रसप्रकाशसुधाकरः - दशमोऽध्याय: ।
श्रीयशोधरविरचितो रसप्रकाशसुधाकर:।
यन्त्रशब्दनिरुक्ति: ।
अथ यन्त्राणि वक्ष्यन्ते पारदो येन यत्र्यते ।
तस्माद्यन्त्रस्य रुपाणि दर्शनीयानि शास्त्रत: ॥१॥
यन्त्रनामानि ।
दोला पलभलीयन्त्रमूर्ध्वपातनकं च यत् ।
अध:पातनकं चापि तिर्यकपातनकं तथा ॥२॥
घटीयन्त्रं गर्भयन्त्रमिष्टिकाजलन्त्रकम् ।
खल्वं डमरुकाख्यं च चिपिटाख्यं तुलाभिधम् ॥३॥
लवणं कोष्ठिकाख्यं च अन्तरालिकसंज्ञिकम् ।
धूपयन्त्रं नाभियन्त्रं ग्रस्तयन्त्रं तथैव च ॥४॥
विद्याधरं कुण्डकं च ढेकीसंज्ञमुदीरितम्
सोमानलं च निगडं किन्नरं भैरवं तथा ॥५॥
वालुकायन्त्रकं चापि पातालं भूधराभिधम् ।
सारणायन्त्रकं गुह्यं गन्धपिष्टकयन्त्रकम् ॥६॥
कूपीयत्रं पालिकाख्यं दिपिकायन्त्रकं तथा ।
स्थालीयत्रं भस्मयन्त्रं देवयन्त्रमुदीरितम् ॥७॥
घाणिकायन्त्रमुद्दिष्टं हंसपाकाभिधं तथा ।
ऊनचत्वारिंशदत्र यन्त्राण्युक्तानि नामत: ॥८॥
अथ मूषाश्च कथ्यन्ते मृत्तिकाभेदत: क्रमात् ।
मूषा कुमुदिका प्रोक्ता कोविका करहाहिका ॥९॥
पातिनी कथ्यते सैव वह्विमित्रा प्रकीर्तिता ।
तुषभस्मयुता मृत्स्रा वाल्मिकी बिडसंयुता ॥१०॥
तया या रचिता मूषा योगमूषेति कथ्यते ।
गारमूषालक्षणम् ।
गारभूनागसत्वेन शणैर्दग्धतुषैरपि ॥११॥
मर्दिता महिषीक्षीरे मृत्तिका पक्षमात्रकम् ।
तन्मृदा रचिता मूषा गारमूषेति कथ्यते ॥१२॥
वरमूषालक्षणम् ।
वस्त्रतुल्यास्तुषाडांरास्तचतुर्गुणमृत्तिका ।
भूनागमृतिके तुल्ये सर्वैरेभिर्विमर्दिता ॥१३॥
कथिता वरमूषा सा यामं वह्विं सहेत वै ।
वर्णमूषालक्षणम् ।
पूर्वोक्ता मृत्तिका या तु रक्तवर्गाम्बुभाविता ॥१४॥
रक्तवर्गायुता घृष्टा कारिता मूषिका शुभा ।
तूरीपुष्पकसीसाभ्यां लेपिता सा च मूषिका ॥१५॥
वर्णोत्कर्षे प्रयोक्तव्या वर्णभूषेति कथ्यते ।
रुप्यमूषालक्षणम् ।
श्वेतवर्गेण वै लिप्ता रुप्यभूषा प्रकीर्तिता ॥१६॥
बिडमूषा ।
बिडेन रचिता या तु बिडेनैव प्रलेपिता ।
देहलोहार्थसिध्दयंर्थ बिडमूषेत्युदाहृता ॥१७॥
गृहभूनागसत्वेन तुषमिष्या शणेन च ।
मृत्समा महिषीक्षीरैर्दिवसत्रयमर्दिता ॥१८॥
संस्थिता पक्षमात्रं हि पश्चन्मूषा कृता तया ।
लेपिता मत्कुणस्याथ शोणितेन बलारसै: ॥१९॥
चतुर्यामं ध्मापिता हि द्रवते नैव वह्विना ।
वज्रमूषेति कथिता वज्रद्रावणहेतवे ॥२०॥
वृन्ताकाकारमूषायां नालं कृत्वा दशाडुंलम् ।
धत्तूरपुष्पावद्दिंर्घ सुदृढं चैव कारयेत् ॥२१॥
अष्टाडुंलं सच्छिद्रं च भवेव्दृन्ताकमूषिका ।
गोस्तनाकारमूषा या मुखोपरिविमुद्रिता ॥२२॥
सत्वानां द्रावणे शुध्दौ मूषा सा गोस्तनी भवेत् ।
निर्दिष्टा मल्लमूषा या मल्लव्दितयसंपुटात् ॥२३॥
रसपर्पटिकादीनां स्वेदनाय प्रकीर्तिता ।
अग्रौ या पाचिता शुष्का पक्कमूषा प्रकीर्तिता ॥२४॥
अतिस्थूलाऽतिदीर्घा च मुखे किंचिच्च विस्तृता ।
महामूषेति सा प्रोक्ता सत्त्वरद्रव्यशोधिनी ॥२५॥
षडडुंलोन्नता दीर्घा चतुरसा च निम्रका ।
मज्जूषाकारमूषा सा कथिता रसमारणे ॥२६॥
भूमौ निखन्यमानां हि मूषामाच्छाद्य वालुकै : ।
गर्भमूषा तु सा ज्ञेया पारदस्य निबन्धिनी ॥२७॥
मूषा या चिपिटा मूले वर्तुला व्द्यडुंलाच्च या ।
मूषा सा मुशलाख्या स्याच्चक्रिबध्दरसे हिता ॥२८॥
सत्वपातनकार्ये तु कोष्ठिका युज्यते बुधै: ।
तासां तु विविधाकारान् कथयामि यथातथम् ॥२९॥
अडांरकोष्ठिका नाम राजहस्तप्रमाणका ।
व्दादशाडुंलविस्तारा चतुरस्रा प्रकीर्तिता ॥३०॥
वेष्टिता मृन्मयेनाथ एकभित्तौ च गर्तकम् ।
वितस्तिमानं व्दारं च सार्धवैतस्तिकं दृढम् ॥३१॥
अधोभागे विधातव्या देहली धमनाय वै ।
प्रादेशमात्रा भित्ति: स्यादुत्तरडंस्य चोर्ध्वत: ॥३२॥
प्रादेशमात्रं कर्तव्यं व्दारं तस्योपरि ध्रुवम् ।
व्दारं चेष्टिकया रुध्दा सन्धिरोधं च कारयेत् ॥३३॥
पूरयेत्कोकिलैस्तां तु भस्त्रिकां प्रधमेत्खलु ।
कोकिलाधमनद्रव्यमूर्ध्वव्दारे विनिक्षिपेत् ॥३४॥
एषा चाडांरकोष्ठी च खराणां सत्वपातनी ।
गंर्त खनेदृढं भूमौ व्दादशाडुंलमात्रकम् ॥३५॥
तन्मध्ये वर्तुलं गंर्त चतुरडुंलकं दृढम् ।
खर्परं स्थापयेत्तत्र मध्यगर्तोपरि दृढम् ॥३६॥
आपूर्य कौकिलैर्गंर्त प्रधमेदेकभस्त्रया ।
पातालकोष्ठिका सा तु मृदुसत्वस्य पातनी ॥३७॥
वितस्तिप्रमिता निम्रा प्रादेशप्रमिता तथा ।
उपरिष्टात्पिधानं तु भूरिच्छिद्रसमन्वितम् ॥३८॥
गर्तमापूर्य चाडांरै: प्रधमेव्दक्कनालत: ।
गारकोष्ठी समुद्दिष्टा सत्वपातनहेतवे ॥३९॥
वितस्तिप्रमितोत्सेधा सा बुध्रे चतुरडुंला ।
तिर्यकप्रधमनाख्या च मृदुसत्वस्य पातनी ॥४०॥
भूम्यां वै खनयेद्रंर्त व्दिहस्तं चतुरस्रकम् ।
छगणानां सहस्रेण पूरयेत्तमनन्तरम् ॥४१॥
औषधं धारयेन्मध्ये तमाच्छाद्य वनोत्पलै: ।
सहस्रार्धै वै सम्यग्वह्विं प्रज्वालयेत्तत: ॥४२॥
महापुटमिदं प्रोक्तं ग्रन्थकारेण निर्मितम् ।
एकहस्तप्रमाणं हि चतुरस्रं च गर्तकम् ॥४३॥
वनोत्पलसहस्रेण गर्तमध्यं च पूरितम् ।
मूषिकां चौषधेनाथ पूरितां तां तु मुद्रयेत् ॥४४॥
गर्तमध्ये निधायाथ गिरिण्डानि च निक्षिपेत् ।
अधोऽग्रिं ज्वालयेत्सम्यगेवं गजपुटो भवेत् ॥४५॥
उपलं पिष्टकं छाणमुत्पलं च गरिण्डकम् ।
छगणोपलसारि च नवारि छगणाभिधा: ॥४६॥
अरत्निमात्रकुण्डे च वाराहपुटमुच्यते ।
वितस्तिव्दयमानेन गंर्त चेच्चतुरस्रकम् ॥४७॥
कुक्कुटाख्यं पुटं विद्यादौषधानां च साधनम् ।
छगणैरष्टभि: सम्यक्कपोतपुटमुच्यते ॥४८॥
तुषैर्वा गोमयैर्वापि रसभस्मप्रसाधनम् ।
माणिकाव्दयमानेन गोवरं पुटमुच्यते ॥४९॥
मृदा भाण्डं प्रपूर्यैव मध्ये द्र्व्यं तु विन्यसेत् ।
अधस्ताज्ज्वालयेदग्रिं मृद्राण्डपुटमुच्यते ॥५०॥
गर्ते तु वालुकापूर्णे मध्ये द्रव्यं तु विन्यसेत् ॥५१॥
उपरिष्टादधस्ताच्च वह्विं कुर्यात्प्रयत्नत: ।
तव्दालुकापुटं सम्यगुच्यते शास्त्रकोविदै: ॥५२॥
मूषिकां भूमिमध्ये तु स्थापितां व्द्यडुंलादध: ।
उपरिष्टात्पुटं दद्यात्तत्पुटं भूधराभिधम् ॥५३॥
गोवरैर्वा तुषैर्वाऽपि कर्षमात्रमितै: पुटम् ।
यत्र तल्लावकाख्यं स्यान्मृदुद्रव्यस्य साधने ॥५४॥
इति श्रीपद्यनाभसूनुश्रीयशोधरविरचिते रसप्रकाशसुधाकरे यन्त्रादिनिरुपणं नाम दशमोऽध्याय: ।
N/A
References : N/A
Last Updated : September 09, 2017
TOP