संस्कृत सूची|संस्कृत साहित्य|गीता|दत्तगीता| तृतीयोध्यायः दत्तगीता प्रथमोध्यायः द्वितीयोध्यायः तृतीयोध्यायः चतुर्थोध्यायः पंचमोध्यायः षष्ठोध्यायः सप्तमोध्यायः दत्तगीता - तृतीयोध्यायः गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace. Tags : dattagitagodgurudattastotraगीतागुरूदत्तदत्तदेवतादेवीस्तोत्र तृतीयोध्यायः Translation - भाषांतर श्रीगणेशाय नमः ॥श्रीदत्त उवाच - आवाहनं नैव विसर्जनं च पुष्पाणि पत्राणि कथं भवंति ॥ ज्ञानानि दानानि कथं भवंति समासमं चैवशिवार्चनं च ॥१॥ नकेवलं बंध - विबंध - मुक्तो नकेवलं शुद्ध - विशुत्ध - मुक्तः ॥ नकेवलं योग - वियोग मुक्तो सर्पेर्विमुक्तो गगनोपमोहम् ॥२॥संजायते सर्वमिदं वितथ्यं नजायते सर्वमिदं वितथ्यम् ॥ एवं विकल्पो मम नैंव जातः संवित्धि निर्वाणमनोमयोहम् ॥३॥नचाननं वापि निरंजनं वा नचांतरं वापि निरंजनं वा ॥ अंतर्बहिर्भिन्नमिदं वितथ्यं स्वरूपनिर्वाणमयोमयोहम् ॥४॥अबोधरूपं मम नैव जातं बोधस्वरूपं मम नैव जातम् ॥ अबोधबोधं च कथं वदामि स्वरूपनिर्वाणमनोमयोहम् ॥५॥नधर्मयुक्तो नच पापयुक्तो बंधमुक्तो न च मोक्षयुक्तः ॥ युक्त्वं त्वयुक्तं न च मे विभाति स्वरूपनिर्वाण० ॥६॥परस्परं वा न च मे कदाचित् मध्यस्थभावो हि न चारिमित्रः ॥ हिताहितं चापि कथं वदामि स्वरूपनिर्वाण० ॥७॥नौपासको नैवमुपास्यरूपं नचौपदेशो न च मे क्रिया च ॥ सिद्धिप्रसिद्धिं च कथं वदामि स्वरूपनिर्वाण० ॥८॥नव्यापकं व्यापमिहास्ति किंचिन्नवालऽयं वापि निरालयं वा ॥ अशून्यशून्यं च कथं वदामि स्वरूप० ॥९॥नग्राह्यकं ग्रहाकमेव किंचिन्नकारणं वा मम नैव कार्यम् ॥ अचिंत्यंचिंत्यं च कथं वदामि स्वरूपनिर्वाण० ॥१०॥नकेवलं वा मम नैव भेद्यं न केवलं वा मम नैव भेदः ॥ अनागतं मित्रं कथं वदामि स्वरूप० ॥११॥नचास्ति देहो न च भे विदेहो नबुद्धिंर्मनो मे न हि चेंद्रियाणि ॥ रागो विंरागश्च कथं वदामि स्वरूप० ॥१२॥उल्लेखमात्रं न हि नम्रमुच्चेरुल्लेखमात्रं न तिरोहिंत च ॥ समासमं मित्रं कथं वदामि स्वरूप० ॥१३॥जितेंद्रियोहं त्वजितेंद्रियो वा नसंयमो मे नियमो हि जातः ॥ जयोऽजयो वाऽपि कथं वदामि स्वरूप० ॥१४॥अमूर्तिमूर्तिन च मे कदाचिदाद्यंतमध्यो न च मे कदाचित् ॥ चलाचलं चित्तं कथं वदामि स्वरूप० ॥१५॥मृतामृतं चापि न मे विषं च संजायते तात नमे कदाचित् ॥ अशुद्धं शुद्धं च कथं वदामि स्वरूप० ॥१६॥स्वप्न - प्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे कदाचित् ॥ अतूर्य - तूर्यं च कथं वदामि स्वरूप० ॥१७॥संविद्धि मां सर्वविसर्गमुक्तं ध्यानादिकं कर्म कथं करोमि ॥ मायाविमाया च कथं वदामि स्वरूप० ॥१८॥संविद्धी मां ध्यान समाधियुक्तं संविद्धि मां लक्षसलक्षयुक्तम् ॥ योगं - वियोगं च कथं वदामि स्वरूप० ॥१९॥मूर्खोपि नाहं न च पंडितोहं समर्पे न वार्ता न च मे कदाचित् ॥ स्नेहं विमोहं च कथं वदामि स्वरूप० ॥२०॥पिता न माता न कुलं न जातिः संसारभूतिर्न च मे कदाचित् ॥ स्नेहं विमोहं च कथं वदामि स्वरूप० ॥२१॥अस्तोदये नैव सदोदितोहं दिवा च नक्तं न च मे कथंचित् ॥ तेजो - वितेजश्च कथं वदामि स्वरूप० ॥२२॥असंशयं विद्धि निरंतरं मां असंशयं विद्धि निरंजनं माम् ॥ असंशय विद्धि निराकुलं मां स्वरूप० ॥२३॥ धर्माणि सर्वाणि परित्यजंति शुभाशुभं कर्म परित्यजंति ॥ ज्ञानामृतं चारु पिबंति धीराः स्वरूप० ॥२४॥गोरक्ष उवाच - विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥ समरंसमज्ञो भावितपूतः प्रभवति तत्वं परमवधूतः ॥२५॥इति श्रीदत्तात्रेयगीतासृपनिषत्सारमथितार्थेषु निरंजनविद्यायां श्रीदत्त - गोरक्ष संवादे निर्वाणयोगो नाम तृतीयोध्यायः ॥३॥ N/A References : N/A Last Updated : March 16, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP