संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्लोकवार्तिकभिधः|निरालम्बनवादः| श्लोक १ ते २७ निरालम्बनवादः श्लोक १ ते २७ श्लोक २८ ते ५० श्लोक ५१ ते ७५ श्लोक ७६ ते १०० श्लोक १०१ ते १२५ श्लोक १२६ ते १५० श्लोक १५१ ते १७५ श्लोक १७६ ते २०१ निरालम्बनवादः - श्लोक १ ते २७ कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी. Tags : sanskritshlokvartikmidhaश्लोकवार्तिकभिधःसंस्कृत र्वपक्षभाष्यव्याख्या Translation - भाषांतर ‘ प्रमाणत्वाsप्रमाणत्वे पुण्यपापादि तत्फलम् ।विध्यर्थवादमन्त्राsर्थनामधेयादिकल्पना ॥१॥सर्वेषु लक्षणेष्वेवं स्वप्रमाणगणैः स्थितिः ।वचनव्यक्तिभेदेन पूर्वसिद्धान्तपक्षता ॥२॥कर्मभ्यः ( १ ) फलसम्बन्धः पारलौक्यैहलौकिके ( २ )सर्वमित्याद्ययुक्तं स्यादर्थशून्यासु बुद्धिषु ॥३॥तस्माद्धर्मार्थिभिः पूर्वं प्रमाणैर्लोकसंमतैः ।अर्थस्य सदसद्भावे यत्नः कार्यः क्रियां प्रति ’ ॥४॥यदा संवृतिसत्येन सर्वमेतत् प्रकल्प्यते ।ज्ञानमात्रेsपि कस्माद्वो वृथाssग्रहो( १ )sर्थकल्पने ॥५॥संवृतेर्न तु सत्यत्वं सत्यभेदः कुतो न्वयम् ।सत्यं चेत् संवृतिः केयं मृषा चेत् सत्यता कथम् ॥६॥सत्यत्वं न च सामान्यं मृषार्थपरमार्थयोः ।विरोधान्न हि वृक्षत्वं सामान्यं वृक्षसिंहयोः ॥७॥तुल्यार्थत्वेsपि तेनैषां मिथ्यासंवृतिशब्दयोः ।पञ्चनार्थ उपन्यासो लालवक्राssसवादिवत् ॥८॥नास्तिक्यपरिहारार्थं ( २ ) संवृतिः, कल्पनेति च ।कल्पनाsपि त्वभिन्यस्य नैव निर्वस्तुके भवेत् ॥९॥तस्माद्यनास्ति नास्त्येव यत्त्वस्ति परमार्थतः ।तत्सत्यमन्यन्मिथ्येति ( १ ) न सत्यद्वयकल्पना ॥१०॥स्वप्नादिभोगवच्चापि योगभोगत्वकल्पना ।तन्निवृत्त्यर्थमेवेह परमार्थे प्रपत्यते ॥११॥न हि स्वप्नसुखाद्यर्थं धर्मे कश्चित्प्रवर्तते ।यादृच्छिकत्वात्स्वप्नस्य तूष्णीमास्येत पण्डितैः ॥१२॥परमार्थफलाsवाप्तिमिच्छद्भिस्तेन यत्नतः ।प्रतिपत्तिर्विधातव्या युक्तिभिर्बाह्यवस्तुषु ॥१३॥‘ तत्राsर्थशून्यं विज्ञानं योगाचाराः समाश्रिताः ।तस्याप्यभावमिच्छन्ति ये माध्यमिकवादिनः ॥१४॥तत्र बाह्यार्थशून्यत्वं तुल्यं तावदू द्वयोरपि ।निवृत्त्याsस्य( २ )ततो ज्ञाने तद्वत्संवृतिकल्पना ॥१५॥तस्मात्साधारणत्वेन तन्मूलत्वेन चाप्ययम् ।‘ बाह्यार्थसदसद्भावे यत्नो भाष्यकृता कृतः ’ ॥१६॥‘ बाह्यार्थाsपह्नवो द्वैध ( १ ) मेकोsर्थस्य परीक्षणात् ।प्रमाणमाश्रितश्चैकस्तत्रास्तां यः प्रमेयतः ॥१७॥प्रमाणस्थस्तु मूलत्वादिहेदानीं परीक्ष्यते ’ ।प्रस्तुतः स द्विधा चात्र प्रथमं त्वनुमानतः ॥१८॥प्रत्यक्षबा( २ )धे तेनोक्ते पश्चात्तच्छक्त्यवेक्षणात ।‘ तत्राsनुमानमाहेदं नन्वि’त्य‘स्य च संगतिः ॥१९॥तत्संप्रयोगजं नाम ( ३ ) प्रत्यक्षमिति भाषितम् ।तत्रेन्द्रियार्थसंबन्ध भेदो नपरमार्थतः ॥२०॥कल्पितः संप्रयोगस्तु स्वप्नादावपि विद्यते ।तदतद्योगजन्यस्य ( ४ ) विभागस्तेन दुर्लभः ॥२१॥मिथ्यात्वं यदू द्विधैवोक्तं नान्यथेत्यत्र चोच्यते ।सर्वस्यैव च मिथ्यात्वे किं विशिष्याsभिधीयते ( ५ ) ’ ॥२२॥स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात्तथा हि यः ।प्रत्ययः स मृषा दृष्टः स्वप्नादिप्रत्ययो यथा ॥२३॥‘ सिद्धसाधनभवोंsशे दृष्टान्ताभाव एव च ।मा भूतामेवशब्दश्च व्यर्थोsशेषप्रसाधने ॥२४॥सर्व एवेति तेनात्र जाग्रद्बुद्धिपरिग्रहः ’ ।स्वांशाभ्युपगमाच्चापि बाह्यग्राह्यनिवारणम् ॥२५॥प्रत्ययस्येति साध्यांशव्याप्तहेतुनिदर्शनम् ।हेतुश्चोपनयेनात्र जाग्रतोsपि दर्शितः ॥२६॥विपक्षाभावतश्चात्र व्यतिरेको न कथ्यते ।सामान्यस्य च हेतुत्वात्कस्मात्पचैकदेशता ॥२७॥इति पूर्वपक्षभाष्यव्याख्या । N/A References : N/A Last Updated : November 12, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP