संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| षठोऽध्याय : । रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - षठोऽध्याय : । श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश षठोऽध्याय : । Translation - भाषांतर अष्टावुपरसा: ।तालकं तुवरी गन्धं ककुंष्टं कुनटी तथा ।सौवीरं गैरिकं चैव अष्टमं खेचराहयम् ॥१॥तालकं व्दिविधं प्रोक्तं द्लाख्यं चाश्मसंज्ञकम् ।सूक्ष्मपत्रं हेमवर्ण गुरु सिग्धं च भासुरम् ॥२॥दलाख्यं तालकं तच्च बहुसत्वं रसायनम् ।निष्पत्रं चाश्मसदृशं किंचित्सत्वं तथाऽगुरु ॥३॥नारीणां पुष्पहृत्ततु अपथ्यं चाश्मतालकम् ।वातश्लेष्महरं रक्तभूतनुत्पुष्पहृत्स्त्रिया: ॥४॥सुस्निग्धमुष्णकटुकं दीपनं कुष्ठहारि तत् ।तालकशोधनम् ।कूष्माण्डतोयसंखिन्नं तत: क्षारजलेन वा ॥५॥चूर्णतोयेन वा खिन्नं दोलायत्रेण शुध्दयति ।तालकसत्वपातनम् ।कुलत्थकाथसौभाग्यमाहिषाज्यमधुप्लुतम् ।खल्वे क्षित्वा च तत्तालं मर्दयेदेकवासरम् ॥६॥निस्तुषीकृत्य चैरण्डबीजान्येव तु मर्दयेत् ।पलाष्टमानं तालस्य चाष्टामांशं तु कारयेत् ॥७॥बीजान्येरण्डजान्येव क्षिप्त्वा चैकत्र मर्दयेत् ।यवाभा गुटिका कार्या, शुष्कां कूप्यां निधाय च ॥८॥वालुकायत्रमध्ये तु वह्रिं व्दादशयामकम् ।स्वांशीतं समुत्तार्य ऊर्ध्वगं सत्वमाहरेत् ॥९॥पाषाणधातुसत्वानां प्रकारा: सन्ति कोटिश: ।यानि कार्यकराण्येव सत्वानि कथितानि वै ॥१०॥सौराष्ट्रीभेदा: ।सौराष्ट्रदेशे संजाता खनिजा तुवरी मता ।या लेपिता श्वेतवस्त्रे रडंबन्धकरी हि सा ॥११॥फुल्लिका खटिका तव्दद्दिप्रकारा प्रशस्यते ।किंचित्पीता च सुस्रिग्धा गरदोषविनाशिनी ॥१२॥श्वेतवर्णाऽपरा साम्ला फुल्लिका लोहमारणी ।कषाया मधुरा कांडी कटुका विषनाशिनी ॥१३॥व्रणघ्री कफहा चैव नेत्रव्याधित्रिदोषहा ।कण्ठरोगहरा सा तु पारदे बीजजारणी ॥१४॥सौराष्ट्रीशोधनं सत्वपातनं च ।धान्याम्ले तुवरी क्षिप्ता शुध्दयति त्रिदिनेन वै ।क्षारैरम्लैश्व मृदिता ध्माता सत्वं विमुज्चति ॥१५॥तत्सत्वं धातुवादार्थे, चौषधे नोपपद्यते ।मन: शिलाभेदा: ।मन: शिला त्रिप्रकारा श्यामा रक्ता च खण्डिका ॥१६॥श्यामा रक्ता मिश्रवर्णा धा(भा) राढया श्यामिका भवेत् ।कणवीरा सुरक्तांडी ताम्राभा सैव शस्यते ॥१७॥चूर्णिता याऽतिरक्तांडी गुरु: स्रिग्धा च खण्डिका।सर्वा: कुनटय: कथिता: पूंर्व पूंर्व गुणोत्तरा: ॥१८॥मन: शिलागुणा: ।रसायनवरा सर्वा वातश्लेष्मविनाशिनी ।सत्वाधिका विषघ्री च भूतकण्डूक्षयापहा ॥१९॥अग्रिमान्घं प्रशमयेत्कोष्ठरोगनिबर्हिणी ।मन: शिलाशोधनम् ।मुनिपत्ररसेनापि शृंवेररसेन वा ।भाविता सप्तवारेण विशुध्दयति न संशय: ॥२०॥मन: शिलासत्वपातनम् ।सर्पिषा च गुडेनाथ किट्टगुग्गुलुनाऽथवा ।शिलाया अष्टमांशेन पिण्डीकृत्वा प्रयत्नत: ॥२१॥ध्माता तु कोष्ठिकायत्रे मुज्चेत्सत्वं न संशय: ॥२२॥अज्जनभेदा: ॥सौवीरं च रसाज्जनं निगदितं श्रोतोज्जनं चैव हितव्दूत्पुष्पमथाज्जनं तदनु चेत्रीलाज्जनं कथ्य्ते ।पश्चानामपि नामवर्णगुणवद्रूपाणि सम्यग्विधौकथ्यन्तेऽत्र मयाऽपि शोधनमिदं सत्वं मृतिश्चोच्यते ॥२३॥सौवीराज्जनम् ।सौवीराख्यं चाज्जनं धूमवर्ण पित्तास्रघ्रं छर्दिहिध्माव्रणघ्रम् ।नेत्रव्याधौ शोधने रोपणे च श्रेष्ठं प्रोक्तं कर्णरोगोपशान्त्यै ॥२४॥रसाज्जनम् ।पीताभं विषरक्तदोषशमनं सश्वासहिध्मापहं वर्ण्य वाताविनाशनं कृमिहरं दार्व्युद्रवं शोभानम् ।स्रोतोज्जनम् ।स्रिग्धं खादुकषायकं विषवमीपित्तास्रनुल्लेखनं नेत्र्यं हिध्मरुजापहं निगदितं स्रोतोज्जनं सर्वदा ॥२५॥पुष्पाज्जनगुणा: ।सितं स्रिग्धं हिमं चैव नेत्ररोगविषापहम् ।ज्वरघ्रंमतिहिध्माघ्रं पुष्पाज्जमिहोदितम् ॥२६॥नीलाज्जनगुणा: ।रसायनं सुवर्णघ्रं गुरु स्रिग्धं त्रिदोषहा ।नीलाज्जनं च कथितं लोहमार्दवकारकम् ॥२७॥अज्जनानां शोधनम ।भृडंराजरसेनैव सर्वाण्येवाज्जनानि हि ।विशुध्दयन्तीह सततं सत्यं गुरुवचो यथा ॥२८॥अज्जनसत्वपातनम् ।शिलाया: सत्ववत्सत्वमज्जनानां च पातयेत् ।गन्धकभेदा: ।गन्धकस्य चतुर्भेदा: कथिता: पूर्वसूरिभि: ॥२९॥श्वेत: पीतस्तथा रक्त: कृष्णश्वेति चतुर्विध: ।श्वेतस्तु खटिकाकारो लेपनाल्लोहमारणम् ॥३०॥जायते नात्र संदेहश्वानुभूतं मया खलु ।पीतवर्णो भवेद्यस्तु स चोक्तोऽमलसारक: ॥३१॥रस रसायने श्रेष्ठ: शुकपिच्छ: स कथ्यते ।लाक्षारसनिभो रक्त: शुकतुण्ड: स कथ्यते ॥३२॥धातूनां रज्जनं कुर्याद्रसबन्धं करोत्यलम ।य: कृष्णवर्ण: स तु दुर्लभ: स्यात्राशं करोतीह जरापमृत्यो: ।संसेवनाव्दज्रसमं शरीरं भवेत्सुकान्तं हि निरामयं च ॥३३॥गन्धकगुणा: ।विपाके मधुरो गन्धपाषाणस्तु रसायन: ।विसर्पकण्डुकुष्ठस्य शमनो दीपनस्तथा ॥३४॥आमाजीर्णप्रशमनो विषहा रसशोषण: ।सूतस्य वीर्यद:साक्षात्पावतीपुष्पसंभव: ॥३५॥कृमिरोगहर: सम्यक् सूतं मूर्च्छयति ध्रुवम् ।सेवितो बलिराज्ञा वै प्रभूतबलहेतवे ॥३६॥तस्मव्दलिवसेत्युको गन्धकोऽतिमनोहर: ।गन्धकशोधनम् ।घटीमध्ये पय: क्षिप्त्वा मुखे वस्रं प्रबन्धयेत् ॥३७॥वस्त्रोपरि बलेश्चूंर्ण मुखं रुध्वा शरावत: ।भूमौ निधाय तत्पात्रं पुटं दद्यात्प्रयत्नत: ॥३८॥विंशत्युपलकैश्चैव स्वांशीतं समुध्दरेत् ।अनेनैव प्रकारेण स्वांशीतं पुन:पुन: ॥३९॥एवं संशोधितो गन्ध: सर्वकार्यकरो भवेत् ।गन्धकतैलपातनम् ।कलांशव्योषसंयुक्तं शुध्दगन्धकचूर्णकम् ॥४०॥वस्त्रे वितस्तिमात्रे तु गन्धचूंर्ण सतैलकम् ।विलिप्य वेष्टयित्वा च वर्तिं सूत्रेण वेष्टयेत् ॥४१॥धृत्वा संदशतो वर्तिमध्यं प्रज्वालयेच्च ताम् ।विद्रुत: पतते गन्धो बिन्दुश: काचभाजने ॥४२॥तां द्रुतिं प्रक्षिपेत्पत्रे नागवल्ल्यास्त्रिबिन्दुकाम् ।रसं वल्लमितं तत्र दत्त्वाऽडंल्या विमर्दयेत् ॥४३॥तत्संर्व भक्षयेत्पश्चाद्रोदुग्धं चानु संपिबेत् ।कामस्य दीप्तिं कुरुते क्षयपाण्डुविनाशनम् ॥४४॥ग्रहणीं नाशयेद्दुष्टां शूलार्तिश्वासकासकम् ।आमाजींर्ण प्रशमयेल्लघुत्वं च प्रजायते ॥४५॥गन्धकस्य गुणान् वक्तुं शक्त: क :शम्भुना विना ।गन्धकयोगा: ।शुकपिच्छस्तु मरिचसमांशेन तु कल्पित: ॥४६॥त्रिफला षडुंणा कार्या मर्दयेत्कृतमालजै: ।मूलद्रवैस्तत: पीतो हन्ति कुष्ठान्यनेकश: ॥४७॥तन्मूलसलिले घृष्टं वपुस्तेनाथ लेपितम् ।कुष्ठोन्येव निहन्त्याशु सद्य: प्रत्ययकारकम् ॥४८॥संशुध्दगन्धकं चैव तैलेन सह पेषयेत् ।अपामार्गक्षारतोयैस्तैलेन मरिचेन च ॥४९॥विलिप्य सकलं देहं तिष्ठेत्सूर्यातपेषु च ।भोजयेक्तभक्तं च तृतीये प्रहरे खलु ॥५०॥वह्रिना स्वेदयेद्रात्रौ प्रातरुत्थाय मर्दयेत् ।महिषस्य पुरीषेण स्रायाच्छीतेन वारिणा ॥५१॥गन्धतैलं ततोऽभ्यज्य पश्चात्कोष्णेन वारिणा ।स्रानं कुर्यादुषस्येवं कण्डू: पामा च नश्यति ॥५२॥दृष्टप्रत्यययोगोऽयं कथितोऽत्र मया खलु ।नाशयेच्चिरकालोत्था: कुष्ठपामाविचर्चिका: ॥५३॥ककुष्ठवर्णनम् ।पर्वते हिमसमीपवर्तिनि जायतेऽतिरुचिरं ककुष्ठकम् ।एकमेव नलिकाभिधानकं रेणुकं तदनु चापरं भवेत् ॥५४॥पीतवर्णमसृणं च वै गुरु स्रिग्धमुत्तमतरं प्रचक्षते ।श्यामपीतमतिहीनसत्वकं रेणुकं हि कथितं व्दितीयकम् ॥५५॥वदन्ति ककुंष्टमथापरे हि सद्य: प्रसूतस्य च दन्तिन: शकृत ।तत्कृष्णपीताभमतीव रेचनं तृतीयमाहुर्विबुधा भिषग्वरा: ॥५६॥चतुर्थककुंष्ठमिहैव वाजिनां नालं हि केचित्प्रवदन्ति तज्ज्ञा: ।यध्दस्तिजं श्वेतमथातिपीतं विरेचनं तत्प्रकरोति शीघ्रम् ॥५७॥रसायने श्रेष्ठतरं रसे च सत्वेन युक्तं खलु गौरवान्वितम् ।ककुष्ठगुणा: ।ककुंष्ठकं तिक्तकटूष्णवींर्य विशेषतो रेचनकं करोति ॥५८॥गुदार्तिगुल्मव्रणशूलहृत्परं प्रचक्षते शास्त्रविद: पुराणा: ।ककुंष्ठशोधनम् ।शुण्ठयम्भसा भावितमेव शुध्दिं ककुंष्ठमायाति हि सत्यमुक्तम ॥५९॥ककुंष्ठयोग: ।सत्वाकृष्टिर्नच प्रोक्ता यस्मात्सत्वमयं हि तत् ।यवमात्रं भजेदेनं विरेकांर्थ न संशय: ॥६०॥क्षणादामज्वरं हन्ति जाते सति विरेचने ।ताम्बूलेन समं चैवं भक्षितं सारयेद्रुवम् ॥६१॥बब्बूलमूलिकाक्काथं सौभाग्याजाजीसंयुतम् ।भूयो भूय: पिबेध्दिमान् विषं ककुष्ठजं जयेत् ॥६२॥कासीसभेदास्तद्रुणाश्व ।कासीसं प्रथमं हि सैकतमिदं पुष्पाख्यमन्यत्तथाक्षाराम्लं गुरु धूम्रवर्णाविषहृव्दीर्योष्णकं रागदम् ।श्वित्रघ्रं मुखकेशरज्जनकरं तत्सैकतं पूर्वकंपुष्पाख्यं ह्यपरं गुणैश्व सहितं सेव्यं सदा रोगहृत् ॥६३॥पुष्पाभिधं च कासीसं प्रसिध्दं नेत्ररोगहा ।सोष्णवींर्य कषायाम्लं विषघ्रं श्लेष्मनाशनम् ॥६४॥व्रणहृत्क्षयरोघ्रं पटरज्जनकं परम् ।कासीसशोधनम् ।भृडंराजरसे खिन्नं निर्मलं हि प्रजायते ॥६५॥कासीससत्वपातनम् ।सौराष्ट्रीसत्ववत्सत्वमेतस्यापि समाहरेत् ।कासीसयोग: ।कासीसं भस्म कान्तस्य चोभयं समभागिकम् ॥६६॥वराविडंसंयुक्तं घृतक्षौद्रप्लुतं प्रगे ।भक्षितं हन्ति वेगेन पाण्डुं यक्ष्माणमेव च ॥६७॥प्लीहं गुल्मं गुदे शूलं मूत्रकृच्छ्राण्यशेषत: ।सेवितं सर्वरोगघ्रं रसायनविधानत: ॥६८॥अग्रिसंधुक्षणं कुर्याव्दलीपलितनाशनम् ।आमाजीर्णभवान् रोगान् निहन्त्येव न संशय: ॥६९॥नवसारगुणा: ।उद्दिष्टं नवसाराख्यं लवणं चुल्लिकाभिधम् ।लोहद्रावणकं प्रोक्तं रसजारणकं तथा ॥७०॥वह्रिं च दीपयत्याशु गुल्मल्पीहामयापहम् ।मांसादिजारणं सम्यग्भुक्तपाकं करोति तत् ॥७१॥बिडगुणा: ।बिडं हि कथ्यते तव्दत्सर्वदोषहरं परम् ।वराटिकालक्षणम् ।पीता वराटिका प्रोक्ता सार्धनिष्कप्रमाणिका ॥७२॥श्रेष्ठा सैव बुधै: प्रोक्तां टडंभारा हि मध्यमा ।पादोनटडंभारा च कथ्यते या कनिष्ठिका ॥७३॥वराटिकागुणा: ।रसे रसायने प्रोक्ता परिणामादिशूलनुत् ।ग्रहणीक्षयरोगघ्री वीर्योष्णा दीपनी मता ॥७४॥वृष्या दोषहरी नेत्र्या कफवातविनाशिनी ।रसेन्द्रजारणे शस्ता बिडमध्ये सदा हिता ॥७५॥स्थूला वराटिका प्रोक्ता गुरुश्च श्लेष्मपित्तला ।वराटिकाशोधनम् ।खेदिता ह्यारनालेन यामाच्छुध्दिमवाप्रुयात् ॥७६॥अग्रिजारलक्षणम् ।समुद्रेणाग्रिनक्रस्य जरायुर्बहिरुज्झित: ।रवितापेन संशुष्क: सोऽग्रिजार इति स्मृत: ॥७७॥अग्रिजारगुणा: ।त्रिदोषशमनो ग्राही धनुर्वातहर: पर: ।वर्धनो रसवीर्यस्य जारण: परम : स्मृत: ॥७८॥गिरिसिन्दूरलक्षणम् ।महागिरौ शिलान्त:स्थो रक्तवर्णश्र्व्युतो रस: ।सूर्यातपेन संशुष्को गिरिसिन्दूरसंज्ञिक: ॥७९॥गिरिसिन्दूरगुणा: ।रसबन्धकरं भेदि त्रिदोशमनं तथा ।देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥८०॥दरदभेदा गुणाश्च ।दरद: शुकतुण्डाख्यो हंसपादस्तथाऽपर: ।चर्मार: प्रथम: प्रोक्तो हीनसत्व: स उच्यते ॥८१॥प्रवालाभ: शलाकाढय उत्तमो हंसपादक: ।दीपन: सर्वदोषघ्रो हिडुंलोऽतिरसायन: ॥८२॥सर्वरोगहर: साक्षाद्द्रावणे संप्रशस्यते ।यथा षडुंणगन्धेन जारितो रसराजक: ॥८३॥दरदाकर्षित: सूतो गुणैरेवंविधो भवेत् ।दरदशोधनम् ।कूष्माण्डखण्डमध्ये तु खेदितो लकुचाम्बुना ॥८४॥सकृत्संजायते शुध्द: सर्वकार्येषु योजयेत् ।बोदारशृंडलक्षणम् ।भवेद्रुर्जरके देशे सदलं पीतवर्णकम् ।अर्बुदस्य गिरे: पार्श्वे नाम्रा बोदारशृंडकम् ॥८५॥बोदारशृंडगुणा: ।नागसत्वं लिडंदोषहरं श्लेष्मविकारनुत ।रसबन्धकरं सम्यकछश्रुरज्जनकं परम् ॥८६॥साधारणरसशोधनम् ।साधारणरसा : सर्वे बीजपूररसेन वै ।त्रिवारं भाविता: शुष्का जायन्ते दोषवर्जिंता: ॥८७॥इति श्रीपद्यनाभसूनुना श्रीयशोधरेण विरचिते रसप्रकाशसुधाकरेषष्ठोऽध्याय: । N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP