दत्तगीता - द्वितीयोध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


श्रीगणेशाय नमः ॥
सगुणव्गुणविभागं वर्तते नैव किंचित्समरसमविभागं सर्वथा नव किंचित् ॥ इति विरतिविहीतं निर्मलं निष्प्रपंचं कथमिह खलु वंदे व्योमरूपं शिवं वै ॥१॥
श्वेतादिवर्णरहितास्तव यं शिवश्च कार्यं च कारणमिदं हि वयं शिवश्च ॥ एवं विकल्परहितास्तव यं च ह्यात्मा आत्मनमात्मनि च मिर कथं वदामि ॥२॥
निर्मूल मूलरहितो हि सदोदितोहं निर्धूमधूमरहितो हि सदोदितोऽहिं ॥ संदीप्त्यदीप्तिरहितो हि सदोदितो‍ऽहं ज्ञानामृतं समरसं गगनोपमोऽ‍हम् ॥३॥
निष्कारकाममिह नाम कथं वदामि निःसंगसंग मिह नाम कथ वदामि ॥ अव्यक्तव्यक्तमिह नाम कथं वदामि ज्ञानामृतं समरसं गगनोपमोहम् ॥४॥
अद्वैतरूपमखिलं हि कथं वदामि द्वैतस्वरूपमखिलं हि कथं वदामि ॥ अनित्यनित्यमखिलं हि कथं वदामी ज्ञानामृतं समरसं गगनोपमोहम् ॥५॥
स्थूलं हि नो न च कृशं नगतागतं हि चाद्यं च मध्यरहितो नपरापरं हि ॥ सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञानामृतं० ॥६॥
संवित्धि सर्वकरणानि नभो नभांसि संवित्धि सर्वविषयश्च नभोनभश्च ॥ संवित्धि चैकमलं नहि बत्धमुक्तिः ज्ञानमृतं० ॥७॥
दुर्बोधबोधगहनो नभवामि तात दुर्लक्ष्यलक्ष्यगहनो नभवामि तात ॥ आसन्नदुर्गगहनो नभवामि तात ज्ञानामृतं० ॥८॥
निष्कर्मकर्मगहनोज्वलनो भवामि निदुःखदुःखदहनोज्वलनो भवामि ॥ निर्देहदेहदहनोज्वलनो भवामि ज्ञानामृतं० ॥९॥
निष्पापपापदहने हि हुताशनोहं निधर्मधर्मदहने हि हुताशनोहम् ॥ निर्बंधबंधदहने हि हुताशनोहम् ज्ञानामृतं० ॥१०॥
निःशून्यशून्यगगने हि हुताशनोहं आत्मस्वरूपगगने हि हुताशनोहम् ॥ एवं हुताशनगुणस्य हुताशनोहम् ज्ञानामृतं० ॥११॥
निर्भावभावरहितो नभवामि वत्स निश्चत्तचित्तरहितो नभवामि वत्स ॥ निर्योगयोगरहितो नभवामि वत्स ज्ञानामृतं०॥१२॥
निर्मोहमोहपदवीति न मे विकल्पो निःशोकशोकपदवीति न मे विकल्पः ॥ निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृतं०॥१३॥
संसारसंतति लता न च मे कदाचित्तापस्य शांतिमसुखं न च मे कदाचित् ॥ अज्ञानबंधनमिदं नच मे कदाचित्ज्ञांनामृतं स० ॥१४॥
संसारसंसृतिरजो न च मे विकारः संसार संततितमो न च मे विकारः ॥ सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं स० ॥१५॥
संसारदुःखजनकं न च मे कदाचित्संतापमोहजनीता नच मे कदाचित् ॥ यस्माद - हंकृतिपरं नच मे कदाचित्ज्ञानामृतं स०॥१६॥
नीष्कंप कंपनिधनं सविकल्पकल्पं स्वप्नप्रबोधनिधन नदिवं न नक्तम् ॥ निःसारसारनिधनं नचराचरं हि ज्ञानामृतं स० ॥१७॥
नो वेद्यवेदकमिदं नच हेतुकर्ता वाचामगोचरमिदं न मनो न बुद्धिः ॥ एवं कथं हि भवतां कथयामि तत्त्वम् ज्ञानामृतं स० ॥१८॥
निर्भिन्नभिन्नरहितं परमैकतत्त्वं अंतादिमध्यरहितं परमैकतत्त्वम् ॥ एवं कथं हि उचितं परमार्थतत्त्वं ज्ञानामृतं स० ॥१९॥
यद्वा समग्रसहजं स्वयमेव सर्वमंतर्बहिः किल कथं परमार्थतत्त्वम् ॥ यस्मादहो परतरं न हि वस्तु किंचित्ज्ञानामृतं० ॥२०॥
रागादिदोषरहितं त्वहमेव तत्त्वं संसारशोकरहितं त्वहमेव तत्त्वम् ॥ देहादिदुःखरहितं त्वहमेव तत्वं ज्ञानामृतं स० ॥२१॥
स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयादि न च नेति कथं दिशश्च ॥ शांतं परं यदि घ्रुवं परमार्थ तत्त्वं ज्ञानामृतं स० ॥२२॥
दीर्घो लघुः पुनरतीह मनोविभागः कोणं च वर्तुळमितीह मनोविभागम् ॥ विस्तारसंघटमितीह मनोविभागो ज्ञानामृतं स० ॥२३॥
माता पिता च तनयादि न मे कदाचिद्गर्भं च मृत्यु - मनसो न च भे कदाचित् ॥ निर्व्यांकुलस्थिरपरं परमार्थ तत्त्वं ज्ञानामृतं स०॥२४॥
निःशुद्धसर्वमविचारमनंतरूपं निर्लेपलेपनविचारमतर्करूपम् ॥ निर्नादनादम - विचारमगाधरूपं ज्ञानामृतं स०॥२५॥
उच्चारमात्रमपि ते नहि नाममात्रं निर्भिन्नभिन्नमभि ते नहि रूपमात्रम् ॥ निर्लज्ज मानस करोषि कथं विलाप ज्ञानामृतं स० ॥२६॥
ब्रह्मादयः सुरगणाः कथमत्र संति स्वर्गादयो वसतयः कथमत्र संति ॥ यद्येकरूपममलं परमार्थ तत्वं ज्ञानामृतं स० ॥२७॥
निष्कर्मकर्मसततं तु कथं करोमि निःसंगसंगरहित परमं विनोदम् ॥ निःसत्यसत्यरहितं सततं बलोहं ज्ञानामृत समरसं गगनोपमोहम ॥२८॥
मायाप्रपंचरचना न च मे विकाराः कौटिल्य - दंभवचना न च मे विकारः ॥ सत्याद्यसत्यरचना न च मे विकारो ज्ञानामृतं स० ॥२९॥
वीतर्कतर्कमिह तात न मे वीभाति वीतर्क तर्क्यमिह तात न मे विभाति ॥ शून्यस्य शून्यमिह तात न मे विभाति ज्ञानामृतं स० ॥३०॥
आलंबहीनमखिलं च निरामयं च विज्ञानरूपमखिलं दमनादिहीनम् ॥ संसिद्धिशांति - मचलं ननु पूर्ण पूर्णं ज्ञानामृतं स० ॥३१॥
सत्यं वदामि विरजावचनैंकजातं सत्यं वदामि सरजावचनैंकजातम् ॥ सत्यं कथं हि सततं च सितासितौ नो ज्ञानामृतं स० ॥३२॥
संध्यादिकाल रहितं नवियोगयोगं ज्ञानं प्रबोधरहितं नबधीर - मूकम् ॥ एवं विंकल्परहितं निजभावशुद्धं ज्ञानामृतं स० ॥३३॥
धर्मादिकं तव पदं हि कथं वदामि संवित्यसंशयपदं हि कथं वदामि ॥ एवं निरंजनसमं हि निरंतरं हि ज्ञानामृतं० ॥३४॥
निर्नांथनाथविगतं हि निराकुलं वै निश्चित्तचित्तविगतं हि निराकुलं वै ॥ निर्भावभावरहितं निराकुलं वै ज्ञानामृतं स० ॥३५॥
किं काननं ग्रहमिदं हि कथं वदंति संविद्धि संशयमम् हि कथं वदंति ॥ एवं निरंतरसमं हि निरंजनं वै ज्ञानामृतं स० ॥३६॥
निर्जीवजीवरहितं सततं विभाति सज्जीव - जीवरहितं सततं विभाति ॥ निर्बीजबीज बीजोरहितं सतंत विभाति ज्ञानामृतं स० ॥३७॥
संभूतिवर्जितमिदं सततं विभाति संसारवर्जितमिदं सततं विभाति ॥ संसारवर्जितमिदं सततं विभाति ज्ञानामृतं स० ॥३८॥
किन्नाम रोदसि सखे नशुभाशुभानिकिन्नाम रोदसि सखे न च जन्म - मृत्युः ॥ किन्नाम रोदसि सखे न च ते विशोको ज्ञानामृत स० ॥३९॥
किन्नाम रोदसि सखे न च ते नयांसि किन्नाम रोदसि सखे न च तेंद्रियाणि ॥ किन्नाम रोदसि सखे न च ते मनस्त्वं ज्ञानामृतं स० ॥४०॥
किन्नाम रोदसि सखे न च तेऽस्ति कामः किन्नाम रोअदसि सखे न च ते प्रकोपः ॥ किन्नाम रोदसि सखे न च तेऽस्ति मोहो ज्ञानामृतं स० ॥४१॥
ऐश्वर्यमिच्छसि कथं न च ते धनानि ऐश्वर्यमिच्छसि कथं न च ते प्रयत्नः ॥ ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं स० ॥४२॥
देहत्रयं न तु च मित्र न ते न मे च निर्भेदभेदमिह मित्र न ते न मे च ॥ निर्मज्य मानस विनश्य कथं विभिन्नः ज्ञानामृतं० ॥४३॥
नोचाणुमात्रमपि ते हि विरागरूपं नोचाणुमात्रमपि ते हि सरागरूपम् ॥ नोचाणुमात्रमपि ते हि विरागरूपं ज्ञानामृतं स० ॥४४॥
ध्याता न तेषु त्हृदये च न ते समाधिर्ध्येयं न तेषु त्हृदये च न ते इ देशः ॥ ध्यानं न तेषु त्हृदये च न ते तेऽस्ति लोको ज्ञानामृतं स० ॥४५॥
कांतारध्वांतवदिमं हि कथं वदंति संचिंत्य संशयमिदं हि कथं वदंति ॥ एकं निरंतरसमं हि निरंजनं हि ज्ञानामृतं स० ॥४६॥
यत्सारभूतममलं कथितं मया ते तत्त्वं हि नाहमिह भावगुरुर्नशिष्यः ॥ स्वच्छः स्वरूपममलं परमार्थतत्त्वं ज्ञानामृतं स० ॥४७॥
कथमिह परमार्थतत्त्वमानंदरूपं कथमिह परमाथतत्त्वमक्षस्वरूपम् ॥ कथमिह परमार्थतत्त्वविज्ञानरूपं ज्ञानामृतं स० ॥४८॥
दहनपवनहीनं विद्धि विज्ञानमेकं धरणिजलविहीनम् ज्ञानविज्ञानमेकम् ॥ सकलगगनहीनं विद्धि विज्ञानमेकं ज्ञानामृतं स० ॥४९॥
निश्चिंतरूपं नविशून्यरूपं नशुद्धरूपं नविशुद्धरूपम् ॥ रूपं विरूपं नभवामि किं चित्स्वच्छैकरूपं परमार्थतत्त्वम् ॥५०॥
मुंच मुंचनिसन्नानि त्यागं मुंच शिवं वद ॥ त्यागात्यागविषं मुंच अमृतत्त्वं विषायते ॥५१॥
दृश्यादृश्यपरं दृश्यमृतामृतपरं श्रृणु ॥ शब्दाशब्दापरं वेद वेदावेदपरं सदा ॥५२॥
विंदति विंदति नहि नहि यत्र छंदोलक्षणं नहि नहि तत्र ॥ समरसमज्ञो भावितपुंसः प्रभवति तत्त्वं परमवधूतः ॥५३॥
ॐ तत्सदिति श्रीमद्दत्तात्रेयगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां दत्तगोरक्षक संवादे द्वैताद्वैतनिरूपणंनाम द्वितीयोध्यायः ॥२॥

N/A

References : N/A
Last Updated : March 16, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP