संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहदारण्यकोपनिषद्भाष्यार्थ|प्रथमाध्यायः| पञ्चमं ब्राम्हणम्| भाष्यं १४ पञ्चमं ब्राम्हणम् भाष्यं १ भाष्यं २ भाष्यं ३ भाष्यं ४ भाष्यं ५ भाष्यं ६ भाष्यं ७ भाष्यं ८ भाष्यं ९ भाष्यं १० भाष्यं ११ भाष्यं १२ भाष्यं १३ भाष्यं १४ भाष्यं १५ भाष्यं १६ भाष्यं १७ भाष्यं १८ भाष्यं १९ भाष्यं २० भाष्यं २१ पंचमम् ब्राम्हणम् - भाष्यं १४ सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते. Tags : बृहदारण्यविष्णुशास्त्री वामन बापटसंस्कृत भाष्यं १४ Translation - भाषांतर भाष्यं :--- एवं साध्यलोकत्रययफलभेदेन विनियुक्तानि पुत्रकर्मविद्याख्यानि त्रीणि साधननानि । जाया तु पुत्रकर्मार्थत्वान्न पृथक्साधनमिति पृथडनाभिहिता । वित्तं च कर्मसाधनत्वान्न पृथक्साधनम । विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्मप्रतिलाभेनैव भवतीति प्रसिद्धम । पुत्रस्य त्वक्रियात्मकत्वात्केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायतेऽतस्तद्वक्तव्यमित्यथानन्तरमारभ्यते ॥भाष्यं :--- संप्रत्ति: संप्रदानम । संप्रत्तिरिति वक्ष्यमाणस्य कर्मणो नामधेयम । पुत्रे हि स्वात्मव्यापारसंप्रदानं करोत्यनेन प्रकारेण पिता तेन संप्रत्तिसंज्ञकमिदं कर्म । तत्कस्मिन्काले कर्तव्यमित्याह । स पिता यदा यस्मिन्काले प्रैष्यन्मरिष्यन्मरिष्यामीत्यरिष्टादिदर्शनेन मन्यतेऽथ त्दा पुत्रमाहूयाऽऽह त्वं व्रम्हा त्वं यज्ञस्त्वं लोक इति । स एवमुक्त: पुत्र: प्रत्याह स तु पूर्वमेवानुशिष्टो जानाति मयैतत्कर्तव्यमिति तेनाऽऽहाहं ब्रम्हाहं यज्ञोऽहं लोक इति एतद्वाक्यत्रयम ॥भाष्यं :--- एतस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्याख्यानाय प्रवर्तते । यद्वै किंच यत्किंचावशिष्टमनूक्तमधीतमनधीतं च तस्य सर्वस्यैव ब्रम्होतस्मिन्पद एकतैकत्वं योऽध्ययनव्यापारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषय: स इत ऊर्ध्वं त्वं ब्रम्हा त्वत्कर्तृकोऽस्त्वित्यर्थ: ॥भाष्यं :--- तथा ये वै के च यज्ञा अनुष्ठेया: सन्तो मयाऽनुष्ठिताश्चाननुष्ठिताश्च तेषां सर्वेषां यज्ञ इत्येतस्मिन्पद एकतैकत्वं मत्कर्तृका यज्ञा य आसंस्त इत ऊर्ध्वं त्वं यज्ञस्त्वत्कर्तृका भवन्त्वित्यर्थ: । ये वै के च लोका मया जेतव्या: सन्तो जिता अजिताश्च तेषां सर्वेषां लोक इत्येतस्मिन्पद एकता । इत ऊर्ध्वं त्वं लोकास्त्वया जेतव्यास्ते ॥भाष्यं :--- इत ऊर्ध्वं मयाऽध्ययनयज्ञलोकजयकर्तव्यक्रतुस्त्वयि समर्पितोऽहं तु मुक्तोऽस्मि कर्तव्यताबन्धनविषयात्क्रतो: । सच सर्वं तथैव प्रतिपन्नवान्पुत्रोऽनुशिष्टत्वात ॥भाष्यं :--- तत्रेमं पितुरभिप्रायं मन्वानाऽऽचष्टे श्रुतिरेताबदेतत्परिमाणं वा इदं सर्वं यदगृहिणा कर्तव्यं यदुत वेदा अध्येतव्या यज्ञा यष्टव्या लोकाश्छ जेतव्या एतन्मा सर्वं सन्नयं सर्वं हीमं भारं मदधीनं मत्तोऽपच्छिद्याऽऽत्मनि निधयेतोऽस्माल्लोकान्मा मामभुनजत्पालयिष्यतीति लृडर्थे लड छन्दसि कालनियमाभावात ॥भाष्यं :--- यस्मादेवं संपन्न: पुत्र: पितरमस्माल्लोकात्मर्तव्यताबन्धनतो मोचयिष्यति तस्मात्पुत्रमनुशिष्ट लोक्यं लोकहितं पितुराहुर्ब्राम्हाणा: । अत एव हयेनं पुत्रमनुशासति लोक्योऽयं न: स्यादिति पितर: ॥भाष्यं :--- स पिता यदा यस्मिन्काल एवंवित्पुत्रसमर्पितकर्तव्यताक्र्तुरस्माल्लोकात्प्रौति म्रियतेऽथ तदैभिरेव प्रकृतैर्वाडमन; प्राणै: पुत्रमाविशति पुत्रं व्याप्रोति । अध्यात्मपरिच्छेदहेत्वपगमात्पितुर्वाडमन:प्राणा: स्वेनाऽऽधिदैविकेन रूपेण पृथिव्यग्न्याद्यात्मना भिन्नघटाप्रदीपरकाशवत्सर्वमाविशन्ति । तै: प्राणै: स पिताऽप्याविशति वाङमन: पाणात्मभावित्वात्पितु: । अहमस्म्यनन्ता वाङमन:प्राणा अध्यात्माइभेदविस्तारा इत्येवं भावितो हि पिता । तस्मात्तत्प्राणानुवृत्तित्वं पितुर्भवतीति युक्तमुक्तमेभिरेव प्राणै: सह पुत्रमाविशतीति ॥ भाष्यं :--- सर्वेषां हयसावात्मा भवति पुत्रस्य च । एतदुक्तं भवति यस्य पितुरेवमनुशिष्ट: पुत्रो भवति सोऽस्मिन्नेव लोके वर्तते पुत्ररूपेण नैव मृतो मन्तव्य इत्यर्थ: । तथा च श्रुत्यन्तरे “सोऽस्यायमितर आत्मा पुण्येभ्य: कर्मभ्य: प्रतिधीयते” इति ॥भाष्यं :--- अथेदानीं पुत्रनिर्वचनमाह । स पुत्रो यदि कदाचिदनेण पित्राऽक्ष्णया कोणच्छिद्रतोऽन्तराऽकृतं भव्ति कर्तव्यम् । तस्मात्कर्तव्यतारूपापात्पित्राऽकृतात्सर्वस्माल्लोकप्राप्तिप्रतिबन्धरूपात्पुत्नो मुञ्चति मोचयति तत्सर्वं स्वयमनुतिष्ठन्पूरयित्वा । तस्मात्पूरणेन त्रायते स पितरं यस्मात्तस्मात्पुत्रो नाम । इदं तत्पुत्रस्य पुत्रत्वं यत्पितुच्छिद्र पूरयित्वा त्रायते ॥भाष्यं :--- स पितैवंविधेन पुत्रेण मृतोऽपि सन्नमृतोऽस्मिन्नेव लोके प्रतितिष्ठत्येवमसौ पिता पुत्रेणेमं मनुष्यलोकं जयति । न तथा विद्याकर्मभ्याम देवलोकपितृलोकौ स्वरुपलाभसत्तामात्रेण । न हि विद्याकर्मणी स्वरूपलाभव्यतिरेकेण पुत्नवव्द्यापारान्तरापेक्षया लोकजयहेतुत्वं प्रतिपद्येते । अथ कृतसंप्रत्तिकं पितरमेनमेते वागादय: प्राणा दैवा हैरण्यगर्भा अमृता अमरणधर्माण आविशन्ति ॥१७॥श्रुति :--- पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥१८॥अर्थ :--- पृथिवी व अग्नि यांपासून अधिदैवात्मिका वाक या संप्रदान केलेल्या पित्यामध्यें प्रवेश करिते. तीच दैवी वाक कीं जिच्यायोगानें पुरुष जें जें बोलतो तें तें होतें. ॥१८॥भाष्यं :--- कथमिति वक्ष्यति पृथिव्यै चैनमित्यादि । एवं पुत्रकर्मापरविद्यानां मनुष्यकोकपितृलोकदेवलोकसाध्यार्थता प्रदर्शिता शृत्या स्वयमेव । अत्र केचिद्वावदूका; श्रुत्युक्तविसेषार्थानभिज्ञा; सन्त: पुत्रादिसाधनानं मोक्षार्थतां वदन्ति ।त तेषां मुखापिधानं श्रुत्येदं कृतं “जाया मे स्यात” इत्यादि पाडक्तं काम्यं कर्मेत्य्पक्रमेण पुत्रादीनां च साध्यविशेषविनियोगोपसंहारेण च । तस्माद्दणश्रुतिरविद्वद्विशया न परमात्मविद्विषयेति सिद्धम । वक्ष्यति च “किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक:” इति ॥भाष्यं :--- केचित्तु पितृलोकदेवलोकजयोऽपि पितृलोकदेवलोकाभ्यां व्यावृत्तिरेव । तस्मात्पुत्रकर्मापरविद्याभि: समुच्चित्यानुष्ठिताभिस्त्रिभ्य एतेभ्यो व्यावृत्त: परमत्मविज्ञानेन मोक्षमधिगच्छतीइत परंपरया मोक्षार्थान्येव पुत्रादिसाधनानीच्छन्ति । तेषामपि मुखापिधानायेयमेव श्रुतिरुत्तरा कृतसंप्रत्तिकस्य पुत्रिण: कर्मिणस्त्र्यन्नात्मविद्याविद: फलप्रदर्शनाय प्रवृत्ता ॥भाष्यं :--- न चेदमेव फल मोक्षफलमिति शक्यं वक्तुम । त्र्यन्नसंबन्धान्मेधात्प:कार्यत्वाच्चानानां “पुन: पुनर्जनयते: इति दर्शनात । “यद्धैतन्न कुर्यात्क्षीयेत ह” इति च क्षयशअवणात “शरीरं ज्योतीरूफम” मित च कार्यकरणत्वोपपत्ते: “त्रयं वा इदं” इति च नामर्पकर्मात्मकत्वेनोपसंहारात ॥भाष्यं :--- न चेदमेव साधनत्रयं संहतंसत्कस्यचिन्मोक्षार्थं कस्यचित्त्र्यन्नात्मफलमित्यस्मादेव वाक्यादवगन्तुं शक्यं पुत्रादिसाधनानां त्र्यनात्मफलदर्शनेनैवोपक्षीणत्वाद्वाक्यस्य ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP