पंचमम् ब्राम्हणम् - भाष्यं १७

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  स पिता यदा यस्मिन्काल एवंवित्पुत्रसमर्पितकर्तव्यताक्र्तुरस्माल्लोकात्प्रौति म्रियतेऽथ तदैभिरेव प्रकृतैर्वाडमन; प्राणै: पुत्रमाविशति पुत्रं व्याप्रोति । अध्यात्मपरिच्छेदहेत्वपगमात्पितुर्वाडमन:प्राणा: स्वेनाऽऽधिदैविकेन रूपेण पृथिव्यग्न्याद्यात्मना भिन्नघटाप्रदीपरकाशवत्सर्वमाविशन्ति । तै: प्राणै: स पिताऽप्याविशति वाङमन: पाणात्मभावित्वात्पितु: । अहमस्म्यनन्ता वाङमन:प्राणा अध्यात्माइभेदविस्तारा इत्येवं भावितो हि पिता । तस्मात्तत्प्राणानुवृत्तित्वं पितुर्भवतीति युक्तमुक्तमेभिरेव प्राणै: सह पुत्रमाविशतीति ॥

भाष्यं :--- सर्वेषां हयसावात्मा भवति पुत्रस्य च । एतदुक्तं भवति यस्य पितुरेवमनुशिष्ट: पुत्रो भवति सोऽस्मिन्नेव लोके वर्तते पुत्ररूपेण नैव मृतो मन्तव्य इत्यर्थ: । तथा च श्रुत्यन्तरे “सोऽस्यायमितर आत्मा पुण्येभ्य: कर्मभ्य: प्रतिधीयते” इति ॥

भाष्यं :--- अथेदानीं पुत्रनिर्वचनमाह । स पुत्रो यदि कदाचिदनेण पित्राऽक्ष्णया कोणच्छिद्रतोऽन्तराऽकृतं भव्ति कर्तव्यम् । तस्मात्कर्तव्यतारूपापात्पित्राऽकृतात्सर्वस्माल्लोकप्राप्तिप्रतिबन्धरूपात्पुत्नो मुञ्चति मोचयति तत्सर्वं स्वयमनुतिष्ठन्पूरयित्वा । तस्मात्पूरणेन त्रायते स पितरं यस्मात्तस्मात्पुत्रो नाम । इदं तत्पुत्रस्य पुत्रत्वं यत्पितुच्छिद्र पूरयित्वा त्रायते ॥

भाष्यं :--- स पितैवंविधेन पुत्रेण मृतोऽपि सन्नमृतोऽस्मिन्नेव लोके प्रतितिष्ठत्येवमसौ पिता पुत्रेणेमं मनुष्यलोकं जयति । न तथा विद्याकर्मभ्याम देवलोकपितृलोकौ स्वरुपलाभसत्तामात्रेण । न हि विद्याकर्मणी स्वरूपलाभव्यतिरेकेण पुत्नवव्द्यापारान्तरापेक्षया लोकजयहेतुत्वं प्रतिपद्येते । अथ कृतसंप्रत्तिकं पितरमेनमेते वागादय: प्राणा दैवा हैरण्यगर्भा अमृता अमरणधर्माण आविशन्ति ॥१७॥

श्रुति :--- पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥१८॥

अर्थ :--- पृथिवी व अग्नि यांपासून अधिदैवात्मिका वाक या संप्रदान केलेल्या पित्यामध्यें प्रवेश करिते. तीच दैवी वाक कीं जिच्यायोगानें पुरुष जें जें बोलतो तें तें होतें. ॥१८॥

भाष्यं :--- कथमिति वक्ष्यति पृथिव्यै चैनमित्यादि । एवं पुत्रकर्मापरविद्यानां मनुष्यकोकपितृलोकदेवलोकसाध्यार्थता प्रदर्शिता शृत्या स्वयमेव । अत्र केचिद्वावदूका; श्रुत्युक्तविसेषार्थानभिज्ञा; सन्त: पुत्रादिसाधनानं मोक्षार्थतां वदन्ति ।त तेषां मुखापिधानं श्रुत्येदं कृतं “जाया मे स्यात” इत्यादि पाडक्तं काम्यं कर्मेत्य्पक्रमेण पुत्रादीनां च साध्यविशेषविनियोगोपसंहारेण च । तस्माद्दणश्रुतिरविद्वद्विशया न परमात्मविद्विषयेति सिद्धम । वक्ष्यति च “किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक:” इति ॥

भाष्यं :--- केचित्तु पितृलोकदेवलोकजयोऽपि पितृलोकदेवलोकाभ्यां व्यावृत्तिरेव । तस्मात्पुत्रकर्मापरविद्याभि: समुच्चित्यानुष्ठिताभिस्त्रिभ्य एतेभ्यो व्यावृत्त: परमत्मविज्ञानेन मोक्षमधिगच्छतीइत परंपरया मोक्षार्थान्येव पुत्रादिसाधनानीच्छन्ति । तेषामपि मुखापिधानायेयमेव श्रुतिरुत्तरा कृतसंप्रत्तिकस्य पुत्रिण: कर्मिणस्त्र्यन्नात्मविद्याविद: फलप्रदर्शनाय प्रवृत्ता ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP