निरालम्बनवादः - श्लोक १५१ ते १७५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


तथैव प्रतिपाद्यो sपि तादृक्साध्यबुभुत्सया ।
मन्वानः साधनं दुष्टं ततः साध्यं न बुध्यते ॥१५१॥
संवित्त्या ( १ ) साधनं मत्वा तत्सद्भावे दृढे स्थिते ।
साध्यस्याsसंभवादेव त्वदुक्तं नाsवबुध्यते ॥१५२॥
तेनाssशेयं न कर्तव्या मोहादपि मयेरिते ।
साधने साधनं ज्ञात्वा पर एवाsवभोत्स्यते ॥१५३॥
विस्पष्टश्चाsक्षपादोक्तो विरोधो हेतुसाध्ययोः ।
यमदृष्ट्वा परैरुक्तमदूषणमिदं किल ॥१५४॥
ननु लोकप्रसिद्धेन पूर्वमेतेन हेतुना ।
साध्यसिद्धिर्ममाप्यासीत्परमार्थोsस्य नास्तिता ॥१५५॥
‘ यो sधुना परमार्थेन नास्तीत्येवं प्रकाशते ( १ ) ।
कथं पूर्वमसावासीदसंश्चेत्साधनं कथम् ॥१५६॥
साधनं चेदवश्यं च परमार्थाsस्तिता भवेत् ’ ।
सिद्धिर्नाsपरमार्थेन परमार्थस्य युज्यते ॥१५७॥
न दृष्टा शशश्रृङ्गादेः सम्यगूज्ञानादिहेतुता ।
बाष्पादिना sप्यधूमेन मिथ्या वन्ह्यादिबोधनम् ॥१५८॥
तस्मादसत्यहेतोर्याsपरमार्थे मतिस्तव ।
सा sप्यसत्या, न सत्यं हि सत्याssभासेन गम्यते ॥१५९॥
ये sपि रेखादयो दृष्टा वर्णानां प्रतिपादकाः ।
न ते स्वेनाsपि रूपेण परमार्थत्ववर्जिताः ॥१६०॥
वर्णात्मना न सत्याश्चेत; सर्वभावेष्वयं विधिः ।
पदार्थान्तररूपेण न सत्यं किञ्चिदिष्यते ॥१६१॥
स्वरूपे विद्यमाने तु यदप्येवं प्रकाशते ।
स्वरूपाsभावक्लृप्तौ तु न सत्यं नाप्यसत्यता ॥१६२॥
हेत्वादीनां तु भवतः स्वरूपेणाप्यसत्यता ।
तेन बाष्पादिवत्तेषामुपायत्वं न लेख्यवत् ॥१६३॥
उपायानां स्वरूपं हि संवृत्यात्मकमेव नः ।
तथा च सत्यतेष्टैव स्वरूपासत्यता कथम् ॥१६४॥
संवृत्या यत स्वरूपं हि तद्वाङ्मात्रनिबन्धनम् ।
हेतुत्वं परमार्थस्य प्रतिपत्तुं न शक्नुयात् ॥१६५॥
परमार्थाच्च लोकस्य न भेदे हेतुरस्ति ते ।
लौकिकोपायगम्यस्य केन स्यात् परमार्थता ॥१६६॥
नन्वसत्यपि बाह्ये sर्थे बुह्यारूढेन सिध्यति ।
वासनाशब्दभेदोत्थविकल्पप्रविभागतः ॥१६७॥
न्यायविद्भिरिदं चोक्तं धर्मादौ बुद्धिमाश्रिते ।
व्यवहारो sनुमानादेः कल्प्यते न बहिःस्थिते ॥१६८॥
अस्तीदं वचनं तेषामिदं तत्र परीक्ष्यताम् ।
भेदो sसतः कथं हि स्याद्बुद्धिशब्दप्रकल्पनात् ॥१६९॥
निर्वस्तुते कथञ्च स्याद्विभागो ( १ ) बुद्धिशब्दयोः ।
शब्दभेदो sपि भवतस्तदभावान्न सिध्यति ( २ ) ॥१७०॥
‘ यदि वाsविद्यमानो sपि भेदो बुद्धिप्रकल्पितः ।
साध्यसाधनधर्मादेर्व्यवहाराय कल्पते ॥१७१॥
ततो भवत्प्रयुक्तेsस्मिन् साधने यावदुच्यते ।
सर्वत्रोत्पद्यते बुद्धिरिति दूषणता भवेत् ’ ( ३ ) ॥१७२॥
यश्च मन्त्रस्त्वयोक्तो sयं धर्म्यादौ बुद्धिमाश्रिते ।
न बाह्यापेक्षता ( ४ ) स स्यादसिद्ध्यादौ मयेरिते ॥१७३॥
बुद्धिप्रक्लृप्तिसिद्धिश्च भवतां व्यवहारिणाम् ।
मदुक्तं दूषणं सिद्धं, त्वदुक्तं नु न साधनम् ॥१७४॥
बाह्यार्थव्यवहारित्वाज्ज्ञानोत्पादे स्थितेsपि नः ।
कथञ्चिन्न हि कल्प्येत व्यवहारोsर्थवर्जितः ॥१७५॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP