संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| सप्तमोऽध्याय: । रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - सप्तमोऽध्याय: । श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश सप्तमोऽध्याय: । Translation - भाषांतर नवरत्नानि ।माणिक्यं मौक्तिकं चैव विद्रुमं तार्क्ष्यपुष्पकम् ।वज्रं नीलं च गोमेदं वैडूंर्य च क्रमेण हि ॥१॥सुजाति गुणसंपन्नं रत्नं सर्वार्थसिध्दिदम् ।दाने रसायने चैव धारणे देवतार्चने ॥२॥माणिक्यभेदा: ।पद्यरागाभिधं श्रेष्ठं प्रथमं तदुदीरितम् ।व्दितीयं नीलगन्धि स्यात्, घनं रक्तं सुशोभनम् ॥३॥महच्च कमलच्छायं स्रिग्धं स्वच्छं गुरु स्फुटम् ।समं वृत्तायतं गात्रे माणिक्यं चोत्तमं मतम् ॥४॥गडोंदकसमुद्रुतं नीलगर्भारुणच्छवि ।माणिक्यं पूर्ववच्छेषं नीलगन्धि तदुच्यते ॥५॥माणिक्यदोषा: ।माणिक्यं चाष्टधा नेष्टं सच्छिद्रं मलिनं लघु ।कर्कशं चिपिटं वक्रं सूक्ष्मं चाविशदं तथा ॥६॥माणिक्यगुणा: ।संदीपनं वृष्यतमं हि रुक्षं वातापहं कर्मरुजापहं च ।भूतादिदोषत्रयनाशनं परं राज्ञां सदा योग्यतमं प्रशस्तम् ॥७॥शुध्दमौक्तिकलक्षणम् ।हादि श्वेतं रश्मिमत्रिर्मलं च वृत्तंख्यातं मौक्तिकं तोतभासम् ।स्रिग्धं तौल्ये गौरवं चेन्महत्तल्लिडैंरेतैर्लक्षितं तच्च शुध्दम् ॥८॥वर्ज्यमौक्तिकलक्षणम् ।रुक्षाडं चेत्रिष्प्रभं श्यावताम्रं चांर्घ शुभ्रं ग्रन्थिलं मौक्तिकं च ।क्षाराभासं वैकटं युग्मकं च दोषैर्युक्तं सर्वथा त्याज्यमेभि: ॥९॥मौक्तिकगुणा: ।कासं श्वासं वह्रिमान्द्यं क्षयं च हन्याव्दृष्यं बृंहणं पित्ताहारी ।दाहश्लेष्मोन्मादवातादिरोगान् हन्यादेवं सेवितं सर्वकाले ॥१०॥श्रेष्ठविद्रुमलक्षणम् ।स्रिग्ध स्थूलं पक्कबिम्बीफलाभं वृत्तं दींर्घ निर्व्रणं चाप्यवक्रम् ।ख्यातं सध्दि: सप्तधा विद्रुमं च दोषैर्मुक्तं सर्वकार्येषु शस्तम ॥११॥सदोषविद्रुमलक्षणम् ।रुक्षं श्वेतं सव्रणं धूसरं च निर्भारं चेच्छुल्बवंर्ण प्रवालम् ।दोषैर्युक्तं कोटरैरावृत्तं च नेष्टं सद्रिर्भक्षणे धारणे च ॥१२॥प्रवालगुणा: ।पित्तास्रघ्रं श्वासकासादिरोगान् हन्यादेवं दुर्निवारं विषं च ।भूतोन्मादान्नेत्ररोगात्रिहन्यात्सद्य: कुर्याद्दीपनं पाचनं च ॥१३॥तार्क्ष्य स्रिग्धं भासुरं शष्पवंर्ण गात्रै: शुध्दं भारवद्रश्मियुक्तम् ।एते प्रोक्ता सप्तसंख्या गुणा वै दाने शस्तं भक्षणे धारणे च ॥१४॥त्याज्यतार्क्ष्यलक्षणम् ।नीलं श्वेतं कर्कशं श्यावरुक्षं वक्रं कृष्णं चिप्पटं भारहीनम् ।दुष्टं तार्क्ष्य चौषधे नोपयोज्यंतार्क्ष्यगुणा: ।कासं श्वासं सत्रिपाताग्रिमान्द्यम् ॥१५॥शोफं शूलं जूर्तिरोगं विषं च दुर्नामानं वै पाण्डुरोगं निहन्यात् ॥१६॥श्रेष्ठपुष्परागलक्षणम् ।स्वच्छं स्थूलं पुष्परागं गुरु स्यात्स्रिग्धं वर्णे कर्णिकारप्रसूनम् ।तच्चावक्रं मसृणं कोमलं च लिडंरेतै: शोभनं पुष्परागम् ॥१७॥त्याज्यपुष्परागलक्षणम् ।रुक्षं पीतं कर्कशं श्यामलं च पाण्डु स्याव्दा कापिलं तोयहीनम् ।दोषैर्युक्तं निष्प्रभ पुष्परागं नो सेव्यं तत्रैव देयं व्दिजेभ्य: ॥१८॥पुष्परागगुणा: ।कुष्ठं छर्दिं श्लेष्मवातौ निहन्ति मन्दाग्रीनामेतदेव प्रशस्तम् ।दाहे कृच्छ्रे, दीपनं पाचनं च तस्मात्सेव्यं सर्वदा सर्वकाले ॥१९॥वज्रभेदा: ।सर्वेषु रत्नेषु सदा वरिष्ठां मूल्यैर्गरिष्ठं त्रिविधं हि वज्रम् ।नरश्च नारी च तथा तृतीयं तेषां गुणान्वच्मि समासतो हि ॥२०॥पूंर्व पूंर्व श्रेष्ठमेतत्प्रदिष्टं द्रव्याव्दीर्यात्पाकतश्च प्रभावात् ।तेषां वर्णा जातयश्च प्रभेदा: कथ्यन्तेऽष्टौ शास्त्रतश्चापकर्षात् ॥२१॥श्वेतादिकं वर्णचतुष्टयं हि सर्वेषु रत्नेषु च कथ्यते बुधै: ।स्युर्ब्राह्मणक्षत्रियवैश्यशूद्रास्ते जातयो वै क्रमशश्च वर्णा: ॥२२॥पुंवज्रं यत्प्रोच्यते चाष्टधारं षटोणं चेदिन्द्रचापस्य वर्णम् ।अष्टौ चेत्स्यु: फालका भासुरं वै पूंर्व श्रेष्ठं सर्वदोषापहं स्यात् ॥२३॥स्रीवज्रं चेत्तादृशं वर्तुलं हि किंचिचैव चिप्पटं कर्कशं च ।कोणाग्रं वै कुण्ठकं वर्तुलं हि किंचिद्धीनं प्रोच्यते तत्तृतीयम् ॥२४॥स्त्री पुमान् स्त्री नो पुमान्यच्च वज्रं योज्यं तच्च स्त्रीषु पुंस्वेव षण्ढे ।व्यत्यासाव्दै नैव दत्तं फलं तद्दद्याव्द्ज्रं वा विना तत्पुमांसम् ॥२५॥वर्णेऽ प्येवं यस्य वर्णस्य वज्रं तत्तव्दर्णे शोभनीयं प्रदिष्टम् ।न्यायश्चायं भैरवेण प्रदिष्ट: सर्वेष्वेवं रत्नवर्गेषु सम्यक् ॥२६॥वज्रगुणा: ।आयु:प्रद वृष्यतमं प्रदिष्टं दोषत्रयोन्मूलनकं सदैव ।रसेन्द्रकस्यापि हि बन्धकृत्सदा सुधासमं चापमृतिं च हन्यात ॥२७॥रत्नदोषा: ।घर्षश्च बिन्दुश्च तथैव पानीयकृता सगर्भता ।सर्वेषु रत्नेषु च पज्च दोषा: साधारणास्ते कथिता मुनीन्द्रै: ॥२८॥ये क्षेत्रतोयप्रभवाश्च दोषा: सर्वेषु रत्नेषु गलन्ति सम्यक् ।तेषां च शुध्दिं शृणु भैरवोक्तां यथा हि दोषस्य विनाशनं भवेत ॥२९॥रत्नानां शोधनम् ।अम्लेन वै शुध्दयति माणिकाख्यंजयन्तिकाया: स्वरसेन मौक्तिकम् ।क्षारेण सर्वेण हि विद्रुमं चगोदुग्धतस्तार्क्ष्यमुपैति शुध्दिम् ॥३०॥धान्यस्याम्लै: पुष्परागस्य शुध्दिं कौलत्थे वै काथ्यमानं हि वज्रम् ।नीलं नीलीपत्रजातै रसैश्च गोमेदं वै रोचनाभिस्तथैव ॥३१॥वैडूंर्य चेदुत्तमाक्काथयुक्तं यामैकं वै खेदितं शुध्दिमेति ।वज्रशोधनम् ।यामावधि खेदितमेव वज्रं शुध्दिं प्रयातीति कुलत्थतोये ॥३२॥सिध्दं तथा कोद्रवजे शृते वा वज्रं विशुध्दयेध्दि विनिश्चयेन ।वज्रमारणम् ।सुभावितं मत्कुणशोणितेन वज्रं चतुर्वारविशोषितं च ॥३३॥छुच्छुन्दरीस्थं हि विपाचितं पुटे पुटेव्दराहेण च त्रिंशदेवम् ।ध्मातं पुनर्ध्माय शतं हि वारान् काथे कुलत्थस्य हि निक्षिपेच ॥३४॥संपेषयेत्तं हि शिलातलेन मन:शिलाभि: सह कारयेव्दटीम् ।क्षिप्त्वा निरुन्ध्यापि च मूषिकायां पुटान्यथाष्टौ च वनोपलैर्ददेत ॥३५॥वारान् शतं चापि ततो धमेत संमर्दितं शोधितपारदेन ।वज्राणि सर्वाणि मृतीभवन्ति तद्रस्मकं वारितरं भवेच ॥३६॥श्रीसोमदेवेन च सत्यवाचा वज्रस्य मृत्यु: कथितो हि सम्यक् ।कासमर्दरसपूर्णालोहजे मत्कुणस्य रुधिरैर्विलेपितम् ॥३७॥खेदितं च भिदुरं हि सप्तभिर्वासरै: परिनिषिच्य मूत्रके ।घ्मापितं हि खलु वज्रसंज्ञकं मारयेदिति वदन्ति तव्दिद: ॥३८॥नीलज्वालावीरुध: कन्दकेषु घृष्टं घर्मे शोषितं भस्मभावम् ।वज्रं याति स्वैरवह्रिप्रदानात्पिष्टैश्चापि क्षोणिनागै: प्रलिप्तम् ॥३९॥विंशव्दारान् संपुटेच प्रयत्नादारण्यैर्वा गोमयैस्तध्दठाग्रौ ॥वज्रं चैवं भस्मसाव्दीर्ययुक्तं सर्वस्मिन्वै योजनीयं रसादौ ॥४०॥वज्रयोगा: ।भूनागसत्वेन समं विमर्द्य वज्रस्य भूतिं च समानहेम्रा ।ध्मातं रसादावपि योजनीयं रसायनं तद्रवतीह सम्यक् ॥४१॥भागास्त्रयश्चैव हि सूतकस्य भागं विमर्द्याथ मृतं हि वज्रम् ।वज्रस्य भूति: किल पोटलीकृता मुखे धृता दार्ढ्यकरी व्दिजानाम् ॥४२॥वज्रभस्म किल भागत्रिंशकं स्वर्णमेव कथितं कलांशकम् ।अष्टभागमिह तारकं कुरु सूतमत्र समभागकं सदा ॥४३॥अभ्रसत्वभसितं समांशकं तुर्यभागमिह ताप्यकं भवेत् ।वैक्रान्तकं भस्म इहाष्टभागकंअ षडेव भागा हि बलेर्विधेया : ॥४४॥षाडुंण्यसंसिध्दिमुपैति सर्वदा सर्वार्थसंसिध्दिमुपैति सेविते ।नीलभेदा: ।इन्द्रनीलमथ वारिनीलकं, श्वैत्यगर्भितमथापि नीलकम् ॥४५॥कथ्यते हि लघु वारिनीलकं तुच्छमेव कथितं भिषग्वरै: ।कान्त्या युक्तं कार्ष्ण्यगर्भ च नीलं तचाप्युक्तं शक्रनीलं सदैव ॥४६॥श्रेष्ठनीललक्षणम् ।एकच्छायं स्रिग्धवर्ण गुरु स्यात्स्वच्छं मध्ये चोल्लसत्कान्तियुक्तम् ।नीलं प्रोक्तं पिण्डितं सप्तसंज्ञैरेतैर्लिडैंर्लक्षितं चोत्तमं हि ॥४७॥त्याज्यनीललक्षणम् ।निर्भारं चेत्कोमलं चास्रगन्धि रुक्षं वर्णे सूक्ष्मकं चिप्पटं च ।प्रोक्तं वै तव्दारिनीलं भिषग्भिरेतैर्लिडैं: सप्तमि: क्षेपणीयम् ॥४८॥नीलगुणा: ।संदीपनं श्वासहरं च वृष्यं दोषत्रयोन्मूलनकं विषघ्रम ।दुर्नामपाण्डुघ्रमतीव बल्यं जूर्तिं जयेत्रीलमिदं प्रशस्तम् ॥४९॥श्रेष्ठगोमेदलक्षणम् ।गोमेदकं रत्नवरं प्रशस्तं गोमेदवद्रागयुतं प्रचक्षते ।सुस्वच्छगोमूत्रसमानवर्ण गोमेदकं शुध्दमिहोच्यते खलु ॥५०॥दीप्तं स्रिग्धं निर्दलं मसृणं वै मूत्रच्छायं स्वच्छमेतत्समं च ।एभिर्लिडैंर्लक्षितं वै गरीय: सर्वेषु कार्येषु च योजनीयम् ॥५१॥वर्ज्यगोमेदलक्षणम् ।विच्छायं वा चिप्पटं निष्प्रभं च रुक्षं चाल्पं चावृतं पाटलेन ।निर्भारं वा पीतकाचाभयुक्तं गोमेदं चेदीदृशं नो वरिष्ठम् ॥५२॥गोमेदगुणा: ।गोमेदकं पित्तहरं प्रदिष्टं पाण्डुक्षयघ्रं कफनाशनं च ।संदीपनं पाचनमेव रुच्यमत्यन्तबुध्दिप्रविबोधनं च ॥५३॥श्रेष्ठवैडूर्यलक्षणम् ।स्वच्छं समं चापि विडूर्यकं हि श्यामाभशुभ्रं च गुरु स्फुटं हि ॥यज्ञोपवीतोपमशुध्दरेषास्त्रिसश्व संदर्शयतीह शुभ्रा: ॥५४॥त्याज्यवैडूर्यलक्षणम् ।कर्कशं च लघु चिप्पटं सदा श्यामतोयमिव दृश्यते छवि: ।रक्तगर्भसममुत्तरीयकं नैव शोभनमिदं विदर्यकम् ॥५५॥वैडूर्यंगुणा: ।रक्तपित्तशमनं विडूर्यकं बुध्दिवर्धनकरं च दीपनम् ।पित्तरोगमलमोचनं सदा धारयेच मतिमान् सुखावहम् ॥५६॥रत्नमारणम् ।तालगन्धकशिलासमन्वितं मर्दयेल्लकुचवारिणा खलु ।विना वज्रमपि चाष्टभि: पुटै रत्नभूतिर्भवतीति वै सदा ॥५७॥रत्नद्रुतिविधानम् ।रामठं लवणपश्चकं सदा क्षारयुग्मपि चेत्सुपेषितम् । चूलिकालवणम्लवेतसं सुपक्ककुम्भीकफलं तथैव ॥५८॥चित्रमूलकरुदन्तिके शुभा जम्बुकी जलयुता द्रवन्तिका ।अर्कदुग्धसमसौधदुग्धकं सर्वमेव मृदितं शिलातले ॥५९॥गोलमय च विधाय निक्षिपेद्रत्नजातिषु वराणि पेषयेत ।भूर्जपत्रमभिवेष्टय गोलके गोलकोपरि निवेष्टय सूत्रत: ॥६०॥वस्त्रेण संवेष्टय तत: प्रयत्नाद्दोलाख्ययत्रेऽथ निवेश्य गोलकम् ।सर्वाम्लयुक्ते तुषवारिपुरिते पात्रे दृढे मृन्मयसंज्ञके हि ॥६१॥दिनत्रयं स्वेदनकं विधेयमाहृत्य तस्माव्दरगोलकं हि ।संक्षालयेच्चाम्लजलेन चापि संजायते रत्नभवा द्रुतिश्च ॥६२॥रत्नद्रुतिलक्षणम् ।वर्णेन सा रत्ननिभा च कान्त्या लघ्वी भवेद्देहकरी च सम्यक ।लोहस्य वेधं प्रकरोति सम्यक् सूतेन सम्यडिंलनं प्रयाति ॥६३॥तदा भवेयु: खलु सिध्दिदा यदा हिडंग्वादिवर्गेण मिलन्ति सम्यक् ।यामव्दयं कांस्यविमर्दिता वै चातिप्रयत्नेन तु वैद्यवर्यै: ॥६४॥कस्यापि नु: सिध्यति वै द्रुतिश्च यदा प्रसन्नो भवतीह देव: ।विष्णोश्च भक्ति: खलु दुर्लभा वै तव्दत्सूते बन्धनं दुर्लभं च ॥६५॥तासां मध्ये दुर्लभाऽभ्रद्रुतिश्च स्वल्पं भाग्यं भूरिदौर्भाग्यतोऽपि ।सप्तमाध्यायोपसंहार: ।रत्नानां क्रमतो गुणाश्च कथितास्तच्छोधनं मारणंतेभ्यश्चैव हि सत्वपातनमथो सम्यग्द्रुते: पातनम् ।सर्वेषां हि परीक्षणं च द्रुतय: संमेलनं वै रसेग्रन्थेऽस्मिन्परिदर्शितानि सकलान्येवं हि कर्माणि वै ॥६६॥ N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP