दत्तगीता - प्रथमोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.



श्रीगणेशाय नमः ॥
अस्य श्रीदत्तात्रेयगीतामालामंत्रस्य ॥ गायत्र्यादीनि छंदांसि ॥ श्रीदत्तात्रेयो परमात्मा देवता ॥ येनेदं पूरितमिति बीजं ॥ ज्ञानारसं समरसमिति शक्तिः ॥ किमु रोदसि मानस सर्वसममिति कीलकम्, स्वरूपनिर्वाणं नाम योहमिति यजकम् ॥ योग - मोक्षयोः स्वनिष्ठपरिपाकसिध्यर्थे श्रीदत्तात्रेयगीता जपे विनियोगः ॥ येनेदं पूरितं सर्वमित्यंगुष्ठाभ्यां नमः ॥हृदयाय नमः॥ ज्ञानामृतं समरसमिति तर्जनीभ्यां नमः ॥शिखायै वौषट्॥ किमुरोदासि मानससर्वसममित्यनामिकाभ्यां नमः कवचायहुम् ॥ यदिकचैकनिरंतरेति कनिष्ठिकाभ्यां नमः ॥नेत्र०॥ तमीशमात्मानमुपैमि शाश्वतमिति करतलकरपृष्ठाभ्यां नमः अस्त्रायफट् ॥ ॐ भूर्भुवःस्वरोमिति दिग्बंधः ॥अथ ध्यानं॥ नित्यं यस्यांघ्रियुग्मं हिमकरसदृशं पादुकाद्वंद्वभूषं बिभ्रद्योगींद्रदोहत्सुखनिचयसुधानिर्झरं सुच्छविद्युत् ॥ द्यूते क्रीडाविलासादभयवरकरः प्राणमूले च दृष्टीस्तत्त्वावावधूते त्यथ सिरसि जटासूत्रकं यो बभार ॥१॥
श्रीमत्सिद्धकिरीटरत्नकिरणाच्छन्नांघ्रियुग्मांतरं भक्यासक्तमयैकसिंधुलहरीसिक्तार्कचिंतानलम् ॥ तत्त्वासिं विशिखाग्रमुष्टिवसतिं श्रीदेवदत्तं प्रभुं यातः सोहमनन्यभावशाणं तत्वं त्राहि मां माधवम ॥२॥
दत्तात्रेयमिदं शुद्धं ब्रह्मनिर्वांणनिष्ठितम् ॥ अवधुतमहं नौमि विज्ञाननंदविग्रहम् ॥३॥
पठिता प्रत्यहं गीता त्रिवारं येन धीमता ॥ त्रिमासैर्लभते सिद्धिं निष्कामं च सकामतः ॥४॥
यस्य बाधदिदं सर्वं ज्ञानविज्ञानगोचरम् ॥ तस्मै सदैकरूपाय दत्तात्रेयाय ते नमः ॥५॥
दत्तात्रेयम् शिवं पूर्णं भावाभावविवर्जितम् ॥ अद्वैतं परमं गुह्यं निर्विकल्पं निरंजनम् ॥६॥
कथं वदामि निर्भावम् भेदाभेदविवर्जितम् ॥ अमोघं चामलं पूर्णं प्रसिद्धं तत्त्वमव्ययं ॥७॥
ईश्वरानुग्रहादेव पुंसामद्वैतवासना ॥ महाभयपरित्राणं दिव्त्राणमिहजायते ॥८॥
यदेकं निर्गुणं नित्यं निराभासं निरंजनम् ॥ चिदानंदस्वरूपं च दत्तात्रेयं चिदक्रियम् ॥९॥
गोरक्षक उवाच -
त्रिगुणं शरीरं भवतीह सारं अजनं समूहे चरतीह नग्नम् ॥ मुनिवरनमितं भवगुणरहितं परमविबुधं भोऽसावलं हि ॥१०॥
भावाभावं भवति स भावो भावं शयति मननं हि तत् ॥ प्रलयति तन्मननयनवशात्स्मृतवचनं श्रृणु भो अवधूता ॥११॥
श्रीदत्तात्रेय उवाच -
येनेदं पूरितं सर्वम् आत्मन्येवात्मनात्मनि ॥ निराकारं कथं वंदे ह्यभिन्नं शिवम - व्ययम् ॥१२॥
पंचभूतात्मकं विश्वं मरीचिजलसन्निभम् ॥ कस्यास्ति ह नमस्कारो अहमेको निरंतम ॥१३॥
वेदांतसारसर्वज्ञं ज्ञानविज्ञानमेव च ॥ अहं चात्मा निराकारः स्वस्वं वेद्मि स्वभावजनम् ॥१४॥
आत्मैव केवलं सर्वं भेदाभेदो नविद्यते ॥ अस्ति नास्ति कथं ब्रूयाद्विस्मयः प्रतिभाति मे ॥१५॥
एवं सर्वात्मकं नित्यं निष्कंपं गगनोपमम् ॥ स्वभावं निर्मलं शुद्धं स एवाहं नसंशयः ॥१६॥
अहमेवाव्ययोऽनंतः शुत्धविज्ञानविग्रहः ॥ सुखं दुःखं वि ( न ) जानामि कथं कस्यापि वर्तते ॥१७॥
न मानसं कर्म शुभाशुभं मे न वाचिकं कर्म शुभाशुभं मे ॥ न कामजं कर्म शुभाशुभं मे ज्ञानामृतं शुत्धमतींद्रियोहम् ॥१८॥
मनों वैं गगनाकारं मनों वै सर्वतोमुखम् ॥ मनो वै परमात्मैव न मन परमार्थतः ॥१९॥
लीयंते वा नलिप्यंते कथं कस्यापि वर्तते ॥ नहि सर्वमसर्वं च आत्मैव केवलं यतः ॥२०॥
मनः सर्वे प्रलीयंते मनस्तत्र प्रलीयते ॥ एवं सर्वं मनः सर्वं आत्मैव केवलं यतः ॥२१॥
अहमकमिदं सर्वं व्योंमाकारं निरंतरम ॥पश्यामि कथमात्मानं प्रत्यक्षं च तिरोहितम् ॥२२॥
त्वमेव तत्त्वान्हि कथं विबुध्यसे सर्वंहि सर्वेषु विनष्टमव्ययम् ॥ सदोदसि त्वं त्वमखंडितं विभो दिवा च नक्तं च कथं हि मन्यत्ते ॥२३॥
आत्मनं सततं बित्धि सर्वमेकं निरंतरम् ॥ अहं ध्यात्वा परं ध्येयमखंड खंडसे कथम् ॥२४॥
नजातोसि मृतोसि त्वं न ते देहः कदाचन ॥ सर्वं ब्रह्मेति विख्यातं ब्रविति बहुधाश्रितः ॥२५॥
सबाह्याभ्यंतरेऽसि त्वं शिवः सर्वत्र सर्वदा ॥ इतस्ततः कथ भ्रांतः प्रधावसि पिशाचवत् ॥२६॥
संयोगाश्च वियोगाश्च वर्तंते नहि तन्न मे ॥ नाहं नत्वं जगन्नेति सर्वमात्मैव केवलम् ॥२७॥
शब्दादिपंचकस्यास्य नैवासि त्वं हते पुनः ॥ त्वमेव परमं तत्त्वं मनः किं परितप्यसे ॥२८॥
नच मृत्युर्नते चित्तं बंधं मोक्षं शुभाशुभम् ॥ कथं रोदिसि रे चित्त नाम - रूपे न ते न मे ॥२९॥
अहो चित्तक विभ्रांतः प्रधावसि पिशाचवत् ॥ अभिन्नं यस्य चात्मानं रागत्यागात्सुखी भव ॥३०॥
त्वमेव मोक्षोहि विकारवर्जितो निष्कंपमेकं हि विमोक्षविग्रहः ॥ नवीतरागो गतवीतरागो कथं हि संतप्तअकामकामी ॥३१॥
नाहं कर्ता न भोक्ता च न मे कर्म कदाचन ॥ विशुद्धं निर्गुणं बद्धमुक्तिः कथं मम ॥३२॥
बन्धंति श्रुतयः सर्वाः निर्गुणं शुद्धमव्ययम् ॥ अशशीरं समं तत्त्वं सिद्धिर्नसशयः ॥३३॥
साकारममृत विद्धि निराकारं निरंतरम् ॥ एतत्तत्त्वोपदेशेन नपुनर्गर्भसंभवः ॥३४॥
एकानेकसमं तत्त्वं वदंति ह विपश्चिंतः ॥ रागत्यागेन मनसि ह्येकानेको नविद्यते ॥३५॥
अनित्यरूपस्य कुतो हि बंधनं नित्यस्य रूपस्य कुतो हि बंधनम् ॥ नानित्यरूपं न च नित्यरूपं शिवस्वरूपं सहजामलं च ॥३६॥
अनाहरूपं हि कथं समाधिमोक्षस्वरूपं यदि सवमेकम् ॥ आत्मस्वरूपं हि कथं समाधिरस्तीति नास्तीति कथं समाधिः ॥३७॥
विशुद्धोसि समं तत्वं विदेहिस्त्वमजोऽव्ययः ॥ जानामि हि नजानामि चात्मानं मन्यसे कथम् ॥३८॥
यस्त्वं जानासि तत्वन यस्त्वं पश्यसि तत्कथम् ॥ यस्त्वं मन्यसि तत्वेन सर्वंब्रह्मेति सर्वदा ॥३९॥
तत्वमस्यादिवाक्येन आत्मा हि प्रतिपादितः ॥ नेति नेति श्रुतिब्रूयान्नानृत्यं ( तं ) पंचभौतिकम् ॥४०॥
आत्मनैवात्मना सर्वं त्वया पूर्णं निरंतरम् ॥ ध्याता ध्यानं नते चित्तं निर्लक्ष्यं ध्यायसे कथम् ॥४१॥
शीवं नजानामि कथम् वदामि शिवं च जानामी कथं वदामि ॥ सर्वं शिवं वै परमार्थतत्वं स्वच्छस्वभावाद्गग नोपमोऽहम ॥४२॥
आत्मस्वरूपी नच चोपकल्पना आत्मस्वभावेन मदन्यभवना स्वयं शिवत्वं परमं विशुद्धम् नाहं न मे चैव परात्परं च ॥४३॥
न त्वं नाहं समं तत्वं कलानां हेतुवर्जितम् ॥ ग्राह्य ग्राहक निर्मुक्तं स्वयं वेद्य कथं भवेत् ॥४४॥
अतत्वरूपं नहि वस्तु किंचित्तत्वं स्वरूपं न हि वस्तु किंचित् ॥ आत्मैकरूपं परमार्थतत्वं नहिंसको वाऽपि न चापि हिंसा ॥४५॥
विशुद्धोहं समं तत्वं विदेहं विश्वतोमुखम् ॥ विभ्रमे कथमात्मानं विभ्रांतोहं कथं पुनः ॥४६॥
घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् ॥ शिवेन मनसा तद्वन्न भिन्नं प्रति मे शिवम् ॥४७॥
न घटेन घटाकाशः न जीवो जीवविग्रहः ॥ केवलं ब्रह्म संवेत्ति वेद्य - वेदविवर्जितम् ॥४८॥
सर्वत्र सर्वदा वर्जं सर्वमात्मानजं घ्रुवम् सर्वशून्यमशून्यं च तन्मां विद्धि नसंशयः ॥४९॥
न देवलोकास्त्वसुरा न यक्षा वर्णाश्रमो नैव कुलं नजातिः ॥ न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरूपं परमार्थतत्वम् ॥५०॥
व्याप्य - व्यापकर्निमुक्तं तत्वमेकं च केवलम् ॥ प्रत्यक्षं वा परोक्षं वा चात्मानं मन्यसे कथम् ॥५१॥
अद्वैतं केचिदिच्छंति द्वैतभिच्छंति चापरे समं तत्वं नविंदंति द्वैताद्वेतविवजिंतम् ॥५२॥
श्वेतादिवर्णरहितं शब्दादिगुणर्वजि तम् ॥ कथयामि कथं तत्त्वं मनो - वाचामगोचरम् ॥५३॥
यदा हि मन्यसे सर्वं देहादिगगनोपमम् ॥ तदहं ब्रह्म संविद्धि तत्त्वं वेत्ति परात्परम् ॥५४॥
परेण सर्वमात्मानं न भिन्नं प्रतिभाति मे ॥ ब्रह्मैव केवलं सर्वं ध्याता ध्यानं च कथ्यते ॥५५॥
यत्करोषि यदश्नासि यच्छृणोषि ददासि यत् ॥ एतत्सर्वं न ते किंचिच्छुद्धोहमजमव्ययम् ॥५६॥
सर्वं जगद्विद्धि निराकृतिं तं सर्वं जगद्विद्धि विकारहीनम् ॥ सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरूपम् ॥५७॥
तत्वं तत्त्वसमं देहं किं तु जानामि वा पुनः ॥ असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम् ॥५८॥
अष्टांगयोगेन तु नैव बुद्धं ग्रुपदेशन तु नैव बुध्यम् ॥ मनोविलासेन तु नैव बौद्धुं स्वयं स्वबोधेन विशुद्धरूपम् ॥५९॥
नहि भूतात्मको देहो विदेहो वर्तते नहि ॥ आत्मैव केवलं सर्वं न तु कुर्यात्कथंचन ॥६०॥
माया माया कथं तात छाया छाया नविद्यते ॥ तत्त्वमेकमिदं सर्वं व्योमाकांरं निरंजनम् ॥६१॥
आदिमध्यांतमुक्तोहं नबद्धोहं कदाचन ॥ स्वभावनिर्मलं शुद्धमिति मे निश्चयो मनः ॥६२॥
महदादिजगत्सर्वं नकिंचित्प्रतिभाति मे ॥ ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमो भवेत् ॥६३॥
जानामि सर्वथा सर्वमहमेको निरंतरम् ॥ निरालंबमशून्यं च न तु व्योमादिपंचकम् ॥६४॥
नपुमात्रपुंसको न स्त्री न बद्धो नैव कल्पना ॥ स्वानंदंच निरानंदमात्मानं मन्यसे कथम् ॥६५॥
नबद्धो नैव मुक्तोहं नचाहं ब्रह्मणः पृथक् ॥ नभर्ता न च भोक्ता च व्याप्यव्यांपकवर्जितम् ॥६६॥
यथा जले जलं न्यस्तं स्वस्मिन् संभेदवर्जितम् ॥ प्रकृतिं पुरुषं तद्वन्नभिन्नं प्रतिभाति मे ॥६७॥
जानासि ते परं रूपं प्रत्यक्षं गगनोपमम् ॥ नचापरं हि रूपं हि मरीचिजलसन्निभम् ॥६८॥
नगुरुर्नोपदेशश्च नचोपार्धिनच क्रिया ॥ विदेहीं मां विजानीहि विशुद्धोहं स्वभावतः ॥६९॥
यदि यो वै नमुक्तोहं नबद्धोहं कदाचन ॥ साकारं वा निराकारंमात्मानं मन्यसे कथम् ॥७०॥
विशुद्धं ईश्वरोसि त्वं न ते चित्तं परात्परम् ॥ अहमात्मा परं तत्त्वमिदं वक्तु न शक्यते ॥७१॥
कथं रोदिसि रे चित्त आत्मन्येवात्मना भव ॥ पिबन् सकलतीर्थांत्मा अद्वैतं परमामृतम् ॥७२॥
नवै बोधो नचाबोधो नबोधो बोध एव च ॥ यस्य निर्वासनाबोधो स बोधो नान्यथा भवेत् ॥७३॥
न ध्यान तकों न समाधियोगो न देशकालौ न गुरूपदेशः ॥ स्वभावसंवित्तिपरं च तत्वमाकाशकल्पं सहजं ध्रुवं च ॥७४॥
नजातोसि मृतोसि त्वं न ते कर्म शुभाशुभम् ॥ शुद्धोहं निर्गुणं नित्यं बंधमुक्तिः कथं मम ॥७५॥
यदि सर्वगतो देवः स्थिरः पूर्णो निरंतरम् ॥ अंतरं अंतरं नैव पश्यामि सबाह्याभ्यंतरं कथम् ॥७६॥
स्फुरत्वेवं जगत्सर्वमखंडितनिरंतरम् ॥ अंतरं नैव पश्यामि सबाह्याभ्यंतरं कथम् ॥७७॥
अहो मायामये देहे द्वैताद्वैतविकल्पना ॥ निराकारोपि साकारो नेति नेतीति सर्वथा ॥७८॥
भेदाभेदविनिर्मुक्तं वर्तते केवलं शिवम् ॥ न ते च माता भगिनी पिता च न ते च पत्नी न सुहृन्नपुत्रः ॥७९॥
न च पक्षपाती किं तप्यसे तत्परकामकामी ॥ दिवानक्तं न ते चित्ते उदयास्तमयं न ते ॥८०॥
चिद्देहमशरीरत्वात्कल्पयंति कथं बुधाः ॥ नहि भुक्तं विभक्तं च न हि दुःखसुखानि च ॥८१॥
न हि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ॥ नाहं कर्ता च भोक्ता च न मे कर्म पुराऽधुना ॥ न मे देहो विदेहो वा निर्ममेति ममेति किम् ॥८२॥
न मे रागादिको दोषो दुःखं चैवादिकं नहि ॥ आत्मनं विद्धि मामेवं विशालं गगनोपमम् ॥८३॥
सखे मनः किं बहुजल्पितेन सखे पुनः सर्वमिदं वितथ्यम् ॥ संसारभूतं मम नैव सर्वं भवेत्स्वरूपं गगनोपमं च ॥८४॥
येनकेन च भावेन यत्र यत्र मृतः पुनः ॥ योनिनस्तत्र लीयंते घटाकाशमिवांबरे ॥८५॥
तीर्थेवापि त्यजेद्देहं नष्टस्मृतिः परित्यजेत् ॥ ज्ञाने समयकल्पे च कैवल्यविहितासुता ॥८६॥
तस्य ज्ञानं न चैवास्ति यस्य स्वर्गादिकल्प्यते ॥ यत्पदं प्रापितं देवैः स योगी नात्र संशयः ॥८७॥
धर्मार्थकाममोक्षादिविपदादिचराचरम् ॥ मन्यंते योगिनः सर्वे मरीचिजलसन्निभम् ॥८८॥
अतीतानागतं कर्म वर्तमानं तथैव च ॥ नकरोमि नभुंजामि इति मे निश्चला मतिः ॥८९॥
कदापि चित्तदोषेण कल्पितं स्वर्गमंडलम् ॥ तेन स्वर्गपदं भोक्ता आत्मज्ञानपारायणम् ॥९०॥
गोरक्षक उवाच -
शून्यागारे समरसयुक्तो नित्यं तिष्ठति सुखमवधूतः ॥ विचरति नग्नस्त्यत्त्क्त्वा गर्वं विंदति केवलमात्मनि सर्वम ॥९१॥
तृतीयं तुर्यं नहि नहि यत्र विंदति केवलमात्मनि तत्र ॥ धर्माधर्मौ नहि नहि यत्र बंधविमुक्तौ कथमिह तत्र ॥९२॥
विंदति विंदति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र ॥ समरसमज्ञो भावितपूतः प्रभवति तत्त्वं परमवधूतः ॥९३॥
सर्वशून्यमशून्यं च सत्यासत्यं नविद्यते ॥ स्वभावभावितं ब्रूयाच्छात्रेष्वेवेतिपूर्वकम् ॥९४॥
ॐ तत्सदिति दत्तात्रेयगीतासूपनिषत्सारमतितार्थेषु निरंजनविद्यायां निर्वाणयोगे श्रीदत्त - गोरक्षकसंवादे सावित्र्युपदेशे द्वैताद्वैतनिरूपणं नाम प्रथमोध्यायः ॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP