संस्कृत सूची|शास्त्रः|आयुर्वेदः|रसप्रकाशसुधाकरः| नवमोऽध्याय: । रसप्रकाशसुधाकरः रसप्रकासुधाकरान्तर्गविषयानुक्रमणिका । मन्गलाचरणम् प्रथमोध्याय:। द्वितीयोऽध्याय: । तृतीयोऽध्याय: । चतुर्थोऽध्याय: । पंचमोऽध्याय: । षठोऽध्याय : । सप्तमोऽध्याय: । अष्टमोऽध्याय: । नवमोऽध्याय: । नवमोऽध्याय: । दशमोऽध्याय: । एकादशोऽध्याय: । द्वादशोऽध्याय: । त्रयोदशोऽध्याय: । रसप्रकाशसुधाकरः - नवमोऽध्याय: । श्रीयशोधरविरचितो रसप्रकाशसुधाकर:। Tags : aayurvedrasa prakashaआयुर्वेदरस प्रकाश नवमोऽध्याय: । Translation - भाषांतर अथौषधीनां नामानि कथ्यन्तेदिव्यौषधीनं नामानि कथ्यन्तेऽत्र मयाऽधुना ।चतु:षष्टिमिता: सम्यग्रसबन्धकरा: परा: ।सोमवल्ली तथा सोमवृक्ष: सोमकलालता ॥१॥भूपद्यिनी गोनसा चेदुच्चटा चेश्वरीलता ।भूतकेशी कृष्णलता लशुनी च रुदन्तिका ॥२॥वाराही सप्तपत्रा च नागिनी सर्पिणी तथा ।छत्रिणी चैव गोशृडीं ज्योतिर्नाम्री च रक्तिका ॥३॥१ अत्रोक्तानां दिव्यौषध्यादीनां मध्ये कासांचिल्लक्षणानि रसेन्द्रचूडामणौ षष्ठा ध्याये, रससारे विंशतितमे पटले, अन्यत्र चोक्तानि, परं विस्तरभीत्या तानि सर्वाण्यत्र न लिखितानि, अतस्तत्तद्रन्थेष्वेव द्रष्टव्यानि ।पत्रवल्ली काकिनी च चाण्डाली ताम्रवल्लिका ।पीतवल्ली च विजया महौषध्यमरीलता ॥४॥नवनीता रुद्रवल्ली लम्बनी भूमितुम्बिका ।गान्धर्वी व्याघ्रपादी च गोमारी च त्रिशूलिनी ॥५॥त्रिदण्डी करसी भृडंवल्ली चमरिका तथा ।करवल्लीलता चैव वज्राडीं चिरवल्ल्यपि ॥६॥रोहिणी बिल्विनी भूतशोचनी चैव कथ्यते ।मार्कण्डी च करीरी च अक्षरा कुटजा तथा ॥७॥मूलकन्दाऽम्बुवल्ली च मुनिवल्ली च कीर्तिता ।घृतगन्धा निम्बुवल्ली तिलकन्दाऽतसीलता ॥८॥बोधवल्ली सत्वगन्धा कूर्मवल्ली च माधवी ।विशाला च महानागी मण्डूकी क्षीरगन्धिका ॥९॥चतु:षष्टिरिति प्रोक्ता दिव्यौषध्यो महाबला: ।एकैकाया रसेनापि सूतो बन्धत्वमाप्रुयात् ॥१०॥अनया साधित: सूतो जरादारिद्यनाशन: ।तास्तु लक्षणसंयुक्ता: सोमदेवेन भाषिता: ॥११॥ग्रन्थविस्तरभीत्याऽत्र नाममात्रेण कीर्तिता: ।रसौषध्य: ।अत:परं रसौषध्य: प्रोच्यन्ते शास्त्रवर्त्मना ॥१२॥जलोत्पला चिश्चिका च जलापामार्गमांसिके ।जलकुम्भी मेघनादा ईश्वरी चापराजिता ॥१३॥मालार्जुनी वेणुका च शिखिपादी च तिक्तिका ।काश्मर्यतिविषा प्रोक्ता सभडां जालिनी तथा ॥१४॥तुषाम्बुका च दुर्गन्धा पाषाणी शुकनासिका ।वनमाली वराही च गोजिह्वा मुशली तथा ॥१५॥पटोली शठिका मूर्वा पाटला जलमूलका ।रसाजमारी कथिता शीशिका सितगन्धिनी ॥१६॥पोतकी च विषघ्री च बृहती गुरडी तथा ।तुलसी च विदारी च मज्जिष्ठा चित्रपालिका ॥१७॥जलपिप्पलिका भार्गी मण्डूकी चोत्तमा तथा ।चन्द्रोदका सारिवा च हरिणी कुकुटापि च ॥१८॥सर्पाक्षी हंसपादी च वनकूष्माण्डवल्लिका ।मर्कस्फोटी धन्वयास: पागव: स्थलसारिणी ॥१९॥अर्धचन्द्रा हेमपुष्पी मोहिनी वज्रकन्दिका ।अलम्बुषा च हलिनी रसचित्रा च नन्दिनी ॥२०॥वृश्चिकाली गुडूची च वासा शृडीं च कथ्यते ।अष्टषष्टिरिति प्रोक्ता रसौषध्यो महाबला: ॥२१॥सूतस्य मारणे प्रोक्ता जारणे च नियामने ।महौषध्य: ।अष्टषष्टिर्महौषध्य: प्रोच्यन्ते रसशास्त्रत: ॥२२॥ऋध्दि: शोषिण्यधोगुप्ता श्रावणी सारिवा तथा ।ज्योतिष्मती तेजवती रास्रा बाकुची बिम्बिका ॥२३॥विषाणिका चाश्वगन्धा वर्षाभू: शरपुष्पिका ।बल चातिबला नागबला दन्ती महाबला ॥२४॥द्रवन्ती नीलिनी चैव शतपुष्पा प्रसारिणी ।वरा शतावरी चैला हपुषा सातला त्रिवृत् ॥२५॥स्वर्णक्षीरी तुगा पृथ्वी विशाला नलिकामली ।इन्द्रवारुणिकाकाह्वे सिन्दुवारोऽजमोदिका ॥२६॥त्रायमाणाऽऽसुरी शडंपुष्पी च गिरिकर्णिका ।धातकी कदली दूर्वा अम्लिका कासमर्दिका ॥२७॥जन्तुपादी च निर्गुण्डी द्राक्षा नीलोत्पलं शमी ।नालिकेरी च खर्जूरी फल्गु शिंशी च मल्लिका ॥२८॥वार्षिकी शाल्मली जाती ग्रीष्मवर्षा तु यूथिका ।केकिचूडाऽजगन्धा च लक्ष्मणा तरुणीति च ॥२९॥अष्टषष्टिरिति प्रोक्ता महौषश्यो महाबला: ।रसाधिका महौषध्य: ।अथेदानीं प्रवक्ष्यामि महौषध्यो रसाधिका: ॥३०॥देवीलता कालवर्णी विजयासुरी सिंहिका ।पालशतिलका क्षेत्री संवीरा ताम्रवल्लिका ।नाही कन्या तथा सोमराजिक च टुटुम्भटी ॥३१॥कुबेराक्षी गृध्रनखी पर्पटी छिद्रलम्बिका ।क्षुत्कारी दुग्धिका भृडीं गडेंटी शरपुडिंका ॥३२॥अष्टावल्ली राजशमी पनसी च जयन्तिका ।विषखर्परिकाऽवन्ती काकाण्डोलाऽम्बुमूलिका ॥३३॥सिध्देश्वरी हंसपादी खोटका शृडंरीटिका ।अध:पुष्पी मधुराख्या शृडंला गृज्जनीति च ॥३४॥जारावली महाराष्ट्री सहदेवेश्वरी तथा ।काष्ठगोधामती देवगन्धारी रजनीडुंदी ॥३५॥पलाशिनी नाकुली च काम्बोजी चाश्विनी तथा ।चक्रावल्ली सर्पदष्टा शल्लकी रोहिता तथा ॥३६॥तौवरी वडंजा राजपद्या जम्बीरवल्लिका ।गजपिप्पलिका भृडंवल्ली चैवार्कवल्लिका ॥३७॥जन्तुकारा शिग्रवल्ली करवीरा शिवाटिका ।नाराची कश्चनी चाजगन्धेत्युक्ता रसोषधि:? ॥३८॥अष्टषष्टिरिति प्रोक्ता रसौषध्यो रसाधिका: ।रसे रसायने प्रोक्ता: सर्वकार्यकरा: सदा ॥३९॥इति श्रीपद्यनाभसूनुना श्रीयशोधरेण विरचिते रसप्रकाशसुधाकरे दिव्यौषध्यादिनिरुपणं नाम नवमोऽध्याय: । N/A References : N/A Last Updated : September 09, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP