संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|चतुर्थोध्यायः|द्वितीयः पादः| सूत्र २०-२१ द्वितीयः पादः सूत्र १ सूत्र २-३ सूत्र ४ सूत्र ५ सूत्र ७ सूत्र ८ सूत्र ९-१२ सूत्र १३ सूत्र १४-१६ सूत्र १७ सूत्र १८-१९ सूत्र २०-२१ द्वितीयः पादः - सूत्र २०-२१ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २०-२१ Translation - भाषांतर अतश्चायनेऽपि दक्षिणे ॥२०॥अतश्चायनेऽपि दक्षिणे ॥अत एव चोदीक्षानुपपत्तेरपाक्षिकफलत्वाच्च विद्याया अनियतकालत्वाच्च मृत्योर्दक्षिणायनेऽपि म्रियमाणो विद्वान्प्राप्नोत्येव विद्याफलम् ।उत्तरायणमरणप्राशस्त्यप्रसिद्धेर्भीष्मस्य च प्रतिक्षादर्शनाद् आपूर्यमाणपक्षाद्यान्पदुदङ्ङेति मासांस्तानिति च श्रुतेरपेक्षितव्यमुत्तरायणमितीमामाशङकामनेन सूत्रेणापनुदति ।प्राशस्त्यप्रसिद्धिरविद्वद्विषया ।भीष्मस्य प्रतिपालनमाचारप्रतिपारुनार्थं पितृप्रसादललधस्वच्चन्दमृत्प्युताख्यापनार्थं च ।श्रुतेस्त्वर्थं वक्ष्यति आतिवाहिकास्तल्लिङगादिति ॥२०॥योगिन: प्रति च स्मर्यते स्मार्ते चैते ॥२१॥ननु च यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: ।प्रयाता यान्ति तं कालं बक्ष्यामि भरतर्षभेति कालप्राधान्येनोपकरम्याहरादिकालविश्वेष: स्मृतावपुनरावृत्तये नियमित: कथं रात्रौ दक्षिणायने वा प्रयातोऽनावृत्तिं यायादिति ।अत्रोच्यते ॥योगिन: प्रति च स्मर्यत स्मार्ते चैते ॥योगिन: प्रति चायमहरादिकालविनियोगोऽनावृत्तये स्मर्यते ।स्मार्ते चैते योगसांख्ये न श्रौते ।अतो विषयभेदात्प्रमाणविशेषाच्च नास्य स्मार्तस्य कालविनियोगस्य श्रौतेहु विज्ञानेष्ववतार: ।ननु अग्निर्ज्योतरह: शुक्ल: षण्मासा उत्तरायणम ।धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनमिति च श्रौतावेतौ देवयानपितृयाणौ प्रत्यमिज्ञायेते स्मृतावपीति ।उच्यते तं कालं वक्ष्यामीति स्मृतौ कालप्रतिज्ञानाद्विरोधमाशङ्कय परिहार उक्त: ।यदा पुन: स्मृतावप्यग्न्याद्या देवता एवातिवाहिक्यो गृहयन्ते तदा न कश्चिद्विरोध इति ॥२१॥इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छंकरभगत्पादकृतौ शारीरकमीमांसामाष्ये चतुर्थाध्यायस्य द्वितीय: पाद: ॥२॥ Last Updated : December 22, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP