संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|चतुर्थ: पाद:| सूत्र २२-२३ चतुर्थ: पाद: सूत्र १-२ सूत्र ३-७ सूत्र ८ सूत्र ९ सूत्र १०-१३ सूत्र १४-१७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२-२३ सूत्र २४-२६ सूत्र २७ सूत्र २८ सूत्र २९-३३ सूत्र ३४ सूत्र ३५-३८ सूत्र ३९-४० सूत्र ४१-४३ सूत्र ४४-४६ सूत्र ४७ सूत्र ४८-४९ सूत्र ५० सूत्र ५१ सूत्र ५२ चतुर्थः पाद: - सूत्र २२-२३ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २२-२३ Translation - भाषांतर भावशब्दाच्च ॥२२॥भावशब्दाच्च ॥ उद्नीथमुपासीत सामोपासीताहमुक्थमस्मीति विद्यादित्यादयश्च विस्पष्टा विधिशब्दा: श्रूयन्ते ते च स्तुतिमात्रप्रयोजनतायां व्याहन्येरन् ।तथा च न्यायविदां स्नरणं कुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम् ।एतत्स्यात्सर्ववेदेषु नियतं विधिलक्शणमिति ।लिङाद्यर्थो विधिरिति मन्यमानास्त एवं स्मरन्ति ।प्रतिप्रकरणं च फलानि श्राव्यन्ते ।आपयिता ह वै कामानां बवति ।एष हयेव कामानस्येष्टे ।कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्चेत्यादीनी ।तस्मादप्युपासनविधानार्था उद्नीथादिश्रुतय: ॥२२॥पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥२३॥पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम ।जानश्रुतिर्ह पौत्रायण: श्रद्धादेयो बहुदायी बहुपाक्य आसेत्येवमादिषु वेदान्तपठितेष्वाख्यानेषु संशय: किमिमानि पारिप्लवप्रयोगार्थान्याहोस्वित्संनिहितविद्याप्रतिपत्त्यर्थनीति पारिप्लवार्था इमा आख्यानश्रुतय: ।आख्यानसामान्यात् ।आख्यानप्रयोगस्य च पारिप्लवे चोदितत्वात् । ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात् ।मन्त्रवत्प्रयोगशेषत्वादिति चेत् । तन्न । कस्मात् ।विशेषितत्वात् ।पारिप्लवमाचक्षीतेति हि प्रकृत्य मनुर्वैवस्वतो राजेत्येवमादीनि कानिचिदेवाख्यानानि तत्र विशेष्यन्ते ।आख्यानसामान्याच्चेत्सर्वगृहीति: स्यादनर्थकमेवेदं विशेषणं भवेत् ।तस्मान्न पारिप्लवार्था एता आख्यानश्रुतय: ॥२३॥ N/A References : N/A Last Updated : December 21, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP