यते । या श्रृङ्गोत्पादिनी नाम सर्वलोकस्य संहृतिः ॥१७०॥भारिकेभ्यो निशम्येति सह तैर्व्रतगर्वितैः । डाकिनीभूतवेतालं विवेश निशि काननम् ॥१७१॥ततः शुष्ककरीषाग्निं महादारुचयोच्छ्रितम् । विधाय जापिनस्तस्थुस्ते भस्मकृतमण्डलाः ॥१७२॥ततः समाययौ दीप्तः केशी नीलाश्मसच्छविः । असिताद्रितटी दाववह्निव्याप्तेव जङ्गमा ॥१७३॥कायच्छायेव तमसो मृत्योर्मुक्तेव वेणिका । केशकन्थेव कालस्य ततो यक्षीं व्यदृश्यत ॥१७४॥पारीव लम्बितोद्दामस्थानवाहितसौष्ठवम् । नृत्यन्ती वादयन्तीव किन्नरं मण्डलान्तिके ॥१७५॥ कल्पान्तोभ्द्रान्तचण्डिशलडड्डमरुकस्वरा । मन्त्रमालां पपाठोच्चैर्घटयन्तीव दिक्छटान् ॥१७६॥ततो व्रतिनमेकं सा स्फारनेत्रा व्यलोकयत् । दृष्टमात्रः स संजातश्रृङ्गो वह्नौ पपात च ॥१७७॥तमर्धदग्धं भुक्त्वैव द्वितीयं सा व्यलोकयत् । क्रमेणान्येषु भक्तेषु वणिग्धूर्तो व्यचिन्तयत् ॥१७८॥न भक्षितोऽनया यावदहमत्युग्रया मया । तावद्युक्तिमुपाश्रित्य करिष्यामि यथोचितम् ॥१७९॥श्रुतश्चास्या मया मन्त्रः स विचिन्त्यैत्य संभ्रम म् ।व्यग्रायां मांसभोगेऽस्यां तं जहाराशु किन्नरम् ॥१८०॥पपाठ च ततो मन्त्रं तेनोद्यच्छृङ्गकन्दला । पतिता सावदद्वीर त्वामस्मि शरणं गता ॥१८१॥ततो निश्चयदत्तस्तां ररक्ष शरणं गताम् । सापकारेऽपि वीराणां न हि भीते पराक्रमः ॥१८२॥ स निवेद्यात्मवृत्तान्तं कृत्वा तामेव वाहनम् ।विद्यादह्रसुतां द्रष्टुं ययौ व्योम्ना हिमाचलम् ॥१८३॥ अथोद्ययौ सहस्त्रांषुर्जपाकुसुमपाटलः । ( चक्रवाककुलोत्सृष्टं मूर्तं रागमिवोद्वहन् ॥१८४॥ ततो निश्चयदत्तं सा प्राह यक्षी कृताञ्जलिः । नाहं शक्ता स्थिते मानौ गन्तुं लोकैकचक्षुषि )॥१८५॥दिनं हि शर्वरीभूतं यक्षवेतालरक्षसाम् । रात्रौ पुनः समेष्ये त्वामित्युक्त्वा सा ययौ क्षणात् ॥१८६॥स तस्यां संप्रपातापां चचारैको वनान्तरे । ततो ददर्श मग्नाङ्गं मर्कटं शुष्ककर्दमे ॥१८७॥महौघविप्लवानीते रक्तलोचनसूचितम् । मामुद्धरेति क्रन्दन्तं समुद्धृत्य स कौतुकी । कोऽसीत्यपृच्छत्पृष्टस्तु कपिर्वक्तुं प्रचक्रमे ॥१८८॥वाराणस्याममूद्विप्रश्चन्द्रस्वामीति विश्रुतः । सोमस्वामीति विख्यातस्तस्याहं तनयः प्रभो ॥१८९॥श्रीगर्भनाम्नो वणिजो बन्धुदत्ताभिधा सुता । भार्या वराहदत्तस्य स्वरिणी मामसेवत ॥१९०॥गूढं तत्प्रेमविश्रम्भसंभोगसुभगस्थितेः । सुमहानपि कालो मे सुखिनः क्षणवद्ययौ ॥१९१॥ततः प्रति गृहान्नेतुं तां प्राप्ते निजभर्तरि । सा दुःखिता मद्वियोगात्प्रदध्यौ साश्रुलोचना ॥१९२॥वयस्या योग्नी दृष्ट्वा तस्या विरहवेदनाम् । मां चक्रे मन्त्रसूत्रेण मर्कटं गमनक्षम म् ॥१९३॥मन्त्रसूत्राङ्कितगलं सा समादाय मां कपिम् । हृष्टा भर्तुर्गॄहं यातुं प्रतस्थे मन्मुखोन्मुखी ॥१९४॥पुरुषस्य ततः स्कन्धे स्थितं मां वनमर्कटाः ।जहुस्तस्यां सकरुणं क्रोशन्त्यां पथि दुर्मदाः ॥१९५॥नाना(वनसहस्रेषु भ्रान्त्वा प्राप्तो महीमिमाम् । भवता कृच्छ्रमग्नोऽहं धर्मेशेन समुद्धृतः ॥१९६॥अ)नेन कण्ठसूत्रेण न विपन्नोऽस्मि संकटे । अतीतानागतज्ञश्च(जातस्तिर्यग्गतावपि ॥१९७॥श्रुत्वेति जातसौहार्दे निजां त्स्मै न्यवेदयत् । कथां निश्च)यदत्तोऽथ तां श्रुत्वा प्राह मर्कटः ॥१९८॥सखे विद्याधरीं मा गा दूरे हि तुहिनाचलः । त्वया सह कृतासक्तिर्न च वश्या शुचिस्मिता ॥१९९॥लतानां च नदीनां च स्त्रीणां राज्ञां च जायते । सखे कालेषु कालेषु सत्यं नवनवो रसः ॥२००॥ ( नाभिनन्दति चेत्सा त्वां प्राप्तां मकरलोचना । तदेयान्विपुलः क्लेशः कस्मिन्नु परिगण्यते ) ॥२०१॥हसन्त्यन्यैर्वदन्त्यन्यैस्तिष्ठन्त्यन्यैश्च निर्जने । भुञ्जते रतिमन्यैश्च लक्ष्यन्ते न हि योषितः ॥२०२॥निर्मोकवद्यास्त्यक्ष्यन्ति विलवत्प्रलपन्ति याः । को हि ताभिर्भुजङ्गीभिः कण्ठग्रहणमिच्छति ॥२०३॥ विश्रम्भसुभगो भोगः स्त्रीभिः कस्य न वल्लभः । किं त्वसौ विरसः पश्चान्मायाचटुलचेष्टितैः ॥२०४॥ भवशर्मा द्विजः पूर्वं सुमदां नाम योषितम् ।जघान रागकलुषो मूर्ध्नि यष्ट्या भॄशाकुलः ॥२०५॥ तत्कोपान्मन्त्रसूत्रेण सा तं चक्रे महावृषम् । विश्राम्य तं ददर्शान्या सानुगा क्कापि योगिनी ॥२०६॥वार्यमाणानुयायिन्या तस्य सा कण्ठसूत्रकम् । व्यदारयत्ततो दैवादाययौ सुमदा पुरः ॥२०७॥सा दृष्ट्वा मुक्तसूत्रं तं क्रुद्धा तां प्राह योगिनी ।मया बद्धस्त्वया मुक्तः प्रातस्ते भविता क्षयः ॥२०८॥ उक्त्वेति तस्यां यातायां योगिनी प्राह तं द्विजम् । खङ्गं गृहीत्वा संनद्धो भव धैर्यसमः सखे ॥२०९॥त्वत्कृते सा महावैरात्सुमदा प्रातरेष्यति । विधाय कृष्णतुरगीरूपं युद्धाय दुःसहम् ॥२१०॥अहं तु श्वेततुरगी भविष्यामि तया सह । संप्रस्तुते प्रहारे च हन्तव्या सासिना त्वया ॥२११॥इति श्रुत्वा तथेत्याह खङ्गमादाय स द्विजः । ततः प्रातर्महायुद्धे तयोर्दन्तैः खुरैरपि । प्रवृत्ते कृष्णवडवां निजघान स खङ्गवान् ॥२१२॥मायामन्त्रादिचकितो हत्वा तामपरामपि ।स्वशिष्यां खङ्गपट्टेन हत्वा स्वस्थोऽविशद्गृहम् ॥२१३॥इति मित्रेण कथितं पुरा मे भवशर्मणा । ब्रह्मदत्तगृहे गूढकामिनीव्यसनस्थितेः ॥२१४॥इत्थं स्त्रियः सुविषमा रक्ताकृष्टिपिशाचिकाः । स्त्रीनाम्नीम छेत्तुमिच्छामि ग्रीवामपि सखे निजाम् ॥२१५॥इति निश्चयदत्तस्तं ब्रुवाणमवदत्कपिम् । अनुरक्तैव सा साध्वी मम विद्याधराङ्गना ॥२१६॥खेचराणां गृहे तत्र कांचित्प्राप्स्यामि योग्नीम् । मन्त्रसूत्रकृताद्बन्धात्त्वां हि या मोचयिष्यति ॥२१७॥एवं कथयतोरेव तयोः कमलिनीप्रियः । संध्यां त्यक्त्वा जगामाशु प्रशमं रक्तदीधितिः ॥२१८॥संगतां रविणा क्षिप्रं शशिनालिङ्गिता ततः । मुहूर्तरागिणी संध्या बभार कुलटाव्रतम् ॥२१९॥अत्रान्तरे समायातां स समारुह्य यक्षिणीम् । प्रतस्थे निश्चितं गन्तुं व्योम्ना विद्याधरीपुरीम् ॥२२०॥तमाह मर्कटो दूराद्यत्नः कार्यस्त्वया सखे । अस्य मे मन्त्रसूत्रस्य दारणे प्रणयादिति ॥२२१॥तथेत्युक्त्वा स संप्राप क्षणात्तुहिनभूधरम् । मासि मासि शशाङ्कानामाकल्पमिव संचयम् ॥२२२॥अनुरागपरां भेजे न च संगमनिर्वृतः । गान्धर्वेण विवाहेन स तां तत्र मृगेक्षणाम् ॥२२३॥ तया स्मररसस्मेरभवसंभोगसुन्दरम् । अवाप प्रेमसर्वस्वमतीतां कथयन्कथाम् ॥२२४॥प्रेयस्या दत्तविद्योऽथ सुहृदं मर्कटं ययौ । द्रष्टुं कदाचित्सोत्कण्ठः कण्ठसूत्रं व्यचिन्तयत् ॥२२५॥तस्मिन्गते निर्जनस्थां तां तारुण्यतरङ्गिणीम् । कश्चिद्विद्यादह्रसुतो ददर्श स्तबकस्तनीम् ॥२२६॥करिणीदन्तकान्तेषु तस्या मात्रेषु बिम्बितः ।करिणीदन्तकान्तेशु तस्या गात्रेषु बिम्बितः ।स सुधालहरीमग्नः शशाङ्कश्रियमाययौ ॥२२७॥भज मामिति तेनोक्ता सा लिलेख ह्रिया नता । हेलया चरणाग्रेण कटाक्षशबलां भुवम् ॥२२८॥मौनाद्दत्तावकाशां स तामालिङ्ग्य ससाध्वसम् । कण्ठे जग्राह सोत्कण्ठं नीवीविस्रंसनाकुलः ॥२२९॥मा मा परवधूरस्मि त्वर्धोक्तिगलिताक्षरम् ।स चुचुम्ब मुखं तस्या लज्जामीलितलोचनम् ॥२३०॥क्षामाननाब्जपर्यस्तहारफेनप्रकम्पिनीम् । स दूषयित्वा प्रययौ तां मातङ्ग इवाब्जिनीम् ॥२३१॥तस्मिन्प्रयाते सा तस्थवतृप्ता तत्समागमे । खेदार्दस्रस्तधम्मिल्लच्छिन्नहाराङ्कितस्तनी ॥२३२॥अत्रान्तरे समामन्त्र्य कपिं कान्तानिकेतनम् ।तूर्णं निश्चयदत्तोऽपि प्रेमाकृष्टः समभ्ययात् ॥२३३॥ तं दृष्ट्वा नोदतिष्ठत्सा पर्यङ्कार्धं न वात्यजत् ।चाटुकारे कृतोद्वेगा नर्मोक्तिषु निरादरा ॥२३४॥चुम्बने कूणितमुखी सकोपा नीविमोक्षणे । आलिङ्गने परावृत्ता प्राह मिथ्याशिरोरुजम् ॥२३५॥ स च गाढानुरक्तस्तन्नाज्ञासीत्तद्विचेष्टितम् । स्त्रीमतिः स्वप्नमायेव नाप्रबुद्धैर्विचार्यते ॥२३६॥ततः प्रातः समुत्थाय स ययौ मर्कटान्तिकम् । सर्वज्ञः स च तं प्राह सा विनष्टा वधूरिति ॥२३७॥असत्यशङ्किने तस्मै मन्त्रयोगेन मर्कटः ।विद्याधरेणावभिन्नतनुं तां समदर्शयत् ॥२३८॥स विद्याधरसंसक्तां प्रत्यक्षं वीक्ष्य वल्लभाम् । रागनिद्रां परित्यज्य वैराग्यालोकमाप्तवान् ॥२३९॥तूर्णं निश्चयदत्तोऽथ तपसे कृतनिश्चयः । कपिना सह निर्द्वन्द्वं ययौ सिद्धतपोवनम् ॥२४०॥दयिताविप्रलब्धानामैश्वर्यसुखदुःखिनाम् । नीचावमानदग्धानां नान्यत्त्राणं वनं विना ॥२४१॥ततः पुष्पोच्चयावाप्ता तद्वनं सिद्धयोगिनी । कपेः स्वरूपसंप्राप्त्यै मन्त्रसूत्रमदारयत् ॥२४२॥सोमस्वामी निजं रूपं संप्राप्य मुनिवत्ततः । सह निश्चयदत्तेन क्षीणपापो दिवं ययौ ॥२४३॥इति शीलं विना देव रक्ष्यन्ते केन योषितः । गोमुखेनेति कथितं श्रुत्वा सर्वे मुदं ययुः ॥२४४॥इति निश्चयदत्ताख्यायिका ॥५॥ N/A References : N/A Last Updated : October 27, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP