संस्कृत सूची|संस्कृत साहित्य|गीता|दत्तगीता| पंचमोध्यायः दत्तगीता प्रथमोध्यायः द्वितीयोध्यायः तृतीयोध्यायः चतुर्थोध्यायः पंचमोध्यायः षष्ठोध्यायः सप्तमोध्यायः दत्तगीता - पंचमोध्यायः गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : dattagitagodgurudattastotraगीतागुरूदत्तदत्तदेवतादेवीस्तोत्र पंचमोध्यायः Translation - भाषांतर श्रीगणेशाय नमः ॥बहुधा श्रुतयः कथयंति यतो वियदादिमिदं मृगतोयसमम् ॥ यदि चैकनिरंतरसर्वशिवम् ह्यु पमा च कथं ह्युपमेयहीनम् ॥१॥अविभक्तविभक्तविहीनपरं ननु कार्य विकार्यविहीनपरम् ॥ यदिचैकनिरंतरसर्वशिवं यजनं कथमध्ययनादिकम् ॥२॥मनएव निरंतरसर्वगतं मनएव निरंतरहीनपरम् ॥ मनएव निरंतरसर्वशिवं मनएव कथं हि विचारयति ॥३॥दिनरात्रिविभेदनिराकरणं उदितानुदितस्य निराकरणम ॥ यदिचैकनिरंतरसर्वशिवं रविचंद्रमसौ ज्वलनश्च कथम ॥४॥गतकाम्य - विकाम्यविभेद इति गतवेष्टित - चेष्टितभाव इति ॥ यदि चैकनिरंतर सर्वशिवं बहिरंतरसंधि - विसंधिविहीनम ॥५॥नहि यत्रहि सार - विसार इति इह शून्य - विशून्यविहीन इति ॥ यदिचैकनिरंतरसर्वगतं प्रथमं च कथं द्वितीयं च कथम ॥६॥यदिभेदक - भेद्यनिराकरणं यदि वेदक - वेद्यनिराकरणम ॥ यदि चैकनिरंतरसर्वशिवं तृतीयचतुर्थं कथं च तुरीयम ॥७॥गदितागदितं नहि सत्यमिति विहिताविहितं नहि सत्यमिति ॥ यदि चैकनिरंतरसर्वशिवं विषयेंद्रियबुद्धीमनश्च कथम ॥८॥यदि कल्पितभेदनिराकरणं यदितकल्पिवेद निराकरणम ॥ यदि चैकनिरंतरसर्वशिवं श्रुतयश्च कथं हि पुराणतमम ॥९॥गगनं पवनो नहि सत्यमिति धरणी दहनो नहि सत्यमिति ॥ यदि चैकनिरंतर सर्वशिवं जलदं च कथं सलिलं च कथम ॥१०॥मरणामरणस्य निराकरणम ॥ करणाकरणस्य निराकरणम ॥ यदि चैकनिरंतरसर्वशिवं गगनागगनं च कथं हि वद ॥११॥प्रकृती पुरुषो नहि भेद इति नहि कारणस्य न विरक्तिरिति ॥ यदि चैकनिरंतरसर्वशिवं पुरतोपुरतस्य कथं हि वद ॥१२॥तव आश्रयवर्णविहींनपरं कारणकतृकविहींनपरम ॥ यदि चैकनिरंतरसर्वशिवं गुण - दोष - विचारवचांसि कथम ॥१३॥ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति ॥ यदि चैकनिरंतरसर्वशिवं इह नेति न नेति कथं च पुनः ॥१४॥तनुधर्म - विधर्मविहीन इति ननु कार्यविकार्यविनाश इति ॥ यदि चैकनिरंतरसर्वशिवं अविनोद - विनोदरतिश्च कथम् ॥१५॥पुरुषोपुरुषस्य विनष्टिरित वनितावनितश्च विनष्ठिरिति ॥ यदि चैकनिरंतर सर्वशिवं अविनष्टि ननष्टि कथंम च भवेत् ॥१६॥यदि मोह - विमोहविहीनपरं यदि संशय - शोकविहीनपरम ॥ यदि चैकनिरंतरसर्वशिवं इह दुःख - विदुःख मनश्च कथम् ॥१७॥नसितासितवर्ण विचार इति न परापरभेदविभाग इति ॥ यदि चैकनिरंतरसर्वशिवं ननु सार - विसारविभिन्नपरम ॥१८॥नहि याज्ञिक - यज्ञविधानमिति नहुताशनवस्तुविधानमिति ॥ यदि चैकनिरंतर सर्वशिवं भवकर्मफलं विभवं च कथम ॥१९॥यदि पूर्ण - विपूर्णविहीन इति यदि सर्वविवर्जितसर्वमिति ॥ यदि चैकनिरंतरसर्वशिवं इह तर्क - वितर्कपरं च कथम ॥२०॥उपसंत्दृतभेदविभेद इति उपसंत्दृति - बुद्धिविबुद्धि इति ॥ यदि चैकनिरंतरसर्वशिव अविवेक - विवेकमतिश्च कथम ॥२१॥ननु शोक विशोकविमुक्त इति ननु दर्प विदर्प विमुक्त इति ॥ ननु शोक - विशोकविमुक्त इति ननु दर्प - विदर्पविमुक्त इति यदि चैकनिरंतरसर्वशिवं इहतेति कथम ममतेंति कथम ॥२२॥त्वमहं नहि यत्र कदाचिदपि कुलजातिविचारमसत्यमिति ॥ अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥२३॥गुरुशिष्यविचारविशीर्ण इति उपदेशविचार विशीर्ण इति ॥ अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥२४॥नहि कल्पितवेदविभाग इति नहि कल्पिततत्त्वविभाग इति ॥ अहमेव शिवं परमार्थमिति अभिवन्दनमत्र करोषि कथम् ॥२५॥सरजाविरजा नकदाचिदपि ननु निर्मल निश्चलबुद्धिरिति ॥ अहमेव शिवं परमार्थमिति अभिवंदनमत्र करोषि कथम् ॥२६॥विंदति विंदति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र ॥ समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥२७॥ॐ तत्सदिति श्रीदत्तगीताशूपनिषत्सारमथितार्थेषु निरंजनविद्यार्या श्रीदत्त - गोरक्षकसंवादे निर्वाण मोहद्वैतनिरूपणम् नाम पंचमोध्यायः ॥५॥ N/A References : N/A Last Updated : March 16, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP