संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|रसगड्गाधर:|रूपकालंकारः| लक्षण १९ रूपकालंकारः लक्षण १ लक्षण २ लक्षण ३ लक्षण ४ लक्षण ५ लक्षण ६ लक्षण ७ लक्षण ८ लक्षण ९ लक्षण १० लक्षण ११ लक्षण १२ लक्षण १३ लक्षण १४ लक्षण १५ लक्षण १६ लक्षण १७ लक्षण १८ लक्षण १९ लक्षण २० लक्षण २१ लक्षण २२ लक्षण २३ लक्षण २४ लक्षण २५ लक्षण २६ रूपकालंकारः - लक्षण १९ रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे. Tags : grammerrasagangadhar लक्षण १९ Translation - भाषांतर अपि च तद्नतधर्मवत्त्वबुद्धे: कथं तदभेदबुद्धि: फलं स्यात् । नहि साधारणधर्मावच्छिन्नाभेदज्ञानस्य तत्तदसाधारणधर्मावच्चिन्नाभेदज्ञाने हेतुत्वं काप्यवगतम् । घटपटयोर्द्रव्यत्वेनाभेदग्रहेऽपि घटत्वादिना भेदग्रहात् । तदभिन्नत्वेन ज्ञानस्य पुनस्तद्धर्मप्रतिपति: फलं स्यात् । प्रवाहाभिन्नज्ञानस्येव शैत्यपावनत्वादिप्रतिपत्ति: ।अत एव-‘ कृपया सुधया सिञ्ज हरे मां तापमूर्च्छितम् । जगज्जीवन तेनाहं जीविष्यामि न संशय: ॥’इत्यादावमृताभिन्नत्वबोधे सत्येव कृपाया: सेके करणत्वेनान्वय: । तादृशसेकस्य जीवने हेतुत्वेन इति दिक् ।अथ कथं ‘ गाम्भीर्येण समुद्रोऽयं सौन्दर्येण च मन्मथ: ‘ इत्यत्र बोध: । श्रृणु-प्राचां तावल्लक्ष्यमाणैकदेशे सादृश्ये प्रयोज्यताया अभे-दस्य वा तृतीयार्थस्यान्वयाद्नाम्भीर्यप्रयोज्यसमुद्रसादृश्यवदभिन्नोऽयम्, गाम्भीर्याभिन्नसमुद्रवृत्तिधर्मवदभिन्नोऽयमिति वा धी: । लक्षणां विनैव अभेदसंसर्गेणान्वयवादिनां पुनरित्थम्-कविना स्वे़च्छामात्रादुपकल्पिताअसन्तोऽप्यन्त:करणपरिणामात्मका अर्था उपनिबध्यर्न्त मुखचन्द्रादय: । तेषु च साधारणधर्माणामस्त्येव प्रयोजकत्वम्, तद्दर्शनाधीनत्वात्तन्नि-निर्मिते: । एवं च गाम्भीर्यादिप्रयोज्यसमुद्राद्यभिन्न इति बुद्धिरप्रत्यूहेति । यद्वा ज्ञानजन्य-ज्ञानप्रकारत्वं तृतीयार्थ:, वह्लिमान्धूमादित्यादौ पञ्चम्यर्थ-तया तस्य कल्पनात् । एवं च गम्भीर्यज्ञानजन्यज्ञानप्रकारसमुद्राभिन्न इत्यादिर्बोध: । तदिदं रूपकं विषयविषयिणो: सामानाधिकरण्येअपदार्थतया संसर्ग: । यथा ‘ बुद्धिर्दीपकला ’-इत्यादौ । वैयधिकरण्ये च शब्दार्थतया क्कचिद्विशेष्यम् । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP