पंचमम् ब्राम्हणम् - भाष्यं ७

सदर ग्रंथाचे लेखक विष्णुशास्त्री वामन बापट (जन्म: पाऊनवल्ली-राजापूर तालुका, रत्नागिरी जिल्हा, मे २२, इ.स. १८७१; मृत्यू : डिसेंबर २०, इ.स. १९३२) हे महाराष्ट्रातील एक शांकरमतानुयायी अद्वैती, प्राचीन संस्कृत वाङ्मयाचे भाषांतरकार आणि भाष्यकार होते.


भाष्यं :---  किं द्दष्टवानसीदं रूपमित्युक्तो वदत्यन्यत्र मे गतं मन आसीत्सोऽहमन्यत्रमना आसं नादर्शम । तथेदं श्रुतवानसि मदीयं वच इत्युक्तोऽन्यत्रमना अभूवं नाश्रौषं न श्रुतवानस्मीति । तस्माद्यस्यासंनिधौ रूफादिग्रहणसमर्थस्यापि सतश्चक्षुरादे: खस्वविषयसंबन्धे रूपशब्दादिज्ञानं न भवति । यस्य च भावे भवति तदन्यदस्ति मनो नामान्त:करणं सर्वकरणविषययोगीत्यवगम्यते । तस्मात्सर्वो हि लोको मनसा हयेव पश्यति मनसा शृणोति तव्द्यग्रत्वे दर्शनाद्यभावात ॥

भाष्यं :---  अस्तित्वे सिद्धे मनस: स्वरूपार्थमिदमुच्यते । काम: स्त्रीव्यतिकराभिलाषादि: । संकल्प: प्रत्युपस्थितविषयविकल्पनं शुक्लनीलादिभेदेन । विचिकित्सा संशयज्ञानम । श्रद्धाऽद्दष्टार्थेषु कर्मस्वास्तिक्यबुद्धिर्देवतादिषु च । अश्रद्धा तद्विपरीता बुद्धि: । धृतिर्धारणं देहाद्यवसाद उत्तम्भनम । अधृतिस्तद्विपर्यय: । हीर्लज्जा । धी: प्रज्ञा । भीर्भयमित्येतदेव्मादिकं सर्वं मन एव मनसोऽन्त:करणस्य रूपांण्येतानि ॥

भाष्यं :---   मनोस्तित्वं प्रत्यन्यच्च कारणमुच्यते । तस्मान्मनो नामास्त्यन्त:करणम । यस्माच्चक्षुषो हयगोचरे पृष्ठतोऽप्युपस्पृष्ट: केनचिद्धस्तस्यायं स्पर्शो जानोरयमिति विवेकेन प्रतिपद्यते । यदि विवेककृन्मनो नाम नास्ति तर्हि त्वडमात्रेण कुतो विवेकप्रतिपत्ति: स्यात । यत्तद्विवेकप्रतिपत्तिकारणं तन्मन: ॥

भाष्यं :---  अस्ति तावन्मन: स्वरूपं च तस्याधिगतम । त्रीण्यन्नानीह फलभूतानि कर्मणां मनोवाक्प्राणाख्यान्यध्यात्ममधिभूतमधिदैवं च व्याचिख्यासितानि । तत्राऽऽध्यात्मिकानां वाङमन: प्राणानां मनो व्याख्यातम । अथेदानीं वाग्वक्तव्येत्यारम्भ: । य: कश्च लोके शब्दो ध्वनिस्ताल्वादिव्यङग्य: प्राणिभिर्वर्णादिलक्षण इतरो वा वादित्रमेघादिनिमित्त: सर्वो ध्वनिर्वागेव सा ॥

भाष्यं :---  इदं तावद्वाच: स्वरूपमुक्तम । अथ तस्या: कार्यमुच्यते । एषा वाग्घि यस्मादन्तमभिधेयावसानमभिधेयनिर्णयमायत्ताऽनुगता । एषा पुन: स्वयं नाभिधेयवत्प्र्काश्याऽभिधेयप्रकासिकैव प्रकाशात्मकत्वात्प्रदीपादिवत । न हि प्रदीपादिप्रकाश: प्रकाशान्तरेण प्रकाश्यते तद्वद्वाक्प्रकाशिकैव स्वयं न प्रकाश्येत्यनवस्थां श्रुति: परिहरत्येषा हि न प्रकाश्या प्रकाशकत्वमेव वाच: कार्यमित्यर्थ: ॥

भाष्यं :---  अथ प्राण उच्यते । प्राणो मुखनासिकासंचार्या हृदयवृत्ति: प्रणयनात्प्राण; । अपनयनान्मूत्रपुरीषादेरपानोऽधोवृत्तिरानाभिस्थान: । व्यानो व्यायमनकर्मा व्यान: प्राणापानयो: संधिर्वीर्यवत्कर्महेतुश्च । उदान उत्कर्षोर्ध्वगमनादिहेतुरापादतलमस्तकस्थान ऊर्ध्ववृत्ति: । समान: समं नयनादभुक्तस्य पीतस्य च कोष्ठस्थानोऽन्नपक्ता । अन इत्येषां वृत्तिविशेषाणां सामान्यभूता सामान्यदेहचेष्टाभिसंबन्धिनी वृत्ति: । एवं यथोक्तं प्राणादिवृत्तिजातमेतत्सर्वं प्राण एव । प्राण इति वृत्तिमानाध्यात्मिकोऽन उक्त: । कर्म चास्य वृत्तिभेदप्रदर्शनेनैव व्याख्यातम ॥

भाष्यं :--- व्याख्यातान्याध्यात्मिकानि मनोवाक्प्राणाख्यान्यन्नान्येतन्म एतद्विकार: प्राजापत्यैरेतैर्वाङमन:प्राणैरारब्ध: । कोऽसावयं कार्यकरणसंघात आत्मा पिण्ड आत्मस्वरूपत्वेनाभिमतोऽविवेकिभि: । अविशेषेणैतन्मय इत्युक्तस्य विशेषेण वाङमयो मनोमय: प्राणमय इति स्फुटीकरणम ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP